दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 175, कुल 474 में से
संदर्भ में पढ़ेंद्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १७७ कारो मत्कृतः' इति, ननु प्रतीतमेवैतत् 'सार्थवाहस्यार्थपतेर्विमर्दको बहि- श्चराः प्राणाः' इति । ( ४५ ) सोऽहं तत्कृते प्राणानपि परित्यजानि । ब्रह्महत्यामपि न परिहरामि । 'ममैकरात्रजागरणप्रतीकारस्तवैष चर्मरत्नाहंकारदाहज्वरः'- इति । तथा ब्रुवाणश्च पौरमुख्यैः सामर्षं निषिद्ध्यापवाहितोऽभूत् । इयं च वार्ता कृत्रिमार्तिना धनमित्रेण चर्मरत्ननाशमादावेवोपक्षिप्य पार्थिवाय निवेदिता । स चार्थपतिमाहूयोपह्वरे पृष्टवान् 'अङ्ग, किमस्ति कश्चिद्विम- र्दको नामात्र भवतः' इति । तेन च मूढात्मना 'अस्ति देव, परं मित्रम्' । शसि निन्दसि । मत्कृतं मया कृतम् । अपकारमिति स्मरामीत्यस्य कर्म । स विम- र्दकः । । धनगर्वः अर्थमदः । शुल्कक्रीतां अर्थविनिमयेन गृहीताम् । द्रव्येण अर्थेन । स्वीचिकीर्षसि स्वीकर्त्तुमिच्छसि । प्रतीतं प्रसिद्धम् । बहिश्चराः प्राणाः परममित्रम् । ( ४५) सोऽहं-विमर्दकः । तत्कृते अर्थपतिनिमित्तम् । परिहरामि त्यजामि । ब्रह्महत्यामपि न गणयामीति भावः । एकरात्रेति-एकरात्रं जागरो जागरणमेव प्रतीकारो वैरशुद्धिर्यस्य सः । चर्मरत्नेति-चर्मरत्नस्याहङ्कारः मम चर्मरत्नमस्तीति गर्वः स एव दाहज्वर ऊष्मा । तव चर्मरत्नापहरणं ममैकरात्रजागरणसाध्यं तेन च ते चर्मरत्नाहङ्कारमपनयामीति भावः । ब्रुवाणः वदन् । सामर्षं सक्रोधम् । अपवा- हितः दूरीकृतः । कृत्रिमार्त्तिना-कृत्रिमा स्वाभाविकेतरा आर्त्तिः पीडा यस्य तेन । आदौ प्रथमम् । उपक्षिप्य प्रस्तूय । पार्थिवाय राज्ञे । निवेदिता विज्ञापिता वार्त्तेति शेषः । स पार्थिवः । उपह्वरे एकान्ते । तेन अर्थपतिना । मूढात्मना अल्पबुद्धिना । मैंने आपका कौनसा अपकार किया है।' यह तो प्रसिद्ध ही है कि, मैं सार्थवाह अर्थपतिका परममित्र हूं। ( ४५ ) 'मैं उसके ( अर्थपतिके ) लिये प्राणोंको भी त्याग सकता हूँ । ब्रह्महत्याको भी नहीं गिनता हूँ मेरे एक रातका जागरण तुम्हारे चर्मरत्नरूपी अहंकारके दाहज्वरकी वैरशुद्धिके लिए काफी है।' ऐसी क्रोधपूर्ण वाणी बोलनेवाले विमर्दकको मुख्यनगरवासियोंने मनाकर हटा दिया । राजासे, उस चर्मरत्नभस्त्रिकाकी चोरीकी वार्ताका प्रथम उपक्षेप करके बनावटी पीड़ाका बहाना करनेवाले धनमित्रने निवेदन कर दिया । उस राजाने अर्थ- पतिको एकान्तमें बुला करके पूछा- हे अङ्ग ! ( मित्र ! ) विमर्दक नामक कोई व्यक्ति तुम्हारे यहां है ?' उस मन्दबुद्धिने कहा-'हे देव ! मेरा परम मित्र है।' उससे आपका