दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 27, कुल 474 में से
संदर्भ में पढ़ेंप्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । २७ ( ५७ ) अहमपि भवन्मित्रस्य विदेहनाथस्य विपन्निमित्तं विषाद- मनुभवंस्तदन्वयाङ्कुरं कुमारमन्विष्यंस्तदैकं चण्डिकामन्दिरं सुन्दरं प्रागाम् । ( ५८ ) तत्र संततमेवंविधविजयसिद्धये कुमारं देवतोपहारं करिष्यन्तः किराताः 'महीरुहशाखावलम्बितमेनमसिलतया वा, सैकततले खनननि- क्षिप्तचरणं लक्षीकृत्य शितशरनिकरेण वा, अनेकचरणैः पलायमानं कुक्कु- रबालकैर्वा दंशयित्वा संहनिष्यामः' इति भाषमाणा मया समभ्यभाष्यन्त 'ननु किरातोत्तमाः, घोरप्रचारे कान्तारे स्खलितपथः स्थविरभूसुरोऽहं मम पुत्रकं कचिच्छायायां निक्षिप्य मार्गान्वेषणाय किञ्चिदन्तरमगच्छम् । ( ५७ ) अहमपि वक्ता तापसोऽपि । विपत् निमित्तं यस्य तम्, विपत्तिसंजनि- तम् । तस्य विदेहराजस्यान्वयस्य वंशस्याङ्कुरं प्ररोहम् । तदा तस्मिन् समये । ( ५८ ) तत्र चण्डिकामन्दिरे । एवंविधविजयसिद्धये-यथा साम्प्रतं विदेहराजं वय विजितवन्तः एवमेव सर्वदास्माकं विजयो भूयादिति चण्डिकाप्रसादलाभाय । देवतोपहारं बलिम् । महीरुहस्य वृक्षस्य शाखायामवलम्बितं बद्धम् । असिलतया खड्गेन । सैकततले वालुकामयप्रदेशे । खनने गर्ते निक्षिप्तौ कीलितौ चरणौ यस्य तम् । लक्षीकृत्य उद्दिश्य । शितशरनिकरेण तीक्ष्णबाणसमूहेन । अनेकचरणैः क्षिप्र- चरणैः वेगेन धावद्भिरित्यर्थः । कुक्कुरवालकैरित्यस्य विशेषणम् । इति भाषमाणाः एवं कथयन्तः । समभ्यभाष्यन्त उक्ताः ① घोरो भयङ्करः प्रचारः सञ्चारो यत्र तस्मिन् । कान्तारे दुर्गममार्गे । स्खलितो भ्रष्टः पन्था यस्य सः । मार्गभ्रष्ट इत्यर्थः । भूसुरो ब्राह्मणः निक्षिप्य संस्थाप्य । अन्तरं दूरम् । ( ५७ ) तत्पश्चात् मैं भी अपने मित्र विदेहेशकी विपत्तिपर विषादयुक्त होकर उनके वंशबीजांकुरकी खोजमें आगे चल पड़ा और जाते-जाते एक चण्डीमन्दिरमें पहुँचा । ( ५८ ) उस मन्दिरमें जाकर देखा कि वहाँ बहुतसे किरात-भील एकत्र खड़े हैं और उस बालकको विजयोपलक्षके निमित्त देवीको बली चढ़ाना चाहते हैं। वे कहते थे कि, 'इसे या तो वृक्षमें लटकाकर तलवारसे मार दो अथवा बालू में उसके दोनों पैर गाड़ दो और इसको तेज तीरोंसे वेध दो । वा कुत्तोंके पिल्ले इसके पीछे छोड़ दो जिसमें वे सब इसका माँस नोंच खायें आदि-आदि ।' उनको ऐसा कहते हुए सुनकर मैंने कहा-हे किरातवरों ! मैं वृद्ध ब्राह्मण हूँ तथा इस गहन वनमें मार्गभ्रष्ट हो रहा हूं। मेरा एक पुत्र था जिसे मैंने एक पेड़की छाया में सुला दिया था और स्वयं मार्ग खोजने कुछ दूर गया था।