बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 126, कुल 1105 में से
संदर्भ में पढ़ेंAdh. IX. Sl. 5-6] नवमोऽध्यायः 107 अजवीथी तु दहन'षाढयुग्ममिति स्मृता ॥ पूर्वोत्तरा नागवीथी गजवीथी तदुत्तरा । ऐरावती ततो याम्या एतास्तूत्तरतः स्मृताः ॥ आर्षभी तु चतुर्थी स्याद्गोवीथी पञ्चमी स्मृता । षष्ठी जारद्रवी ज्ञेया तिस्रस्ता मध्यमाश्रिताः ॥ सप्तमी मृगवीथी स्यादजवीथी तथाष्टमी । दहना नवमी ज्ञेया दक्षिणं मार्गमाश्रिताः ॥ तथा च समाससंहितायाम् । वीथी नागा नाम्नी स्वातिर्भरणी च कृत्तिका चैव । स्वायम्भुवस्त्रिभाः स्युर्गजवीथ्यैरावती वृषभा ॥ एकपदादितुषकं गौः स्याज्जारद्गवी त्रिभा श्रवणात् । मैत्रस्त्रिभं मृगाऽजा हस्तश्चित्रा विशाखा च ॥ द्वे चापाढे दहना तिस्र उदग्विथयः क्रमाच्छुभदाः । मध्या मध्यास्तिस्रो याम्याः पापा मृगाद्यास्ताः ॥ वीथीमार्गानपरे कथयन्ति यथास्थितान् भमार्गस्य । नक्षत्राणां तारा याम्योत्तरमध्यमास्तद्वत् ॥५॥ Sloka 5.—It has been declared by other sages that just as there are the three courses in the starry firmament, even so, the asterisms have their positions defined as northern, central and southern according to their situation in respect of the ecliptic. Similarly, if Venus transits north of a star, he is said to be in his northerly course, etc. तथा च काश्यपः नक्षत्राणां त्रयो मार्गा दक्षिणोत्तरमध्यमाः । उदक्स्थास्तारकाः सौम्ये मध्यमो मध्यमा स्मृतः ॥ दक्षिणा दक्षिणे मार्गो नक्षत्रेषु प्रकीर्तितः । नक्षत्रात्सौम्यगः सौम्यमार्गस्थो ग्रह उच्यते ॥ दक्षिणे दक्षिणे मार्गो मध्ये मध्य इति स्मृतः । उत्तरमार्गो याम्यादि निगदितो मध्यमस्तु भाग्याद्यः । दक्षिणमार्गोऽषाढादि कैश्चिदेवं कृता मार्गाः ॥६॥