दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 114, कुल 474 में से
संदर्भ में पढ़ें११६ दशकुमारचरितम् । [ उत्तरपीठिकायां यामतिमात्राभिलाषः प्राणैरैनं न व्ययूयुजत् । अपि त्वनीनयदपनीता- शेषशल्यमकल्पसंधो बन्धनम् । अजीगणच्च गणकसंघैः 'अद्यैव क्षपाव- साने विवाहनीया राजदुहिता' इति । (१२) कृतकौतुकमङ्गले च तस्मिन्नेकपिङ्गाचलात्प्रतिनिवृत्त्यैणजङ्घो नाम जङ्घाकरिकः प्रभवतो दर्पसारस्य प्रतिसन्देशमावेदयत् - 'अयि मूढ, किमस्ति कन्यान्तःपुरदूषकेऽपि कश्चित्कृपावसरः । स्थविरः स राजा जराविलुप्तमानावमानचित्तो दुश्चरितदुहितृपक्षपाती यदेव किञ्चित्प्रलपति त्वयापि किं तदनुमत्या स्थातव्यम् । अविलम्बितमेवं तस्य कामोन्मत्तस्य चित्रवधवार्ताप्रेषणेन श्रवणोत्सवोऽस्माकं विधेयः । सा च दुष्टकन्या सहानुजेन कीर्तिसारेण निगडितचरणा चारके निरोद्धव्या इति । बन्धनं कारागृहम् । बन्धनमिति द्वितीयं कर्म, नयतेर्द्विकर्मकत्वात् । अजीगणत् गणयामास । गणकसंघैः ज्योतिषिकैः । क्षपावसाने रात्रिशेषे । (१२) कृतकौतुकेति-कृतं विहितं कौतुकं मङ्गलं विवाहसम्बन्धि कृत्यं येन तस्मिन् । तस्मिन् चण्डवर्मणि । एकपिङ्गाचलात् तदाख्यपर्वतात् । प्रतिनिवृत्य आगत्य । जंघाकरिकः वेगगामी दूतः । प्रभवतः प्रभोः । प्रतिसन्देशं प्रत्युत्तरम् । अयि मूढेति चण्डवर्मणः सम्बोधनम् । कन्यान्तःपुरेति-यः कन्यान्तःपुरं प्रविश्य दूषयति तस्मिन् । अत्र राजवाहने इत्यर्थः । कृपावसरः करुणाया अवकाशः । अस्ति किं नास्तीत्यर्थः । स्थविरो वृद्धः । स राजा मानसारः । जरेति-जरया वार्द्धकेन विलुप्तौ नाशितौ मानापमानौ यस्य तादृशं चित्तं यस्य सः । चित्रवधेति- चित्रेण प्रकारेण यो वधस्तस्य वार्त्ताप्रेषणेन-अद्भुतोपायेन तं निहत्य तद्वृत्तान्तज्ञा- पनेनेत्यर्थः । श्रवणयोः कर्णयोरुत्सव आनन्दः । निगडितचरणा निबद्धपादयुगला । चारके बन्धनालये । इत्यन्तं दर्पसारस्य सन्देशवचनम् । अम्बालिकाके साथ परिणय होनेका शुभलग्न निकालने की प्रार्थना की जिससे विवाह शीघ्र रातमें ही हो जाय । (१२) वैवाहिक मांगलिक कार्य हो जानेके पश्चात् एणजंघ नामक एक सेवक कैलास पर्वतपरसे महाराज दर्पसारका प्रतिसन्देश लेकर आया और बोला - 'महाराज की आज्ञा है कि अरे मूर्ख ! राजपुत्रीके अन्तःपुरमें प्रविष्ट होकर व्यभिचार करनेवाले दुष्टपर भी कभी दया की जाती है ! वह राजा तो अत्यन्त वृद्ध हो गया है इस कारण उसके अन्तः- करणमें मानापमानके भाव नहीं रह गये हैं । यह बात स्वाभाविक भी है । ऐसा दशामें यदि वह अपनी दुश्चरित्रा पुत्रीका पक्षपात करता हुआ बकवाद करता है तो क्या तुम भी