दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 297, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF पञ्चमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २६७
माणा, परिजनप्रबोधनोद्यतां गिरं कामावेगपरवशं हृदयमङ्गानि च साध्व- सायाससम्बध्यमानस्वेदपुलकानि कथंकथमपि निगृह्य सस्पृहेण मधुरकू- णितत्रिभागेन मन्दमन्दप्रचारितेन चक्षुषा मदङ्गानि निर्वर्ण्य, दूरोत्सर्पि- तपूर्वकायापि तस्मिन्नेव शयने सचकितमशयिष्ट । (८) अजनिष्ट मे रागाविष्टचेतसोऽपि किमपि निद्रा। पुनरनुकूल- स्पर्शदुःखायत्तगात्रः प्राबुध्ये । प्रबुद्धस्य च सैव मे महाटवी, तदेव तरु- नीयानि, अवस्थान्तराणीत्यस्य विशेषणानि । अद्भुतानुभावेन=विस्मयकरप्रभावेण । अवस्थान्तराणि=दशाविशेषान् । कार्यमाणा=अनुभाव्यमाना । णिजन्तात् कृधातोः कर्मणि शानच् । परिजनेति-परिजनानां सुप्तसहचरीणां प्रबोधनाय जागरणाय उद्यतां प्रवृत्तां गिरं वाचम् । निगृह्येति वक्ष्यमाणया क्रियया सम्बन्धः । तथा अग्रेऽ- पि । कामस्यावेग आवेशस्तस्य परवशमधीनम् तादृशं हृदयं चित्तं निगृह्येति शेषः । साध्वसेति-साध्वसेन भयेन य आयासः खेदस्तेन संबध्यमानानि जायमानानि स्वेद- पुलकानि सघर्मरोमाञ्चानि येषु तानि । अङ्गानीत्यस्य विशेषणम् । निगृह्य निरुध्य सस्पृहेण-सतृष्णेन । मधुरेति-मधुरं यथा तथा कूणितः सङ्कुचितः त्रिभागः प्रान्त- भागो यस्य तेन । मन्दमन्दप्रचारितेन-ईषद्रीषत् सञ्चारितेन । चक्षुर्विशेषणान्ये- तानि । निर्वर्ण्य-दृष्ट्वा । दूरोत्सर्पितेति-दूरमत्यन्तं उत्सर्पितं ऊर्ध्वीकृतं पूर्वकायं देह- पूर्वभागो यया सा । सचकितं-सभयम् । (८) अजनिष्ट जाता । मे मम प्रमतेरित्यर्थः । रागाविष्टचेतसः-प्रेमपूर्ण- मानसस्य । किमपि अनिर्वाच्यहेतुका । पुनरिति पुनः पुनरपि अननुकूलः अप्रियो यः स्पर्शस्तेन यद्दुःखं खेदस्तेनायत्तमधीनं गात्रं शरीरं यस्य तादृशः । प्राबुध्ये- मुझे देखकर लोग क्या कहेंगे इसपर शंका हुई । मुझ देखनेसे उसे जो सात्त्विकभाव उत्पन्न हुआ उस कारण वह अपने अलंकार आदिको यथास्थान स्थित होनेपर भी बीच-बीचमें उन्हें बजाकर सँवारती हुई तथा लज्जा दिखाती हुई और कामके बाणसे पराधीन होकर अनेक रीतिसे अपने विचित्र अनुभावोंको करने लगी । अपने सखीजनों को जगानेवाली उद्यत वाणीको, कामवेगसे परवश चित्तको, भयसे उत्पन्न जो खेद उससे उद्भूत जो पसीनेकी बूँदें उनको और अपने रोमाञ्चोंको दबाती हुई वह बाला दिखाई पड़ी । तृष्णाके साथ अपने नयनोंके तीन भागोंको बन्दकर चौथे भागसे धीरे-धीरे मेरे शरीरको देखकर वह बाला अपनी देहके ऊपरी भागको अत्यन्त दूरकर उसी पलङ्गपर भययुक्त हो सो गयी । (८) मेरे (प्रमतिके) अन्तःकरणमें उसका अनुराग प्रविष्ट हो गया । परन्तु मैं कुछ निद्रित हो गया । फिर वही शरीरको कष्टप्रद शयन प्रतीत होने लगा । जब मैं Nepal Sanskrit University, Balmeeki Campus, Kathmandu