भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 111, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 111

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ११३ वासु मासद्वयम्' इति प्राणपरित्यागरागिणीं प्राणसमां समाश्वास्याग्वि- श्यतामयासीत् । ( ६ ) अथ विदितवार्तावार्तौ महादेवीमालवेन्द्रौ जामातरमाकारपक्ष- पातिनावात्मपरित्यागोपन्यासेनारिणा जिघांस्यमानं ररक्षतुः । न शेकतुस्तु तमप्रभुत्वादुत्तारयितुमापदः । स किल चण्डशीलश्चण्डवर्मा सर्वमिदमुद- न्तजातं राजराजगिरौ तपस्यते दर्पसाराय सन्दिश्य सर्वमेव पुष्पोद्भवकु- तुम्बकं सर्वस्वहरणपूर्वकं सद्य एव बन्धने क्षिप्त्वा कृत्वा च राजवाहनं केसरिकिशोरकमिव दारुपञ्जरनिबद्धं मूर्धजजालविलीनचूडामणिप्रभाव- त्यागरागिणीं प्राणविसर्जनकाङ्क्षिणीम् । अरिवश्यतां शत्रुवशंवदताम् । अयासीत् प्रापत् । गत्यर्थानां प्राप्यर्थकत्वात् । ( ९ ) विदितेति—विदिता वार्त्ता याभ्यां तौ—ज्ञातवृत्तान्तौ अत एवार्तौ पीडितौ । महादेवीमालवेन्द्रौ अवन्तिसुन्दरीपितरौ । जामातरं राजवाहनम् । आकारपक्षपातिनौ आकृतिं दृष्ट्वैव पक्षपातिनौ जातावित्यर्थः । आत्मपरीति—आत्म- परित्यागस्य स्वदेहविसर्जनस्य उपन्यासेन कथनेन—यद्येनं राजपुत्रं घातयिष्यसि तदा आवामपि प्राणान् परित्यक्ष्याव इत्युक्त्वेत्यर्थः । जिघांस्यमानं हन्तुमिष्यमाणम् । इदं तु जामातरमित्यस्य विशेषणम् । शेकतुः शक्तौ । तं राजवाहनम् । अप्रभुत्वात् असामर्थ्यात् । उत्तारयितुम् उद्धर्तुम् । चण्डशीलः क्रूरस्वभावः । उदन्तजातं वृत्ता- न्तसमूहम् । राजराजगिरौ कैलासपर्वते । तपस्यते तपःकुर्वाणाय दर्पसारोऽवन्ति- सुन्दरीभ्राताः तस्मै । सन्दिश्य निवेद्य । बन्धने कारागृहे । केसरिणः सिंहस्य किशोरः तरुणस्तमिव । दारुपञ्जरनिबद्धं काष्ठनिर्मितपञ्जरमध्यस्थम् । कृत्वेत्यस्य कर्म मूर्द्धजजाले केशसमूहे विलीनस्य गुप्तस्य चूडामणेः मातङ्गदत्तमणिविशेषस्य प्रभावेण बातोंका ध्यान करके तुम दो मास तक धैर्य रखो । इस प्रकार प्राणोंको त्यागनेमें उद्यत उस राजपुत्रीको राजकुमारने समझाकर अपने आपको शत्रुके हाथोंमें सौंप दिया । ( ९ ) मालवेन्द्र और महादेवीको जब राजकुमारके इस प्रकार पीड़ित होनेका वृत्त ज्ञात हुआ तो वे बहुत दुखी हुए क्योंकि इन लोगोंने राजकुमारकी आकृति देखकर समझलिया था कि यही मेरा भावी जामाता है । अन्तमें मालवराजने अपने प्राणोंकी बाजी लगाकर—अर्थात् 'यदि तुम इसे मारोगे तो हम दोनों भी अपने प्राणोंको त्याग देंगे' ऐसा कहकर राजकुमारके प्राणोंको बचा लिया परन्तु, उस समय उनके हाथमें न तो कोई शक्ति थी, न कोई अधिकार ही था, इसलिए वे राजकुमारको उस आपत्तिके समुद्रसे पूर्णरूपेण पार नहीं उतार सके । क्रोधी चण्डवर्माने कैलास पर्वतपर

Nepal Sanskrit University, Balmeeki Campus, Kathmandu