दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 207, कुल 474 में से
संदर्भ में पढ़ेंप्रतीक्षमाणो निर्गत्याभ्यधिकबलेन विद्विषा महति संपराये भिन्नवर्मा सिंहवर्मा बलादगृह्यत । अम्बालिका च बलवदभिगृह्य चण्डवर्मणा हठात्परिणेतुमात्मभवनमनीयत । कौतुकं च स किल क्षपावसाने विवाह इत्यबध्नात् । ( ७२ ) अहं च धनमित्रगृहे तद्विवाहायेव पिनद्धमङ्गलप्रतिसरस्त- मेवमवोचम्—‘सखे, समापतितमेवाङ्गराजाभिसरं राजमण्डलम् । सुगू- तानपि। सहायान् साहाय्यकारिणो नृपतीन् । अप्रतीक्षमाणः अनपेक्षमाणः । अभ्यधिकबलेन बहुतरसैन्यसमन्वितेन विद्विषा शत्रुना। संपराये युद्धे । भिन्न- वर्मा छिन्नकवचः । अगृह्यत गृहीतश्चण्डवर्मणेति शेषः । अभिगृह्य बलात्कारेण गृहीत्वा । हठात् अविमृश्यकारित्वेन । परिणेतुं विवोढुम् । आत्मभवनं चण्डव- र्मगृहम् । अनीयत नीता ! अम्बालिकेति शेषः । कौतुकं-मङ्गलसूत्रम् । स चण्डवर्मा । क्षपावसाने-रात्रिशेषे । विवाहो भविष्यतीति हेतोः । अबध्नात् बबन्ध कौतुकमिति शेषः । ( ७२) अहमपहारवर्मा । तद्विवाहाये-अम्बालिकापरिणयार्थम् । पिनद्धे- ति-पिनद्धो बद्धः मङ्गलप्रतिसरो माङ्गलिकहस्तसूत्रं येन सः । तं धनमित्रम् एवम् इत्थम् । समापतितं समागतम् । अङ्गराजाभिसरं अङ्गराजसाहाय्यकारि । राज- मण्डलं नृपतिचक्रम् सुगूढं सुगुप्तम् । सम्भूय मिलित्वा । पौरवृद्धैरिति शेषः । तत्-राजमण्डलम् । उपावर्त्तय प्रतिनिवर्त्तय; भवतां साहाय्यं नापेक्ष्यते प्रागेव परराभ्यास्कन्दनोचित विधिको करनेकी इच्छा कर रहा था, तब तक सिंहवर्माने स्वयं ही प्राचीरको तोड़ करके तथा अपने सहायक राजाओंको, जो नगरके बहुत पास आ गये थे, उनकी प्रतीक्षा किये बिना ही बहुत बड़ी सेनावाले शत्रुसे जा करके युद्ध ठान दिया । युद्धमें छिन्नकवच सिंहवर्मा चण्डवर्मा द्वारा परिवद्ध कर लिया गया। राजकुमारी अम्बालिका भी चण्डवर्मा द्वारा बलात्कारसे परिवद्ध कर ली गयी। और बलपूर्वक विवाहके लिये चण्डवर्मा उसे अपने भवनमें ले आया। चण्डवर्माने मंगलसूत्र भी ( यह समझते हुए ) धारण कर लिया है कि, रात्रिसमाप्त होने पर विवाह होगा । ( ७२ ) मैंने ( अपहारवर्माने ) भी धनमित्रके गृहमें ही उस राजपुत्री अम्बालिकाते परिणय करनेके निमित्त मंगलसूत्र धारण करके धनमित्रसे कहा—'हे सखे ! अङ्गराजके सहायक राजागण अपने दल-बलके साथ चले आ रहे हैं। अतः तुम पौरवृद्धोंके साथ उन