भारतकोश
चरक संहिता (द्वितीय भाग: चिकित्सा, कल्प व सिद्धि स्थान)

चरक संहिता (द्वितीय भाग: चिकित्सा, कल्प व सिद्धि स्थान)

Charaka Samhita Part 2 with Hindi Translation

महर्षि चरक व दृढ़बल द्वारा

स्रोत: चौखम्बा विद्याभवन · चौखम्बा विद्याभवन (उद्गम)

DevanagariSanskritpublished616 पृष्ठ

पृष्ठ 202, कुल 616 में से

संदर्भ में पढ़ें
पृष्ठ 202

१८८ चरकसंहिता [ अ० १२ इत्यर्थं पुनरेवेयं विवक्षा नो विधीयते । तस्मिन्नेवाधिकरणे यत्पूर्वमभिदर्शितम् ॥ ४२ ॥ इन बारह अध्यायों में मरणोन्मुख रोगी के लक्षणों को विस्तार से कह दिया है। अब संक्षेप में इनके पर्याय कहते हैं। पर्याय द्वारा अर्थ का ज्ञान भली प्रकार से हो जाता है। इसलिये इसी विस्तार को अब सक्षेप में कहते हैं—इसमे पुनरुक्ति दोष नहीं मानना ॥ ४०-४२ ॥ वसतां चरमे काले शरीरेषु शरीरिणाम् । अध्युग्राणां विनाशाय देहेभ्यः प्रविवत्सताम् ॥ ४३ ॥ इच्छास्तितिक्षता प्राणान् कान्तं वासं जिहासताम् । तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्य प्रविविक्षताम् ॥ ४४ ॥ विनाशायेह रूपाणि यान्यवस्थान्तराणि च । भवन्ति तानि वक्ष्यामि यथाद्देशं यथागमम् ॥ ४५ ॥ प्राणाः समुपतप्यन्ते विज्ञानमुपरुध्यते । वमन्ति बलमङ्गानि चेष्टा व्युपरमन्ति च ॥ ४६ ॥ इन्द्रियाणि विनश्यन्ति खिलीभवति चेतना । औत्सुक्यं भजते सत्त्व चेतो भीराविशत्यपि ॥ ४७ ॥ स्मृतिस्त्यजति मेधा च ह्रीश्रियो चापसर्पतः । उपसर्पन्ते पाप्मान ओजस्तेजश्च नश्यति ॥ ४८ ॥ शीलं व्यावर्ततेऽत्यर्थं भक्तिश्च परिवर्तते । विक्रियन्ते प्रतिच्छायाश्छायाश्च विकृतिं प्रति ॥ ४९ ॥ शुक्र प्रच्यवते स्थानादुन्मार्गं भजतेऽनिलः । क्षयं मांसानि गच्छन्ति गच्छन्त्यसृगुपक्षयम् ॥ ५० ॥ ऊष्माणः प्रलयं यान्ति विश्लेष यान्ति संधयः । गन्धा विकृततां यान्ति भेद वर्णस्वरौ तथा ॥ ५१ ॥ वैवर्ण्यं भजते कायः कायच्छिद्रं विशुष्यति । धूमः संजायते मूर्ध्नि दारुणाख्यश्च चूर्णकः ॥ ५२ ॥ सततस्पन्दना देशाः शरीरे येऽभिलक्षिताः । ते स्तम्भानुगताः सर्वे न चलन्ति कथंचन ॥ ५३ ॥ गुणाः शरीरदेशानां शीतोष्णमृदुदारुणाः । विपर्यासेन वर्तन्ते स्थानेष्वन्येषु तद्विधाः ॥ ५४ ॥ नखेषु जायते पुष्प पङ्को दन्तेषु जायते । जटाः पक्ष्मसु जायन्ते सीमन्ताश्चापि मूर्धनि ॥ ५५ ॥