भारतकोश
छान्दोग्योपनिषद् (शाङ्करभाष्य सहित)

छान्दोग्योपनिषद् (शाङ्करभाष्य सहित)

Chandogya Upanishad with Shankara Bhashya

आदि शङ्कराचार्य द्वारा

स्रोत: Gita Press Gorakhpur · Gita Press, Gorakhpur (उद्गम)

DevanagariSanskritpublished978 पृष्ठ

पृष्ठ 330, कुल 978 में से

संदर्भ में पढ़ें
पृष्ठ 330
३२६छान्दोग्योपनिषद्[ अध्याय ३

| पुरुष आत्मानं यज्ञं मन्यमानो ब्रूयाज्जपेदित्यर्थ इमं मन्त्रम्— | अपनेको यज्ञ मानते हुए कहे—अर्थात् इस मन्त्रको जपे— | | हे प्राणा वसव इदं मे प्रातःसवनं मम यज्ञस्य वर्तते तन्माध्यन्दिनं सवनमनुसंतनुतेति माध्यन्दिनेन सवनेनायुषा सहितमेकीभूतं संततं कुरुतेत्यर्थः । माहं यज्ञो युष्माकं प्राणानां वसूनां प्रातःसवनेशानां मध्ये विलोप्सीय विलुप्येय विच्छिद्येयेत्यर्थः । इतिशब्दो मन्त्रपरिसमाप्त्यर्थः । स तेन जपेन ध्यानेन च ततस्तस्मादुपतापादुदेत्युद्गच्छति । उद्गम्य विमुक्तः सन्नगदो ह्यनुपतापो भवत्येव ॥२॥ | 'हे प्राणरूप वसुगण ! यह मेरे यज्ञका प्रातःसवन विद्यमान है; इसे माध्यन्दिनसवनरूपसे अनुसंतत करो; अर्थात् इसे माध्यन्दिनसवनरूप मेरी आयुके साथ एकीभूत कर दो । यज्ञस्वरूप मैं प्रातःसवनके अधिष्ठाता आप प्राणरूप वसुओंके मध्यमें विलुप्त अर्थात्-विच्छिन्न न होऊँ । मूलमें 'इति' शब्द मन्त्रकी समाप्तिके लिये है । उस जप और ध्यानके द्वारा वह उस कष्टसे छूट जाता है और उससे छूटकर अगद—संताप-शून्य ही हो जाता है ॥ २ ॥ |

<div align="center">-: ✤ :-</div>

अथ यानि चतुश्चत्वारिग्ंशद्वर्षाणि तन्माध्यन्दिनग्ंसवनं चतुश्चत्वारिग्ंशदक्षरा त्रिष्टुप्त्रैष्टुभं माध्यन्दिनग्ंसवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते हीदग्ंसर्वग्ंरोदयन्ति ॥३॥ तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा रुद्रा इदं मे माध्यन्दिनग्ंसवनं तृतीयसवनमनुसंतनुतेति माहं प्राणानाग्ंरुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ ४ ॥