दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 309, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF पञ्चमोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । ३०६
दनया पृष्टो भिन्द्यामस्याः संशयं यथानुभवकथनेन' इति जातनिश्चयोऽ- ब्रवम्—'भद्रे, देहि चित्रपटम्' इति । सा त्वर्पितवती मद्धस्ते । पुनस्तमा- दाय तामपि व्याजसुप्तामुल्लसन्मदनरागविह्वलां वल्लभामेकत्रैवाभिलिख्य 'काचिदेवम्भूता युर्वातीदृशस्य पुंसः पार्श्वशायिन्यरण्यानीप्रसुप्तेन मयो- पलब्धा । किलैष स्वप्नः' इत्यालपं च । (१९) हृष्टया तु तया विस्तरतः पृष्टः सर्वमेव वृत्तान्तमकथयम् । असौ च सख्या मन्निमित्तान्यवस्थान्तराण्ववर्णयत् । तदाकर्ण्य च यदि तत्र सख्या मदनुग्रहोन्मुखं मानसम् । 'गमय कानिचिदहानि । कमपि कन्यापुरे निराशङ्कनिवासकरणमुपायमारचय्यागमिष्यामि' इति कथञ्चि-
सीदिति भावः । रूपसंवादात्-आकारसादृश्यात् । संशयात् सन्देहमाश्रित्य । अनया युवत्या । भिन्द्यां निरस्येयम् । यथानुभवकथनेन-यथादृष्टस्य प्रकाशनेन । तं चित्रपटम् आदाय गृहीत्वाऽहमिति शेषः । तां राजकन्याम् । व्याजसुप्तां कपटनिद्रिताम् । उल्लसदिति-उल्लसता वृद्धि गच्छता मदनरागेण वि- ह्वलां व्याकुलाम् । वल्लभां प्रियाम् । एकत्र चित्रपटस्यैकस्मिन् स्थाने । अभि- लिख्य चित्रित्वा । एवंभूता एतादृशी । ईदृशस्य चित्रितानुरूपस्य । अरण्यानी- प्रसुप्तेन महाटव्यां निद्रितेन । उपलब्धा दृष्टा ज्ञाता वा । किलैष स्वप्नः-परं तु एष स्वप्न एव भवितुमर्हतीत्यर्थः । (१९) तया युवत्या । विस्तरतः विस्तारेण कथयितुम् । असौ युवतिः । सख्याः राजकन्यायाः । मन्निमित्तानि-मद्दर्शनजनितानि । अवर्णयत् अकथयत् । मदनुग्रहोन्मुखं मयि अनुग्रहं कर्तुमुत्कण्ठितम् । गमय यापय । कानिचित् क्रिय- न्ति । अहानि दिनानि । निराशङ्केति-निराशङ्कं निर्भयं निवासस्यावस्थानस्य
अन्वेषणमें व्यग्र पड़ी हुई हैं और यह चित्रपट वही हैं। मेरी आकृति मिलाकर अपने सन्देहको दूर करना चाहती है। अतः इसकी भ्रान्ति हटा देनी चाहिए। ऐसा निश्चय करके मैंने कहा—'हे सौम्ये ! मुझे यह चित्रपट दीजिये तो ।' उसने मेरे हाथमें वह चित्रपट दे दिया। मैंने उस चित्रपटको लेकर उसके एकदेशमें, कपटनिद्रित और कामवाण से व्याकुल राजकुमारीकी ठीक-ठीक प्रतिकृति लिख दी और कहा 'ऐसी आकृतिवाली महिलाको ऐसी आकृतिवाले पुरुषके साथ सोते हुए अरण्यमें स्वप्नावस्थामें मैंने देखा था। (१९) मेरे इस कथन पर उस चित्रपटधारिणी बालाने हर्षसे मुझसे संपूर्ण वृत्त पूछा तो मैंने उससे सारा हाल कह सुनाया। उसने भी मेरे कारण राजकुमारीको कामकी पीड़ासे जो क्लेश हो रहा था, उसका वर्णन कर दिया। उसको कामव्यथाको सुनकर
Nepal Sanskrit University, Balmeeki Campus, Kathmandu