बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 507, कुल 1105 में से
संदर्भ में पढ़ें488 बृहत्संहितायाम् [Adh. Sl. LV. 17-18. Sloka 16.—When the fruits of a tree are destroyed, it should be watered with milk cooled after being boiled with horse-gram, black gram, green gram, sesamum and barley. Being so treated, it will have abundant flowers and fruits. अविकाजशकृच्चूर्णस्याढके द्वे तिलाढकम् । सक्तुप्रस्थो जलद्रोणो गोमांसतुलया सह ॥१७॥ सप्तरात्रोषितैरेतैः सेकः कार्यों वनस्पतेः । वल्लीगुल्मलतानां च फलपुष्पाय सर्वदा ॥१८॥ Slokas 17-18.—For increasing the yield of flowers and fruits of trees, creepers and shrubs, they should be sprinkled always with a mixture of two Adhakas (128 palas) of the powder of the dung of goats and sheep, one Adhaka of sesamum, a Prastha (16 palas) of wheat parti- cles, a Tula (100 palas) of beef and a Drona (256 palas) of water kept for seven nights. उक्तं च त्रियवं कृष्णलं विन्द्यान्माषलः पञ्चकृष्णलः । ते स्युर्द्वादश लक्षाख्यं सुवर्णमथ षोडश ॥ पञ्चलक्षैश्चतुर्भिस्तु सुवर्णैर्निष्क उच्यते । चतुष्पलोऽथ कुडवः प्रस्थः स्यात्तच्चतुष्टयम् ॥ आढकस्तु चतुष्प्रस्थो द्रोणस्तु चतुराढकः । मानिका तु चतुर्द्रोणा खारी स्यात्तच्चतुष्टयम् ॥ तुला पलशतं ज्ञेयं भारः स्याद्विंशतिस्तुलाः । शुष्कद्रव्येषु संज्ञेयं चार्द्रेषु द्विगुणा भवेत् ॥ तथा च काश्यपः अजविकानां द्वौ प्रस्थौ शकृच्चूर्णं च कारयेत् । तिलानामाढकं दद्यात् सक्तूनां प्रस्थमेव च ॥ गोमांसशतमेकं स्याद्दूं सार्धं सलिलस्य च । सप्ताहमुषितैरेतैः सेकं दद्याद्वनस्पतेः ॥ स भवेत्फलपुष्पैश्च पत्रैश्चाङ्कुरितैर्युतः ।