दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 213, कुल 474 में से
संदर्भ में पढ़ेंतृतीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । २१५ भयपलायिता वनमगाहिषि । तत्र च मे शार्दूलनखावलीढनिपतितायाः पाणिभ्रष्टः स बालकः कस्यापि कपिलाशवस्य क्रोडमभ्यलीयत । तच्छवा कर्षिणश्च व्याघ्रस्यासूनिषुरिष्वसनयन्त्रमुक्तः क्षणादलिक्षत् । भिल्लदारकैः स बालोऽपाहारि । ( ४ ) सा त्वहं मोहसुप्ता केनापि वृष्णिपालेनोपनीय स्वं कुटीरमावेश्य कृपयोपक्रान्तव्रणा स्वस्थीभूय स्वभर्तुरन्तिकमुपतिष्ठासुरसहायतया याव- द्व्याकुलीभवामि तावन्ममैव दुहिता सह यूना केनापि तमेवादेशमागमत् । असहाया । वनचरेति-वनचराणां किरातानां शरवर्षात् बाणनिक्षेपाद् भयेन पला- यिता अहमिति शेषः । अगाहिषि प्राविक्षम् । तत्र वने । शार्दूलस्य व्याघ्रस्य नखैः अवलीढा विद्धा अतएव निपतिता भूमाविति शेषः, तस्यास्तथाभूतायाः । मे इत्यस्य विशेषणम् । पाणिभ्रष्टो हस्तच्युतः । कपिलाशवस्य मृतधेनोः । क्रोडं वक्षःस्थलम् । अभ्यलीयत यत्र लीनोऽभवत् । तच्छवं कपिलाशवं व्याकर्षतीति तस्य । असून् प्राणान् । इषुश्चाणः । इष्वसनेति-अस्यतेऽनेनेति असनम्-इषोर- सनमिष्वसन धनुस्तदेव यन्त्रस्तस्मान्मुक्तस्त्यक्तः । इषुरित्यस्य विशेषणम् । अलि- क्षत् आस्वादयत्-प्राणान् जहारेत्यर्थः । लिह आस्वादे इत्यस्य धातोलुँङ् । भिल्ल- दारकैः किरातबालकैः । अपाहारि अपहृतः । ( ४ ) मोहसुप्ता मोहेन मूर्छ्या सुप्ता निद्रिता । वृष्णिपालेन मेषपालेन । 'मेष वृष्णय एडका' इत्यमरः । उपक्रान्तव्रणा चिकित्सितव्याघ्रकृतक्षता । स्वभर्तु- र्विदेहराजस्य । उपतिष्ठासर्गन्तुमिच्छुः । सार्थघाते संघभ्रंशे । राजपुत्रस्य विदेह- राजापरपुत्रस्य । तेन वनचरेण । उपयन्तुं चिन्तितायाः परिणेतुमभिलषितायाः । भयसे मैं अकेली उसे (शिशुको) लिये हुए जंगलमें घुस गयी । उस जंगलमें मैं शेरके झपटनेसे-उसके नाखूनकी खरोंच आदिके लगनेसे-भूमिपर गिर पड़ी । मेरे हाथसे वह शिशु छूट करके किसी कपिला धेनु (गौ) के मृत शवकी गोदमें गिर पड़ा । जब वह शेर उस कपिला गौके मृत शवकी ओर आकर्षित हो रहा था, ठीक उसी समय किसीके धनुषसे निकले हुए बाणके द्वारा वह (शेर) मार डाला गया । भीलके बालकोंके द्वारा वह शिशु भी अपहृत कर लिया गया । (४) मुझे, जो मैं शेरके आक्रमणसे मूर्च्छित हो गयी थी, एक गोप निश्चेष्टावस्थामें ही अपनी कुटीमें ले गया । वहाँ ला करके उस गोपने दया करके मेरी चिकित्सा आदि की तथा सेवा-शुश्रूषा करके मुझे स्वस्थ कर दिया । स्वस्थ होनेपर मैं (वृद्धा) अपने स्वामी विदेहाधिपतिके समीप जानेके लिए सहायताहीन होनेसे जब व्याकुल हो रही थी, Nepal Sanskrit University, Balmeeki Campus, Kathmandu