भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 296, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 296

२६६ दशकुमारचरितम् । [ उत्तरपीठिकायां रागसाध्वसं लक्षसुप्तः स्थितोऽस्मि । सापि किमप्युत्कम्पिना रोमोद्भेद- वता वामपार्श्वेन सुखायमानेन मन्दमन्दजृम्भिकारम्भमन्थराङ्गी, त्वङ्गद- ग्रपक्ष्मणोश्चक्षुषोरलसतान्ततारकेणानतिपक्कनिद्राकषायितापाङ्गपरभागेन युगलेनेषदुन्मिषन्ती, त्रासविस्मयहर्षरागशङ्काविलासविभ्रमव्यवहितानि व्रीडान्तराणि यानि कान्यपि कामेनाद्भुतानुभावेनावस्थान्तराणि कार्य-

आविद्धोऽनुस्यूतो राग आसक्तिः साध्वसं भयं च यस्मिंस्तत्तथा । अपूर्वकन्या- लाभाद्रागः स्पृष्टा चेदार्त्तस्वरं कुर्यादिति साध्वसम् । लक्षसुप्तः कपटनिद्रितः । किं- मियं करोतीति द्रष्टुं कपटनिद्रामधिगत इत्यर्थः । सा-कन्या । किमपि-किञ्चित् । उत्कम्पिना कम्पनशीलेन । रोमोद्भेदेवता-रोमाञ्चयुक्तेन । सुखायमानेन-सुखमनु- भवता । वामपार्श्वेनेत्यस्य विशेषणम् । वामपार्श्वेनेत्यत्रोपलक्षणे तृतीया । मन्द- मन्देति-मन्दमन्दं स्वरूपं यथा तथा जृम्भिकाया गात्रमोटनस्य आरम्भेण मन्थर- मलसमङ्गं यस्याः सा । त्वङ्गदिति-स्वङ्गत् चलदग्रपक्ष्म पक्ष्माग्रं ययोस्तयोः । चक्षु- षोरित्यस्याग्रिमेण युगलेनेत्यनेन सम्बन्धः । अलसेति-अलसे-मन्थरे महद्दर्शनार्थ- मिति भावः । तथा तान्ते क्लान्ते निद्राया अपरिपक्वतेयति भावः, तारके कनीनिके यत्र तेन । अनतिपक्ववेति-अनतिपक्कया असम्पूर्णया निद्रया कषायितो मलिनीकृतः अपाङ्गयोर्नेत्रप्रान्तयोः परभागो गुणोत्कर्षो यस्य तेन तादृशेन चक्षुषोर्युगलेन । ईषत्-मन्दं मन्दम् उन्मिषन्ती-नेत्रोन्मीलनं कुर्वाणा । त्रासेति-त्रासः अपरिचितोऽयं कथमागत इति भीतिः-विस्मयः-कथं सुरक्षितेऽपि गृहेऽस्यागम इति आश्चर्यम्, हर्षः तथाविधमनोहरवपुर्दर्शनादानन्दम् रागः हर्षजनितोऽनुरागः, शङ्का-एवंविधा मां विलोक्य किं कथयिष्यन्ति जना इत्याशङ्का । विलासः स्त्रीणां सात्त्विको भाववि- शेषः । विभ्रमोऽपि तथा-अस्थाने वसनभूषणादीनां न्यासरूपः एतद्व्यवहितान्यनु- विद्धानि, व्रीडान्तराणि-व्रीडा लज्जा अन्तरा मध्ये येषां तानि । कानि कानि अनिर्वच-

कन्याको अनुरागमसे जरा स्पर्श किया । पुनः इस शंकासे कि यह चिल्लायेगी कपटनिद्रासे सो गया, पुनः उसका स्पर्श किया आदि । वह रमणी भी स्वोत्पन्न कुछ रोमाञ्चोंसे अपने बायें पार्श्वसे सुखका अनुभव करती हुई, धीरे-धीरे आलस करती हुई अपने शरीरकी प्रक्रिया प्रारम्भ करने लगी । कांपते हुए पक्ष्मोंसे आलस्यपूर्ण नयनोंको खोलनेसे तथा उनमें पर्याप्त मात्रामें निद्रा न होनेके कारण व्यथित तथा अर्धविकसित नेत्रोंसे देखती हुई मालूम पड़ी । अपरिचित पुरुषको देखनेसे उसे भय उत्पन्न हुआ । यह पुरुष यहां किस तरह आया इसका ठीक ज्ञान न होनेसे उसे आश्चर्य हुआ । मेरे समान युवकके दर्शनलाभसे उसे हर्ष हुआ । उसी हर्षके कारण उसे प्रेम भी उत्पन्न हुआ । इस प्रकार

Nepal Sanskrit University, Balmeeki Campus, Kathmandu