दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 317, कुल 474 में से
संदर्भ में पढ़ें( २६ ) आसीच्च मम समीहितानामहीनकालसिद्धिः । अन्वभवं च मधुकर इव नवमालिकामाई्रसुमनसम् । अस्य राज्ञः सिंहवर्मणः साहाय्य दानं सुहृत्सङ्केतभूमिगमनमित्युभयमपेक्ष्य सर्वबलसन्दोहेन चम्पामिमा मुपगतो दैवाद्भवद्दर्शनसुखमनुभवामि' इति । ( २७ ) श्रुत्वैतत्प्रमतिचरितं स्मितमुकुलितमुखनलिनो विलासप्राय- मूर्जितम् , मृदुप्रायं चेष्टितम् , इष्ट एष मार्गः प्राज्ञावताम् , 'अथेदानीमत्र-
( २६ ) समीहितानां-मदभीप्सितानाम् । अहीनकालसिद्धिः-अचिरकालेन लाभः । मधुकरो भ्रमरः नवमालिकां नवमालिका मालतीव नवमालिका तां राज्ञो धर्मवर्धनस्यात्मजाम् । आर्द्रसुमनसं एकत्र आर्द्राः सरसाः सुमनसः पुष्पाणि यस्या- स्तानपरत्र आर्द्रं कोमलं सुष्ठु मनो यस्यास्तामित्युभयविशेषणम् । मधुकरो यथा सरसकुसुमां मालतीमनुभवति तथाहमपि तां नवमालिकामन्वभवमिति भावः । सुहृदिति-सुहृदामस्मन्मित्राणां संकेतभूमौ मिलनस्थाने गमनम् । सर्वबलसन्दो- हेन-सर्वेषां बलानां हस्यश्ववादीनां सन्दोहः समूहस्तेन सहेति शेषः, युक्तो वा । देवदर्शनसुखं भवदवलोकनानन्दम् । ( २७ ) स्मितेति-स्मितेन हास्येन मुकुलितं संकुचितं मुखनलिनं वदनकमलं यस्य सः । विलासप्रायं विलास बहुलम् । ऊर्जितं पराक्रमः । मृदुप्रायं-प्रायेण कोम- लम् । दृष्टोऽभिमतः । एष मार्गः-प्रमतिना चरितः पन्थाः । प्रज्ञावतां-बुद्धिमताम् ।
( २६ ) इन जालोंके द्वारा मेरा अभीष्ट कार्य शीघ्र ही सम्पन्न हो गया । जैसे भौंरा नवमालिका फूलकी कलियोंमें आर्द्ररसोंको चूसता है। तद्वत् मैं भी कोमल मनवाली नवमालिका कुमारीके तारुण्यरसका आस्वादन करने लगा । तत्पश्चात् इस राजा सिंह- वर्माको सहायताके लिये मित्रों द्वारा प्रेरित मैं ( प्रमति ) अपने दल-बलके साथ इस चम्पापुरोमें आ पहुँचा हूँ । दैववश यहाँपर आपका भी दर्शन प्राप्त हो गया । ( २७ ) इस प्रमतिकुमारके चरितको श्रवण करके हाससे जिनका मुखकमल विक- सित हो गया ऐसे राजवाहनने कहा—प्रमति ! यह आपका परिश्रम विलासयुक्त है ।