भारतकोश
चरक संहिता (द्वितीय भाग: चिकित्सा, कल्प व सिद्धि स्थान)

चरक संहिता (द्वितीय भाग: चिकित्सा, कल्प व सिद्धि स्थान)

Charaka Samhita Part 2 with Hindi Translation

महर्षि चरक व दृढ़बल द्वारा

स्रोत: चौखम्बा विद्याभवन · चौखम्बा विद्याभवन (उद्गम)

DevanagariSanskritpublished616 पृष्ठ

पृष्ठ 301, कुल 616 में से

संदर्भ में पढ़ें
पृष्ठ 301

अ० ३ ] चिकित्सतस्थानम् २८७ भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक् ॥ ९१ ॥ वातपित्तोल्बणे विद्याल्लिङ्गं मन्दकफे ज्वरे । शैत्यं कासोऽरुचिस्तन्द्रा पिपासा दाहरुग्व्यथाः ॥ ९२ ॥ वातश्लेष्मोल्बणे व्याधौ लिङ्गं पित्तावरे विदुः । छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना ॥ ९३ ॥ मन्दवाते व्यवस्यन्ते लिङ्गं पित्तकफोल्बणे । सन्ध्यस्थिशिरसः शूलं प्रलापो गौरवं भ्रमः ॥ ९४ ॥ वातोल्बणे स्याद्द्व्यनुगे तृष्णा कण्ठास्यशोषता । रक्तविण्मूत्रता दाहः स्वेदस्तृड्बलसंक्षयः ॥ ९५ ॥ मूर्च्छा चेति त्रिदोषे स्याल्लिङ्गं पित्ते गरीयसि । आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमैः ॥ ९६ ॥ कफोल्बणं सन्निपातं तन्द्राकासेन चादिशेत् । प्रतिश्या छर्दिरालस्यं तन्द्राऽरुच्यग्निमार्दवम् ॥ ९७ ॥ हीनवाते पित्तमध्ये चिह्नं श्लेष्माधिके मतम् । हारिद्रमूत्रनेत्रत्वं दाहस्तृष्णा भ्रमोऽरुचिः ॥ ९८ ॥ हीनवाते मध्यकफे लिङ्गं पित्ताधिके मतम् । शिरोरुग्वेपथुः श्वासः प्रलापश्च्छर्द्यरोचकौ ॥ ९९ ॥ हीनपित्ते मध्यकफे लिङ्गं वाताधिके मतम् । शीतको गौरवं तन्द्रा प्रलापोऽस्थिशिरोतिरुक् ॥ १०० ॥ हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके विदुः । श्वासकासप्रतिश्याया मुखशोषोऽतिपार्श्वरुकू ॥ १०१ ॥ कफहीने पित्तमध्ये लिङ्गं वाताधिके मतम् । पर्वभेदोऽग्निमान्द्य च तृष्णा दाहोऽरुचिर्भ्रमः ॥ १०२ ॥ कफहीने वातमध्ये लिङ्गं पित्ताधिके विदुः । प्रथम सूत्ररूप में कहे तेरह प्रकार के सन्निपात ज्वर के लक्षण पृथक् पृथक् कहूँगा। (१) वात-पित्त प्रधान और मन्दकफ ज्वर के लक्षण—भ्रम, प्यास, दाह, भारीपन, शिर में अधिक वेदना होती है । ( २ ) वात-कफ प्रधान और हीनपित्त ज्वर में—शीत लगना, खासी, अरुचि, तन्द्रा, प्यास, दाह, पीड़ा, व्यथा होती, १. 'वमिदाहतृषाभ्रमैः' इति च पाठः । २. 'ऽग्निदौर्बल्यं' इति च पाठः ।