दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 113, कुल 474 में से
संदर्भ में पढ़ेंप्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ११५ नायातिसत्वरमापततां धरापतीनामचिरकालभाविन्यपि सन्निधावदत्ता- पेक्षः साक्षादिवावलेपो वपुष्मानक्षमापरीतः प्रतिबलं प्रतिजग्राह । ( ११ ) जगृहे च महति संपराये क्षीणसकलसैन्यमण्डलः प्रचण्ड- प्रहरणशतभिन्नमर्मा सिंहवर्मा करिणः करिणमवप्लुत्यातिमानुषप्रमाण- बलेन चण्डवर्मणा । स च तद्दुहितर्यम्बालिकायामबलारत्नसमाख्याता- दानाय निमन्त्रितानामित्यर्थः । आपतताम् आगच्छताम् । अचिरभाविनि शीघ्र- भाविनि । सन्निधौ सन्निधाने । उपस्थिताविति यावत् । अदत्तापेक्षः अपेक्षामकृत्वे- त्यर्थः । साक्षात् अग्रतः स्थित । वपुष्मान् मूर्त्तिमान् । अवलेपो गर्वः । अक्षमापरीतः कोपाक्रान्तः । प्रतिबलं शत्रुसैन्यम् । प्रतिजग्राह आक्रान्तवान् । ( ११ ) जगृहे गृहीतः चण्डवर्मणा सिंहवर्मेत्यन्वयः । संपराये युद्धे । क्षीणं नष्टं सकलं सैन्यमण्डलं यस्य सः । प्रचण्डेन भीषणेन प्रहरणशतेन शस्त्रसहस्रेण भिन्नं विदीर्णं मर्म यस्य सः । करिणः करिणमिति—एकस्मात् गजात् अन्यं गजम् अवप्लुत्य आरुह्य । अतिमानुषं मनुष्यादप्यधिकं प्राणबलं यस्य तेन । स च चण्ड- वर्मा च । तद्दुहितरि सिंहवर्मकन्यायाम् । अबलारत्नं स्त्रीरत्नमिति समाख्यातायां प्रसिद्धायाम् । अतिमात्रम् अभिलाषो यस्य सः—अत्यन्तासक्त इत्यर्थः । एनं सिंह- वर्माणम् । न व्ययुयुजत् न पृथक् चकार न जघानेत्यर्थः । विपूवँकाद् युजेर्णिज- न्ताल्लुङ् । अपितु किन्तु । अनीनयत् प्रापयामास । णीञ् प्रापणे इत्यस्य धातोर्णि- जन्तस्य लुङि रूपम् । अपनीताशेषशल्यं दूरीकृतनिखिलशस्त्रव्रणम् । एनमित्यस्य विशेषणम् । अकल्पा अचिन्त्या सन्धा प्रतिज्ञा यस्य सः । सत्यप्रतिज्ञ इति भावः । महाराजोंकी सहायताकी उन्होंने जरा भी अभिलाषा न की और साक्षात् क्रोधकी मूर्तिके समान विकराल रूप धारण कर वे क्रुद्ध होकर शत्रुसे जाकर भिड़ गये और वीरताके साथ साहसपूर्वक घमासान संग्राम किया । ( ११ ) परन्तु, चण्डवर्मा उनसे अधिक प्रबल पड़ रहा था, साथ ही उसके पास शस्त्रास्त्रबल भी पर्याप्त था । इस कारण, जैसे एक हाथीको दूसरा शक्तिशाली हाथी धर पछाड़े उसी प्रकार सिंहवर्माको उसकी सारी सेनाके नष्ट हो जानेके पश्चात् उस चण्डवर्मानि चारों ओरसे घेर लिया । चण्डवर्मा सिंहवर्माकी पुत्री अम्बालिकाको बहुत चाहता था जो स्त्रियोंमें मणिके समान देदीप्यमान थी । इसलिए उसने सिंहवर्माको घेरकर जानसे नहीं मारा अपितु उसे पकड़कर अपने शिविरमें ले गया और वहाँ उसके घावोंमें मरहम-पट्टी कराकर उसका उपचार कराने लगा तथा उसे अपने यहाँ बन्द कर रख छोड़ा । उसी समय ज्योतिषियोंको आमन्त्रित किया और उन लोगोंसे उसी रातमें