चक्रदत्त (चक्रपाणिदत्त - पदार्थचन्द्रिका व हिन्दी व्याख्या सहित)
Chakradatta Hindi
महामहोपाध्याय चक्रपाणिदत्त द्वारा
स्रोत: Chakradatta Chikitsa Sangraha with Hindi Commentary (उद्गम)
पृष्ठ 432, कुल 674 में से
संदर्भ में पढ़ेंआंध्रतात्पर्यसहितमु. 411
अगारधूम तैलमु.
श्लो. अगारधूमरजनी सुराकीट्टं च तैस्त्रिभिः, भागोत्तरैः पचेत्तैलं कंडूशोथरुजासहं। 14। शोधनं रोपणं चैव सवर्णकरणं तथा, अर्शसां ఛिन्नदग्धानां क्रियाकार्योपदंशवत्। 15।
तात्पर्यमु: इंटिबोज़ु, पसुपु, मद्यमु वीटिनि भागोत्तरमुलुगा तैलमुतो पक्वमुचेसि उपयोगिंचिननु उपदंशादुलु निवर्तिंचुनु.
इदि चक्रदत्तयंदु उपदंशाधिकारप्रकरणमु मुगिसेनु.
42. शूकदोषाधिकारमु.
शूकदोषमुलकु सामान्योपायमुलु.
श्लो. हितंच सर्पिषः पानं पथ्यं चापि विरेचनं, हित श्शोणितमोक्ष श्च य च्चापि लघुभोजनं। 1।
सर्षपीं लिखितां सूक्ष्मैः कषायै रवचूर्णयेत्, तैरेवाभ्यंजनं तैलं साधयेद्व्रणरोपणं। 2।
क्रियेय मधिमंथेपिरक्तं स्राव्यं तथोभयोः, अष्ठीलायां हृते रक्ते श्लेष्मग्रंथिव दाचरेत्। 3।
कुंभिकायां हरेद्रक्तं पक्वायां शोधिते व्रणे, तिंदुका त्रिफलालोद्ध्रै र्लेप स्तैलं च रोपणं। 4।
अलज्यां हृतरक्ताया मय मेव क्रियाक्रमः, स्वेदये द्ग्रथितं स्निग्धं नाडीस्वेदेन बुद्धिमान्। 5।
सुभोष्णै रुपनाहै श्च सस्निग्धै रुपनाहयेत्, उत्पन्नाभ्यां तु पिडकां संछिद्य बडिशोद्धृतां। 6।
कल्कै श्चूर्णैः कषायाणां क्षौद्रयुक्तै रुपाचरेत्, क्रमः पित्त विसर्पोक्तः पुष्करीमूढयो र्हितः। 7।
त्वक्पाके स्पर्शहान्यां च सेचये न्मृदितं पुनः, बलातैलेन कोष्णेन मधुरै श्चोपनाहयेत्। 8।
रसक्रिया विधातव्या लिखिते शतपोनके, पृथक्पर्ण्यादिसिद्धं च तैलं देय मनंतरं। 9। पित्त...