दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
( २६ ) आसीच्च मम समीहितानामहीनकालसिद्धिः । अन्वभवं च मधुकर इव नवमालिकामाई्रसुमनसम् । अस्य राज्ञः सिंहवर्मणः साहाय्य दानं सुहृत्सङ्केतभूमिगमनमित्युभयमपेक्ष्य सर्वबलसन्दोहेन चम्पामिमा मुपगतो दैवाद्भवद्दर्शनसुखमनुभवामि' इति । ( २७ ) श्रुत्वैतत्प्रमतिचरितं स्मितमुकुलितमुखनलिनो विलासप्राय- मूर्जितम् , मृदुप्रायं चेष्टितम् , इष्ट एष मार्गः प्राज्ञावताम् , 'अथेदानीमत्र-
( २६ ) समीहितानां-मदभीप्सितानाम् । अहीनकालसिद्धिः-अचिरकालेन लाभः । मधुकरो भ्रमरः नवमालिकां नवमालिका मालतीव नवमालिका तां राज्ञो धर्मवर्धनस्यात्मजाम् । आर्द्रसुमनसं एकत्र आर्द्राः सरसाः सुमनसः पुष्पाणि यस्या- स्तानपरत्र आर्द्रं कोमलं सुष्ठु मनो यस्यास्तामित्युभयविशेषणम् । मधुकरो यथा सरसकुसुमां मालतीमनुभवति तथाहमपि तां नवमालिकामन्वभवमिति भावः । सुहृदिति-सुहृदामस्मन्मित्राणां संकेतभूमौ मिलनस्थाने गमनम् । सर्वबलसन्दो- हेन-सर्वेषां बलानां हस्यश्ववादीनां सन्दोहः समूहस्तेन सहेति शेषः, युक्तो वा । देवदर्शनसुखं भवदवलोकनानन्दम् । ( २७ ) स्मितेति-स्मितेन हास्येन मुकुलितं संकुचितं मुखनलिनं वदनकमलं यस्य सः । विलासप्रायं विलास बहुलम् । ऊर्जितं पराक्रमः । मृदुप्रायं-प्रायेण कोम- लम् । दृष्टोऽभिमतः । एष मार्गः-प्रमतिना चरितः पन्थाः । प्रज्ञावतां-बुद्धिमताम् ।
( २६ ) इन जालोंके द्वारा मेरा अभीष्ट कार्य शीघ्र ही सम्पन्न हो गया । जैसे भौंरा नवमालिका फूलकी कलियोंमें आर्द्ररसोंको चूसता है। तद्वत् मैं भी कोमल मनवाली नवमालिका कुमारीके तारुण्यरसका आस्वादन करने लगा । तत्पश्चात् इस राजा सिंह- वर्माको सहायताके लिये मित्रों द्वारा प्रेरित मैं ( प्रमति ) अपने दल-बलके साथ इस चम्पापुरोमें आ पहुँचा हूँ । दैववश यहाँपर आपका भी दर्शन प्राप्त हो गया । ( २७ ) इस प्रमतिकुमारके चरितको श्रवण करके हाससे जिनका मुखकमल विक- सित हो गया ऐसे राजवाहनने कहा—प्रमति ! यह आपका परिश्रम विलासयुक्त है ।
३१८ दशकुमारचरितम् । [ उत्तरपीठिकायां
३१८ दशकुमारचरितम् । [ उत्तरपीठिकायां भवान्प्रविशतु' इति मित्रगुप्तमैक्षत क्षितीशपुत्रः । इति श्रीदण्डिनः कृतौ दशकुमारचरिते प्रमतिचरितं नाम पञ्चम उच्छ्वासः । इत्यन्तमुक्त्वा इति । अथ प्रमतिचरितश्रवणानन्तरम् । अत्रभवान्-मित्रगुप्त इत्य र्थः । प्रविशतु स्वचरितं वर्णयितुमिति शेषः । क्षितीशपुत्रः-राजपुत्रो राजवाहनः । इति श्रीताराचरणभट्टाचार्यकृतायां बालविबोधिनीसमाख्यायां दशकुमारचरितव्याख्यायां प्रमतिचरितं नाम पञ्चमोच्छ्वासः । बड़ी कोमलतासे चेष्टाएँ की गयी हैं । आपका यह आदर्श मार्ग बुद्धिमानों द्वारा अनुकर- णीय है । राजपुत्र राजवाहनने कहा—अब हे मित्रगुप्त ! आप अपना चरित कहना आरम्भ करें । इस प्रकार दशकुमारचरितके प्रमतिचरितकी पञ्चमोच्छ्वासकी हिन्दी टीका बालक्रीडा समाप्त हुई ।
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF षष्ठाच्छ्वासः ( १ ) सोऽप्याचचक्षे—देव, सोऽहमपि सुहृत्साधारणभ्रमणकारणः सुह्मेषु दामलिप्ताह्वयस्य नगरस्य बाह्योद्याने महान्तमुत्सवसमाजमालोक- यम् । तत्र कचिदतिमुक्तकलतामण्डपे कमपि वीणावादेनात्मानं विनोदय- न्तमुत्कण्ठितं युवानमद्राक्षम् । अप्राक्षं च—'भद्र, को नामायमुत्सवः, कि- मर्थं वा समारब्धः, केन वा निमित्तेनोत्सवमनादृत्यैकान्ते भवानुत्कण्ठित इव परिवादिनीद्वितीयस्तिष्ठति' इति । ( २ ) सोऽभ्यधत्त—सौम्य, सुह्मपतिस्तुङ्गधन्वनामानपत्यः प्रार्थित- ( १ ) साम्प्रतं मित्रगुप्तः स्ववृत्तान्तं वर्णयति । स मित्रगुप्तः । यथाऽन्ये कु- माराः स्वस्वचरितान्यश्रावयंस्तथेति अपिशब्दार्थः । आचचक्षे आख्यातवान् । चक्षिङ् कथने इत्यस्य धातोर्लिटि रूपम् । सुहृदिति सुहृदां मित्राणां कुमारान्तरा- णामिति यावत् साधारणं समानं भ्रमणस्य भूपर्यटनस्य कारणं निदानं यस्यासौ । सुह्मेषु देशविशेषेषु । दामलिप्ताह्वयस्य दामलिप्तनामकस्य । उत्सवसमाजं उत्सव- गोष्ठीम् । तत्रोत्सवसमाजे । क्वचिद् एकदेशे । अतिमुक्तकेति-माधवीलतामण्डपे । वीणावादेन विपञ्चीवादनेन । विनोदयन्तमानन्दयन्तम् । उत्कण्ठितं उत्कण्ठायुक्तं व्याकुलितमिति यावत् । अप्राक्षं पृष्टवान् । प्रच्छ्धातोर्लुङि रूपम् । किमर्थं-कस्मै प्रयोजनाय । निमित्तेन-कारणेन । अनादृत्य उपेक्ष्य विहायेति यावत् । परिवादि- नीद्वितीयः-वीणासहायः । ( २ ) स युवा । अभ्यधत्त अकथयत् । सुह्मपतिः सुह्मदेशस्य राजा । तुङ्गेति- [ अब मित्रगुप्त अपना वृत्तान्त सुनाना आरम्भ कर रहे हैं । ] ( १ ) उस मित्रगुप्तने कहा—'हे देव ! सभी सुहृदोंके समान मैं भी पृथिवीकी परिक्रमा करता हुआ सुह्मप्रान्तके अन्तर्गत दामलिप्त नामक नगरके बाहरी बगीचेमें जा पहुँचा । उस समय वहाँपर, एक वृहत् उत्सवके निमित्त, बहुतसे लोग एकत्र हुए थे । उस उत्सवगोष्ठीको मैंने देखा । उस उत्सवगोष्ठीसे विरक्त एकान्त स्थलमें माधवीलता- मण्डपके नीचे बैठे हुए एक उत्कंठित युवकको मैंने देखा जो आत्मविनोदार्थ वीणाको बजा रहा था । मैंने उससे पूछा—'हे सौम्य ! इस उत्सवका क्या नाम है, किस प्रयोजनके हेतु यह प्रारम्भ हुआ है, और किस कारणसे आप उत्सवगोष्ठी त्याग करके यहां (एकान्तमें ) वीणा द्वारा अपने चित्तको अतिरञ्जित करते हुए बैठे हैं ?' ( २ ) उस वीणाधारी युवकने उत्तर दिया—'हे भद्र ! सुह्मप्रान्तके अधिपति सन्तान Nepal Sanskrit University, Balmeeki Campus, Kathmandu
३२० दशकुमारचरितम् । [ उत्तरपीठिकायां
३२० दशकुमारचरितम् । [ उत्तरपीठिकायां वानमुष्मिन्नायतने विस्मृतविन्ध्यवासरागं वसन्त्या विन्ध्यवासिन्याः पादमूलादपत्यद्वयम् । अनया च किलास्मै प्रतिशयिताय स्वप्ने समा- दिष्टम्—समुत्पत्स्यते तवैकः पुत्रः, जनिष्यते चैका दुहिता । स तु तस्याः पाणिग्राहकमनुजीविष्यति । सा तु सप्तमाद्वर्षादारभ्याऽपरिणयनात्प्र- तिमासं कृत्तिकासु कन्दुकनृत्येन गुणवद्भर्तृलाभाय मां समाराधयतु । यं चाभिलषेत्सामुष्मै देया । स चोत्सवः कन्दुकोत्सवनामास्तु इति । तुङ्गधन्वेति नाम यस्यासौ । अनपत्यः निःसन्तानकः । अमुष्मिन् पुरो दृश्यमाने । आयतने-मन्दिरे । विस्मृतेति-विस्मृतो विन्ध्ये विन्ध्यपर्वते वासस्य वसतेः रागोऽ- नुरागो यत्र तद्यथा तथेति क्रियाविशेषणम् । विन्ध्यवासिन्या भगवत्या दुर्गायाः । पादमूलात्-चरणप्रान्तात् । अपत्यद्वयं सन्ततियुगलम् । प्रार्थितवानित्यनेन सम्ब- न्धः । अनया भगवत्या । अस्मै-तुङ्गधन्वने । प्रतिशयिताय-यावद्भगवती न प्रत्या- देश्यति तावन्नाहमुत्थास्यामीति प्रतिज्ञापूर्वकं निद्रिताय । समुत्पत्स्यते-जनिष्यते । स पुत्रः । तु किन्तु । तस्या दुहितुः । पाणिग्राहकं-भर्त्तारम् भगिनीपतिमित्यर्थः । अनुजीविष्यति-तदधीनो भूत्वा स्थास्यति । सा कन्या । आपरिणयनात्-आविवा- हात् विवाहपर्यन्तमित्यर्थः । कृत्तिकासु कृत्तिकानक्षत्रयुक्तदिने । कन्दुकनृत्येन- कन्दुकक्रीडासहितनृत्येन । गुणवदिति-गुणवतः प्रशस्यगुणयुक्तस्य भर्तुः पत्युर्ला- भाय प्राप्तये । मां विन्ध्यवासिनीमित्यर्थः । समाराधयतु-मदाराधनं करोतु । यं युवानम् । अभिलषेदिच्छेत् पतिरूपेण प्राप्तुमिति शेषः । सा कन्या । अमुष्मै- अभिलषिताय । युवकाय । देया दातव्या तेन विवाहेत्यर्थः । हीन थे अतः उन्होंने इस मन्दिरमें निवास करनेवाली देवीसे सन्तानके लिये प्रार्थना की थी । जो भगवती इस मन्दिरमें बसनेके कारण अपने विन्ध्यपर्वतके वासको भूलसी गयी हैं । उन्हीं देवी विन्ध्यवासिनीके चरणोंमें राजा तुङ्गधन्वाने प्रार्थना की थी । जिस प्रार्थनाके फलस्वरूप भगवती विन्ध्यवासिनीने राजाको उस रात्रिके स्वप्नमें ( जिसमें राजाने प्रतिज्ञा कर ली थी कि, आज रातको यदि देवीके दर्शन न कर लूंगा तो कल उठूँगा भी नहीं । ) दर्शन देकर आदेश दिया—'हे तुङ्गधन्वा ! तुम्हें एक पुत्र होगा और एक पुत्री होगी । वह पुत्र तुम्हारी उस पुत्रीके पतिका अनुजीवक होगा—अर्थात् उसके अधीन होकर रहेगा । वह आपकी पुत्री अपने जीवनके सातवें बरससे विवाह हो जानेके समयतक प्रत्येक कृत्तिका नक्षत्रमें कन्दुकनृत्यसे ( गेंदके खेलसे ) सुयोग्य गुणवान् पतिकी प्राप्तिके निमित्त मेरी आराधना किया करेगी । वह पुत्री जिस युवकको चाहें उसीसे आप उसका परिणय कर देना । उस उत्सवका नाम 'कन्दुकोत्सव' होगा ।
षष्ठोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । ३२१ ( ३ ) ततोऽल्पीयसा कालेन राज्ञः प्रियमहिषी मेदिनी नामैकं पुत्रम- सूत । समुत्पन्ना चैका दुहिता । साद्य नाम कन्या कन्दुकावती सोमापीडां देवीं कन्दुकविहारेणाराधयिष्यति । तस्यास्तु सखी चन्द्रसेना नाम धात्रे- यिका नाम प्रियासीत् । सा चैषु दिवसेषु राजपुत्रेण भीमधन्वना बलव- दनुरुद्धा । तदहमुत्कण्ठितो मन्मथशरशल्यदुःखोद्विग्नचेताः कालेन वीणा- रवेणात्मानं किञ्चिदाश्वासयन्विविक्तमध्यासे इति । ( ४ ) अस्मिन्नेव च क्षणे किमपि नूपुरक्वणितमुपातिष्ठत् । आगता च काचिदङ्गना । दृष्ट्वैव स एनामुत्फुल्लदृष्टिरुत्थायोपगूढकण्ठश्च तया ( ३ ) अल्पीयसा-अचिरेण । कन्दुकावतीति कन्याया नाम । सोमापीडां सोमश्चन्द्र आपीडः शेखरो यस्यास्ताम् । चन्द्रशेखरां देवीं भगवतीम् । कन्दुकवि- हारेण-कन्दुकनृत्येन । तस्याः कन्दुकाबत्याः। धात्रेयिका-धात्रीकन्या । प्रिया वल्लभा । सा चन्द्रसेना । एषु दिवसेषु-साम्प्रतम् । भीमधन्वेति राजपुत्रस्य नाम । बलवत्-दृढम् । अनुरुद्धा-अनुरुध्य वशं नीता । तत्-तस्मात्कारणात् । मन्मथेति- मन्मथस्य कामस्य शरो बाणः शल्यमिव तेन यद्दुःखं तेनोद्विग्नं व्याकुलं चेतो हृदयं यस्यासौ । कलेन-मधुरेण । आश्वासयन्-सान्त्वयन् । विविक्तं निर्जनदेशम् । अध्यासे अधितिष्ठामि । ( ४ ) किमपि-अनिर्वचनीयम् । नूपुरक्वणितं-मञ्जीरध्वनिः । उपातिष्ठत्- अश्रूयत । दृष्ट्वा विलोक्य तामङ्गनाम् । स-पूर्वोक्तयुवा । एनामङ्गनाम् । उत्फुल्ल- दृष्टिः उल्लसितलोचनः । तया अङ्गनया । उपगूढकण्ठः-कृतकण्ठग्रहः । अशं- ( ३ ) इसके कुछ ही दिनोंके पश्चात् राजा तुंगधन्वाकी प्यारा पटरानी मेदिनीको एक पुत्र उत्पन्न हुआ और एक पुत्री उत्पन्न हुई । वही राजकुमारी कन्दुकावती आज चन्द्रशेखरा ( सोमपीडा ) देवीकी अर्चना करने आवेगी । उसी राजकुमारी कन्दुकावतीकी सखी चन्द्रसेना जो उसकी धात्रीकी पुत्री है मेरी वल्लभा हो गयी है । उस चन्द्रसेनाको राजकुमार भीमधन्वाने आजकल जबर्दस्तीते रोक रखा है । इसी उपर्युक्त प्रेमके बन्धनसे तथा कामदेवके बाणोंसे पीड़ित होकर मै उद्विग्नचित्त हो गया हूँ, और इस वीणाकी ध्वनिसे एकान्तमें उसका ध्यान करके चित्त बहला रहा हूँ । ( ४ ) उसी क्षणमें मञ्जीरोंकी अनिर्वचनीय ध्वनि सुनायी पड़ी । कोई अंगना वहाँपर आयी । वह युवक उस अंगनाको देखते ही उल्लसित नेत्रोंसे उसके लिये खड़ा हो गया । उस अंगनाने उस युवकको गले लगा लिया और वहीं बैठ गयी । उस युवकने मुझसे
३२२ दशकुमारचरितम् । [ उत्तरपीठिकायां
३२२ दशकुमारचरितम् । [ उत्तरपीठिकायां तत्रैचोपाविशत् । अशंसच्च-सैषा मे प्राणसमा, यद्विरहो दहन इव दहति माम् । इदं च मे जीवितमपहरता राजपुत्रेण मृत्युनेव निरुष्मतां नीतः । न च शक्नोमि राजसूनुरित्यमुष्मिन्पापमाचरितुम् । अतोऽनया- त्मानं सुदृष्टं कारयित्वा त्यक्ष्यामि निष्प्रतिक्रियान्प्राणान् इति । सा तु पर्यश्रुमुखी समभ्यधात् - 'मा स्म नाथ, मत्कृतेऽध्यवस्यः साहसम् । यस्त्वमुत्तमात्सार्थवाहादर्थदासादुत्पद्य कोशदास इति गुरुभिरभिहितना- मधेयः पुनर्मदव्यासङ्गाद्वेशदास इति द्विषद्भिः प्रख्यापितोऽसि, तस्मिंस्त्व- सन्-अकथयत् मामिति शेषः । सा मया पूर्वमुक्ता । यद्विरहः यस्याः प्राणसमा- या विरहो विच्छेदः । दहनः अनलः । जीवितं प्राणान् । अपहरता-विनाशयता । राजपुत्रेण-भीमधन्वना । निरुष्मतां-निष्प्राणताम् । नीतः प्रापितः अहमिति शेषः । राजसूनुः राजपुत्र इति हेतोः । अमुष्मिन्-राजपुत्रे । पापमनिष्टम् । आच- रितुं विधातुम् । अतः प्रतीकारामसमर्थत्वात् । अनया मत्प्राणसमया । आत्मानं सु- दृष्टं कारयित्वा एतस्यां मेऽनन्यसाधारणोऽनुरागो वर्त्तत इति विश्वासमुत्पाद्येति भावः । निष्प्रतीति-निन्नास्ति प्रतिक्रिया प्रतीकारो येषां तान् । इत्यन्तं युवकवच- नम् । सा त्वित्यादि पुनर्मित्रगुप्तस्योक्तिः । सा चन्द्रसेनानाम्नी अङ्गना । पर्यश्रुमुखी- वाष्पपूर्णवदना रुदतीति यावत् । समभ्यधादकथयत् । मास्मेत्यस्य अध्यवस्य इति क्रियया सम्बन्धः । नाथेति सम्बोधनम् । मत्कृते मदर्थम् । अध्यवस्यः साहसं मा कार्षीः । मदर्थं त्वया प्राणा न त्यक्तव्या इति भावः । अध्यवस्य इति अधि-अव- पूर्वक सो धातोलँङि रूपम् । उत्तमात्-श्रेष्ठात् । सार्थवाहात् वणिजः । अर्थदास इति युवकस्य पितुर्नाम् । उत्पद्य-जन्म लब्ध्वा । कोशदास इति युवकस्य नाम । गु- रुभिः पित्रादिभिः । अभिहितनामधेयः कृतनामकरणः । मद्व्यासङ्गात्-मयि अव्या- सक्तेः कारणात् । वेशदासः-वेश्यादासः । द्विषद्भिः-तव शत्रुभिः । प्रख्यापितः- कहा- 'यह मेरी प्राणप्यारी है जिसका वियोग मुझे अग्नि के सदृश जलाता था । मेरे इस जीवनके अपहरण द्वारा राजकुमारने मुझे निष्प्राण बना दिया था । राजकुमार होनेके कारण मैं उसका कुछ भी अनिष्ट नहीं कर सकता हूँ। अत एव मैं अपना दर्शन इस अङ्गनाको कराकर अब अपने प्राणोंको त्याग दूँगा क्योंकि इसके अतिरिक्त मेरे पास कोई प्रतिक्रिया नहीं। उपर्युक्त बातें श्रवणकर रोती हुई चन्द्रसेना बोली- 'हे नाथ ! मेरे लिये आप ऐसा साहसका काम न करें क्योंकि श्रेष्ठ सार्थवाहसे आप उत्पन्न हुए हैं और आपके बड़े लोगोंने आपका नाम कोशदास रखा है। फिर मेरे ऊपर आपकी आसक्ति होनेके हेतु आपका नाम 'वेशदास' प्रख्यात किया है। ऐसे मुझपर अनुरक्त
षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३२३ द्युपरते यद्यहं जीवेयं नृशंसो वेश इति समर्थयेयं लोकवादम् । अतोऽद्यैव नय मामीप्सितं देशम् इति । (५) स तु मामभ्यधत्त—'भद्र, भवद्दृष्टेषु कतमत्समृद्धं संपन्नसस्यं सत्पुरुषभूयिष्ठं च' इति । तमहमीषद्विहस्याब्रवम्—'भद्र, विस्तीर्णेयमर्ण- वाम्बरा । न पर्यन्तोऽस्ति स्थानस्थानेषु रम्याणां जनपदानाम् । अपितु न चेदिह युवयोः सुखनिवासकारणं कमप्युपायमुत्पादयितुं शक्नुयाम् ततोऽहमेव भवेयमध्वदर्शी' । तावतोदैरत रणितानि मणिनूपुराणाम् । अथासौ जातसंभ्रमा 'प्राप्तैवेयं भर्तृदारिका कन्दुकावती कन्दुकक्रीडितेन प्रसिद्धीकृतः । तस्मिन् तादृशे । उपरते=मृते । जीवेयं-प्राणिष्यामि । नृशंसः-क्रूरः । वेशः-वेश्याजनः । समर्थयेयं-दृष्टान्तेन दृढीकरिष्यामि । लोकवादं जनोक्तिम् । नय-प्रापय । अभीप्सितं-स्वन्मनोगतम् । (५) स कोशदासः । मां मित्रगुप्तमित्यर्थः । राष्ट्रेषु-जनपदेषु । समृद्धं-प्रचु- रधनम् । सम्पन्नशस्यं पर्याप्तधान्यम् । सत्पुरुषभूयिष्ठं-सज्जनबहुलम् । तं-कोश- दासम् । अहं-मित्रगुप्तः । विस्तीर्णा-विशाला । अर्णवाम्बरा पृथ्वी । पर्यन्तः शेषः । अपितु-किन्तु । इह दामलिप्तनगरे । सुखेति-सुखेन निवासो वसतिस्तस्य कारणं जनकम् । उत्पादयितुं कर्तुम् । ततस्तर्हि । अध्वदर्शी मार्गदर्शकः । अहमेव युवा- मन्यत्र नेष्यामीति भावः । तावता-तस्मिन् काले । उदैरत-उत्पन्नानि बभूवुः । ईण् गतौ कम्पने चेत्यस्य धातोलँङि आत्मनेपदस्य बहुवचने रूपम् । रणितानि- शब्दाः । असौ-चन्द्रसेना । जातसम्भ्रमा-उत्पन्नसंवेगा । प्राप्ता-आगता । भर्तृदा- आपकी मृत्युपर यदि मैं जीवित रहूं तो सब लोग मुझे क्रूर वेश्या कहेंगे । और मैं इस लोकापवादको दृढ़ करनेवाली हो जाऊँगी कि 'वेश्याएँ क्रूर होती हैं।' अत एव आज ही आप मुझे चाहे जिस देशमें ले चलिये।' (५) उसने उस चन्द्रसेनाकी बातें श्रवणकर मुझसे कहा—'हे सौम्य ! आपने अनेक देशोंको पर्यटनकर देखा है। कृपया बताइये कि कौनसा देश धनसे तथा धान्यसे परिपूर्ण एवं भले मनुष्योंसे विभूषित है।' उस कोशदाससे मैने (मित्रगुप्तने) हँसकर कहा—'हे सौम्य ! यह समुद्रपरिधाना पृथिवी अति विशाल है। इसमें स्थान-स्थानपर रमणीय नगर बसे हैं जिनका परिगणन नहीं हो सकता । यदि आपलोग इस दामलिप्त नगरमें सुखसे रहनेमें असमर्थ हैं तो मै कोई उपाय रचूँ और आप लोगोंका मार्गदर्शक होकर कहीं दूसरे स्थलमें ले चलूँ।' इसी क्षणमें मणि-नूपुरोंकी बजती हुई ध्वनि मालूम पड़ी । तत्क्षण ही वह चन्द्रसेना सम्भ्रमित होकर बोली 'ये राजकुमारी कन्दुकावती
३२४ दशकुमारचरितम् । [ उत्तरपीठिकायां
३२४ दशकुमारचरितम् । [ उत्तरपीठिकायां देवीं विन्ध्यवासिनीमाराधयितुम् । अनिषिद्धदर्शना चेयमस्मिन्कन्दुको- त्सवे । सफलमस्तु युष्मच्चक्षुः । आगच्छतं द्रष्टुम् । अहमस्याः सकाशवर्ति- नी भवेयम्' इत्ययासीत् । (६) तामन्वयाव चावाम् । महति रत्नरण्ङ्गपीठे स्थितां प्रथमं ताम्रो- ष्ठीमपश्यम् । अतिष्ठच्च सा सद्य एव मम हृदये । न मयान्येन वान्तराले दृष्टा । चित्रीयाविष्टचित्तश्चाचिन्तयम्—'किमियं लक्ष्मीः । नहि नहि । तस्याः किल हस्ते विन्यस्तं कमलम्, अस्यास्तु हस्त एव कमलम् । अभु- क्तपूर्वा चासौ पुरातनेन पुंसा पूर्वराजैश्च, अस्याः पुनरनवद्यमयातायामं रिका राजपुत्री । अनिषिद्धदर्शना-अनिवारितदर्शना । सर्वैरेनां द्रष्टुमर्हन्तीत्यर्थः। सफलं-कृतार्थम् । आगच्छतं युवामिति शेषः । अस्याः कन्दुकावत्याः । सकाशव- र्तिनी समीपस्था । इति-एवमुक्त्वा । अयासीत्-अचलत् । (६) तां चन्द्रसेनाम् । अन्वयाव-अनुगतवन्तौ । आवाम्-मित्रगुप्तकोश- दासौ । रत्नरण्ङ्गपीठे रत्ननिर्मितासने । प्रथमं प्रागेव । ताम्रोष्ठीं-रक्ताधरबिम्बाम् । कन्दुकावतीमिति शेषः । अतिष्ठत्-अधिष्ठिताऽभवत् । सद्यस्तत्क्षणम् । अन्त- राले-मध्ये-पूर्वमिति भावः । चित्रीयेति-चित्रीया विस्मयस्तया आविष्टमाक्रान्तं चित्तं यस्यासौ । तस्याः लक्ष्म्याः । विन्यस्तं-स्थितम् । अस्याः कन्दुकावत्याः । हस्ते कमलमित्यनेन हस्तकमलयोर्भेदः । हस्त एव कमलमित्यनेन च तयोरभेदः सूचितः । अभुक्तपूर्वा-पूर्वमभुक्ता । असौ-राजपुत्री । पुरातनेन पुंसा-नारायणेन । कन्दुक नृत्यसे भगवती.विन्ध्यवासिनी अष्टभुजादेवीकी आराधना करनक लिये आ गयीं । इस समय (कन्दुकोत्सवकालमें) सब लोग इनका दर्शन कर सकते हैं (क्योंकि बिना देखे हुए वे अभिलषित पतिका कैसे वरण करेंगी यद्यपि 'असूर्यम्पश्या राजदाराः' होती हैं पर इनके लिये देवीका वर अपवादरूपमें है) अपनी दृष्टियोको कृतार्थ कीजिये । आप लोग आइये और इनका दर्शन कीजिये । मैं उनकी पार्श्वभूता (सहचरी) रहूँगी । ऐसे वाक्य कहकर वह चन्द्रसेना वहाँसे राजकुमारीके समीप चली गयी । (६) हम दोनोंने (कोशदास और मित्रगुप्तने) उस चन्द्रसेनाकी गति का अनुसरण किया । मैंने विशाल रत्नासन पर बैठी हुई, रक्ताधरबिम्बोष्ठी, राजकुमारी कन्दुकावतीको प्रथम ही देखा । वह उसी समय मेरे मनमें बस गयी । मेरे और राजकुमारीके बीचमें कोई व्यवधान नहीं दिखाई देता था । मैं आश्चर्यान्वित हृदयसे सोचने लगा-'क्या यह लक्ष्मी है । नहीं, नहीं, उन लक्ष्मीजीके हाथोंमें तो कमल होते हैं । इस राजकुमारीके तो हाथ ही कमल हैं । वे पूजनीय लक्ष्मीजी तथा मान्या राज्यलक्ष्मी यथाक्रम भगवान् Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३२५
च यौवनम्' इति चिन्तयत्येव मयि, सानघसर्वगात्री व्यत्यस्तहस्तपल्ल- वाग्रस्पृष्टभूमिरालोलनीलकुटिलालका सविभ्रमं भगवतीमभिवन्द्य कन्दुक- ममन्दरागरूषिताक्षममङ्गमिवालम्बत । लीलाशिथिलं च भूमौ मुक्तवती । मन्दोत्थितं च किञ्चित्कुञ्चिताङ्गुष्ठेन प्रसृतकोमलाङ्गुलिना पाणिपल्लवेन समाहत्य हस्तपृष्ठेन चोन्नीय, चटुलदृष्टिलाञ्छितं स्तबकमिव भ्रमरमा- लानुविद्धमवपतन्तमाकाश एवाग्रहीत् । अमुञ्चच्च ।
पूर्वराजैः पूर्ववर्त्तिभिर्नृपैः । लक्ष्मीर्नारायणेनोपभुक्ता-राजलक्ष्मीपि पूर्वर्नृपैरुप- भुक्ता। इयन्तु केनापि नोपभुक्ता अतो नेयं प्रसिद्धा लक्ष्मीरिति तात्पर्यम् । अनव- द्यमनिन्द्यम् । अयातयामं-प्रत्यग्रं अनुपभुक्तमिति यावत् । अनघसर्वगात्री-अनघं निर्दोषं सर्वं निखिलं गात्रं शरीरं यस्याः सा । व्यत्यस्तेति-व्यत्यस्तेन परावर्त्तितेन हस्तपल्लवाग्रेण करकिसलयाग्रेण स्पृष्टा चुम्बिता भूमिः पृथ्वो यया सा। आलो- लेति-आलोला ईषच्चञ्चलाः नीलाः कृष्णवर्णाः कुटिला वक्रा अलकाश्चूर्णकु- न्तलाः यस्याः सा। सविभ्रमं सविलासम् । अमन्देति-अमन्देनातिशयितेन रागेण रक्तिम्ना-रूषिते भूषिते अक्षिणी नयने यस्य तथाविधमनङ्गं काममिव । आल- म्बत गृहीतवती । लीलेति-लीलया विलासेन शिथिलं श्लथम् । क्रियाविशेष- णम् । मुक्तवती क्षिप्तवती । मन्दोत्थितमीषददुद्गतम् कन्दुकमिति शेषः । किञ्चि- दिति-किञ्चिदीषत् कुञ्चितो वक्रीकृतोऽङ्गुष्ठोऽङ्गुलिविशेषो यत्र तेन । प्रसृतेति-प्रसृता विस्तारिताः कोमला अङ्गुलयो यत्र तेन । विशेषणद्वयं पाणिपल्लवेनेत्यस्य । समा- हत्य ताडयित्वा । उन्नीय-उद्ध्र्वीकृत्य । चटुलेति-चटुलया चञ्चलया दृष्ट्या दृष्टिपातेन लाञ्छितं शोभितम् । अतएव भ्रमरमालया मधुकर्पंक्त्या अनुविद्ध- मनुसृतं स्तबकं पुष्पगुच्छमिवावपतन्तमधोगच्छन्तम् । आकाशे मध्ये। अग्रहीत् कन्दुकमिति शेषः ।
विष्णु और पूर्ववर्ती राजाओंसे उपभुक्त हैं। किन्तु यह राजकुमारी तो किससे भी उप- भुक्त नहीं है। इसके अनिन्द्य अवयव हैं और नूतन अनुपभुक्त तारुण्यशालिनी है। मैं ऐसे तर्क-वितर्क कर ही रहा था कि उस निर्दोष अङ्गवाली (सर्वाङ्गसुन्दरी) ने अपने परावर्त्तित हस्तरूपी किसलयोंके अग्रभागसे पृथिवीको स्पर्शित किया। कुछ चंचल तथा काले टेढ़े बालोंकी चोटीसे विलासपूर्वक अष्टभुजादेवीको प्रणाम किया। फिर अतिशय रागसे विभूषित नेत्रवाली उसने कामदेवके समान कन्दुकको उठा लिया। पुनः विलाससे श्लथ गेंदको पृथिवीपर फेंक दिया। ततः ऊपर की ओर उछलते हुए कन्दुकको कुछ संकुचित अँगूठे तथा फैली हुई अङ्गुलियोंवाले करकिसलयसे ताड़ित कर हाथके पिछले भागसे ऊपर-
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
३२६ दशकुमारचरितम् । [ उत्तरपीठिकायां
३२६ दशकुमारचरितम् । [ उत्तरपीठिकायां (७) मध्यविलम्बितलये द्रुतलये च मृदुमृदु प्रहरन्ती तत्क्षणं चूर्ण- पदमदर्शयत् । प्रशान्तं च तं निर्दयप्रहारैरुदपातयत् । विपर्ययेण च प्राशमयत् । पक्षमृज्वागतं च वामदक्षिणाभ्यां कराभ्यां पर्यायेणाभिघ्नती शकुन्तमिवोदस्थापयत् । दूरोत्थितं तं च प्रपतन्तमाहृत्य गीतमार्गमारच- यत् । प्रतिदिशं च गमयित्वा प्रत्यागमयत् । (८) एवमनेककरणमधुरं विहरन्ती रङ्गगतस्य रक्तचेतसो जनस्य (७) मध्येति-मध्यः साधारणो विलम्बितः अतिशिथिलो लयः पतनं यस्य तस्मिन्-द्रुतं शीघ्रं लयः पतनं यस्य तस्मिन् तथाभूते कन्दुके । मृदुमृदु-मन्दं मन्दम् । प्रहरन्ती-ताडयन्ती । चूर्णपदं-कन्दुकतन्त्रोक्तः क्रियाविशेषः, उक्तं च-गत्यागत्योरानुलोम्यं न्यूनाधिक्यक्षेपणं तच्चूर्णपदमिति । प्रशान्तं निश्चलं स्थितं कन्दुकम् । निर्दयप्रहारैः कठोरताडनैः । उदपादयत् उदक्षिपत् । विपर्ययेण- वैपरीत्येन । प्राशमयत् निश्चलमकरोत् । कन्दुकावतीति सर्वत्र कर्तृपदम् । पक्षं वशमागतम् । ऋज्वागतं-सारल्येनोपगतं कन्दुकमिति शेषः । पर्यायेण क्रमेण । अभिघ्नती-प्रहरन्ती । शकुन्तं-पक्षिणम् उदस्थापयत्-उदपातयत् । आहृत्य-मध्ये आकृष्य । गीतमार्गं-दशपदचंक्रमणरूपं गतिविशेषम् । आरचयत् कृतवती । गमयित्वा भ्रामयित्वा । प्रत्यागमयत्-पुनस्तत्रैवानयत् । (८) एवमनेन प्रकारेण । अनेकेति-अनेककरणेन नानाविधव्यापारेण मधुरं रमणीयम् यथा तथा । रङ्गगतस्य-क्रीडास्थानस्थितस्य । रक्तचेतसः सानुराग- की ओर उछाल दिया । फिर चपल दृष्टियोंसे चिह्नित उस कन्दुकको भौंरोंकी श्रेणियोंसे परिपूर्ण फलोंके गुच्छेके सदृश बीचमें ही पकड़ लिया-जमीनपर न गिरने दिया । (७) वह राजकुमारी कन्दुकावती उस समय गेंदसे खूब खेल रही थी । कभी गेंदको ऊपर फेंकती थी । कभी उसकी गति बीचमें कम कर देती थी । कभी उसे नीचे पटकती थी, कभी उसपर धीरे धीरे कराघात करती हुई कन्दुकतन्त्रानुसार कन्दुकक्रीड़ा करती थी । उपर्युक्त कन्दुककी गतिका नाम चूर्णपद है । अतः वह सभीको चूर्णपद क्रीड़ा दिखा रही थी । जब गेंद निश्चल हो जाती थी तब कन्दुकावती उसे कठोर प्रहारोंसे ऊपरको उछाल देती थी । फिर वैपरीत्य गतिसे उस गेंद को निश्चल कर देती थी । जब गेंद निश्चल होकर वशमें हो जाता था तब उसे सरलतासे बायें और दाहिने हाथोंसे ताड़न कर पक्षीकी तरह ऊपरकी ओर उछाल दिया करती थी । बहुत ऊपरकी ओर उछले हुए कन्दुकको, वह कुमारी बीचमें ही पकड़कर, 'दशपदचंक्रमणरूप' गतिसे क्रीड़ा करती थी । प्रत्येक दिशामें कन्दुकको उछालकर वह अपनी ओर खींच लेती थी । (८) इस प्रकार नाना विधियोंसे रमणीय कन्दुकक्रीड़ा करती हुई उस राजकुमारी-
[Header] CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF षष्ठोच्छ्वासः ] बालत्रिबोधिनीव्याख्यासहितम् । ३२७
प्रतिक्षणमुच्चावचाः प्रशंसावाचः प्रतिगृह्णती, प्रतिक्षणारूढविभ्रमं कोशदा- समंसेऽवलम्ब्य कण्टकितगण्डमुत्फुल्लेक्षणं च मय्यभिमुखीभूय तिष्ठति तत्रप्रथमावतीर्णकंदर्पकारितकटाक्षदृष्टिस्तदनुमार्गविलसितलीलाञ्चितभ्रू- ता, श्वासानिलवेगान्दोलितैर्दन्तच्छदरश्मिजालैर्लीलापल्लवैरिव मुखक- मलपरिमलग्रहणलोलानलिनस्ताडयन्ती, ( ६ ) मण्डल भ्रमणेषु कन्दुकस्यातिशीघ्रप्रचारतयाविशन्तीव मदर्श-
हृदयस्य । जनस्य-द्रष्टृवर्गस्य । उच्चावचाः स्थूलसूक्ष्माः । प्रशंसावाचः स्तुति- भाषणानि । प्रतिगृह्णती-स्वीकुर्वती । प्रतिक्षणेति-प्रतिक्षणं प्रतिमुहूर्त्तं आरूढ उत्पन्नो विभ्रमो विलासो यस्मिंस्तद् यथा तथा। अंसे स्कन्धदेशे । अवलम्ब्य गृहीत्वा । कण्टकितगण्डं-रोमाञ्चितकपोलं यथा तथा । उत्फुल्लेक्षणं विकसितनयनं यथा तथा । मयि-मित्रगुप्ते । अभिमुखीभूय-कन्दुकावत्याः सम्मुखीनो भूत्वा । तिष्ठति-वर्त्तमाने सति । तत्प्रथमेति-तदैव प्रथमं नूतनं अवतीर्णः समुपागतो यः कन्दर्पस्तेन कारिता कटाक्षदृष्टिर्यस्याः सा । कन्दुकाबत्या या कटाक्षदृष्टिः सा कामे- नैव कारितेत्यर्थः । तदनुमार्गेति-तदनु तदनन्तरं कटाक्षपातानान्तरमित्यर्थः । मार्गे पथि विलसितया स्फुरन्त्या लीलया विलासेन अञ्चिते वक्रीकृते भ्रुवौ लते इव यया सा । श्वासानिलेति-श्वासानिलस्य निःश्वासमारुतस्य वेगेन जवेनान्दोलितैः कम्पितैः दन्तच्छदस्याधरस्य रश्मिजालैः प्रभापुञ्जैः, किम्भूतैः लीलार्थं क्रीडार्थं नवपल्लवै- रिव । मुखकमलेति-मुखकमलस्याननारविन्दस्य यः परिमलो गन्धस्तस्य ग्रहणाय ग्रहणार्थं लोलांश्चञ्चलान् । अलिनो भ्रमरान् । ताडयन्ती निवारयन्ती । ( ९ ) मण्डल भ्रमणेषु-चक्राकारगतिविशेषेषु । कन्दुकस्यातिशीघ्रप्रचारतया अतिवेगभ्रमणेन मदर्शनलज्जया मदवलोकनह्रिया पुष्पमयं कुसुमनिर्मितं पञ्जरं
ने, क्रीड़ास्थलमें आये हुए अनुरागवान् दर्शकोंद्वारा स्थूल और सूक्ष्मरूपेण वर्णित अपनी स्तुति प्रतिश्रवण की । मैं कोशदासके कंधेके सहारे खड़ा था । मुझे प्रतिक्षण विलास उत्पन्न हो रहा था । मेरे कपोल रोमाञ्चित हो रहे थे, मेरे नेत्र प्रफुल्लित हो रहे थे । उपर्युक्त लक्षणोंसे लक्षित मेरे ऊपर कटाक्ष कर रही थी । अतः मैं जहांपर खड़ा हुआ था वहींपर आकर उस राजकुमारीने प्रथमोत्पन्न कामदेवप्रेरित कटाक्ष दृष्टि फेंकी । तत्पश्चात्-कटाक्षोंके विक्षेपके पश्चात्-टेढ़ी-मेढ़ी लतारूपी भृकुटियोंद्वारा श्वासोच्छ्वासके वेगसे कम्पित और लीलापल्लवके समान धीरे धीरे कँपाती हुई अधरप्रभापुंजोंसे मुख- कमलकी सुगन्धको ग्रहण करनेमें अति चंचल भौरों को ताड़ित कर रही थी । ( ९ ) चक्राकार गतिसे उछलनेवाले कन्दुकको अत्यन्त शीघ्रतासे प्रक्षेपित करती
[Footer] Nepal Sanskrit University, Balmeeki Campus, Kathmandu
३२८ दशकुमारचरितम् । [ उत्तरपीठिकायां
३२८ दशकुमारचरितम् । [ उत्तरपीठिकायां नलज्जया पुष्पमयं पञ्जरम्, पञ्चबिन्दुप्रसृतेषु पञ्चापि पञ्चबाणबाणान्युग- पदिवाभिपततस्त्रासेनाबघट्टयन्ती, गोमूत्रिकाप्रचारेषु घनदर्शितरागविभ्रमा विद्युल्लतामिव विडम्बयन्ती, (१०) भूषणमणिरणितदत्तलयसंवादिपादचारम्, अपदेशस्मितप्र- भानिषिक्तबिम्बाधरम्, अंसस्रंसितप्रतिसमाहितशिखण्डभारम्, समाघ- सुरक्षितस्थानमाविशन्ती निलीयमानेवेत्युत्प्रेक्षा । पञ्चविन्दुप्रसृतेषु कन्दुकक्री- डायां तदाख्यगतिविशेषेषु । तदुक्तं पञ्चावर्त्तप्रहारस्तु पञ्चबिन्दुरुदाहृत इति । पञ्च पञ्चसंख्याकान् । 'अरविन्दमशोकञ्च चूतञ्च नवमल्लिका । नीलोत्पलञ्च पञ्चैते पञ्चबाणस्य सायका' इत्युक्तेः पञ्चबाणबाणान्-कामशरान् । युगपदिव- मन्ये समकालमेव । अभिपततः-कन्दुकाबत्याः सम्मुखमागच्छतः । पञ्चबाण- बाणानित्यस्य विशेषणम् । त्रासेन भयेन । अवघट्टयन्ती सन्ताड्य निरस्यन्ती । गोमूत्रिकाप्रचारेषु-गोमूत्रिकावत् सरलवक्रगतिविशेषास्तेषु । घनदर्शितेति-घनं सान्द्रं यथा तथा दर्शितः प्रकटितो रागस्यानुरागस्य विभ्रमो विलासो यया सा । अत एव विद्युल्लतां सौदामिनीं विडम्बयन्ती अनुकुर्वतीव । विद्युल्लतां कीदृशीम् इति पक्षान्तरे विभक्तिविपरिणामेन-घने मेघे दर्शितो रागस्य रक्तिम्नो विभ्रमो यया तामिति । (१०) भूषणेति-भूषणमणीनामलङ्काररत्नानां रणितेन शब्दितेन दत्तस्य लयस्य साम्यस्य संवादी अनुकारी पादचारः पादन्यासो यन्न तथथा तथा। इत आरभ्य सर्वाण्येव पर्यक्रीडतेति क्रियाविशेषणानि । अपदेशेति-अपदेशेन छलेन यत् स्मितमोषद्विसितं तस्य प्रभया कान्त्या निषिक्तो व्याप्तो बिम्बाधरो यत्र तत् । अंसेति-अंसे स्कन्धदेशे स्रंसित आदौ पतितः पश्चात् प्रतिसमाहितः स्व- हुई और उसो क्षण मेरे दर्शनकी कारणीभूता उत्पन्न लज्जासे विलब्जित होकर वह राजकुमारी मानो, कुसुमनिर्मित सुरक्षित स्थानमें प्रवेश करती हुई दीख रही थी । पञ्चबिन्दु (पंचावर्त्तप्रहार) गतिसे कन्दुकक्रीड़ा करती हुई वह राजकुमारी एक ही समयमें कामदेवके पांचों कुसुमनिर्मित बाणोंका, भयद्वारा, प्रतीकार करती हुई मालूम हो रही थी। गोमूत्रिका नामक गतिसे कन्दुकक्रीड़ा (सरल और वक्र गतिसे) करती हुई वह राजपुत्री प्रगाढ़ प्रीतिको झलकाती हुई बिजलीको भी तिरस्कृत कर रही थो । अथवा, बादलोंके प्रति जिसने रागके विलासको प्रकट किया है ऐसो बिजलीको भी तिरस्कृत करती हुई वह दिखाई दी। (१०) वह राजकुमारी अपने अलङ्कारोंके रत्नोंकी ध्वनियोंसे जो उसके पैरमें भूषित थे ताल (लय) को सम्पादित कर रही थी । उसके रक्त अधर कपटकी हँसीसे परिपूर्ण
दितक्वणितरत्नमेखलागुणम्, अञ्चितोत्थितपृथुनितम्बविलम्बितविचेलदंशु- कोज्ज्वलम् , आकुञ्चितप्रसृतवेल्लितभुजलताऽभिहतललितकन्दुकम् आवर्जितबाहुपाशम् , उपरिपरिवर्तितत्रिकविलग्नलोलकुन्तलम् , (११) अवगलितकर्णपूरकनकपत्रप्रतिसमाधानशीघ्रतानतिक्रमितप्र- कृतक्रीडनम् , असकृदुत्क्षिप्यमाणहस्तपादबाह्याभ्यन्तरभ्रान्तकन्दुकम्, स्थानं प्रापितः शिखण्डभारः केशकलापो यत्र तथथा । समाघट्टितेति-समाघट्टितः सञ्चालितोऽत एव क्वणितः शब्दायमानो रत्नमेखलागुणः काञ्चीदाम यत्र तथथा । अञ्चितेति-अञ्चितं शोभनं यथा तथा उत्थितः पृथुर्विशालो यो नितम्बस्तत्र विल- म्बितं लग्नं विचल्लञ्चलं यदंशुकं वसनं तेन उज्ज्वलं मनोज्ञं यथा तथा । आकु- ञ्चितेति-आकुञ्चितया कदाचित् संक्षिप्यमाणया प्रसृतया कदाचित् प्रसार्यमाणया, वेल्लितया कदाचिच्च वक्रीकृतया भुजलयतया बाहुयष्ट्या अभिहतस्ताडितो ललितः सुन्दरः कन्दुको यत्र तथथा । आवर्जितेति-आवर्जितौ आनमितौ बाहू भुजौ पाशाविव यस्मिंस्तद्यथा तथा । उपरीति-उपरि ऊर्ध्वदेशे परिवर्त्तिते स्थिते त्रिके पृष्ठवंशाधोभागे विलग्नाः संबद्धा। लोलाश्चञ्चलाः कुन्तलाः केशा यस्मिंस्तद्यथा तथा। (११) अवगलितेति-अवगलितस्य स्वस्थानात् भ्रष्टस्य कर्णपूरस्यावतंसभू- तस्य कनकपत्रस्य तदाख्याभरणस्य प्रतिसमाधाने स्वस्थाननयने या शीघ्रता क्षिप्रहस्तता तया अनतिक्रमितमनुलङ्घितं प्रकृतं प्रारब्धं क्रीडनं यत्र यद्यथा तथा। असकृदिति-असकृद् वारंवारमुत्क्षिप्यमाणयोर्हस्तपाद्योर्बाह्याभ्यन्तरयोर्भ्रान्तः थे। वह राजकुमारी अपने कन्धेपर गिरे हुए केश कलापोंको यथास्थान धर रही थी। उस राजकुमारीकी रत्नजटित करधनीके दाने सञ्चालन करनेसे बज रहे थे। उस राजकुमारीके सुशोभित तथा उन्नत एवं विशाल नितम्बस्थलमें जो चञ्चल वस्त्र लटक रहा था उससे वह मनोज्ञ दीख रही थी। वह राजकुमारी अपनी भुजलताद्वारा जो कभी फैलती थी, कभी सिमटती थी, कभी तिरछी होतो थी उसके द्वारा वह सुन्दर गेंदको ताड़ित करती थी। वह राजकुमारी कभी कभी अपने भुजपाशोंको आनमित करतो थी। वह राजकुमारी अपने हाथोंको ऊपर परिवर्त्तित करती थी, जिसके कारण उसकी चञ्चल बालोंकी चोटियां जो उसके नितम्बभागतक लटक रही थीं चञ्चलायमान दीख रही थीं। (११) वह राजपुत्री अपने कानके अलङ्कारको जिसमें सुवर्ण पत्र लगे थे उन्हें अपने स्थानसे गिरनेपर फिर यथास्थान सजा लेती थी तथा उसे ऐसा करते हुए अपने कन्दुकके खेलमें जरा भी देर नहीं होती थी। बेर-बेर उस कन्दुकको हाथ पैरोंसे
३३० दशकुमारचरितम् । [ उत्तरपीठिकायां
अवनमनोन्नमननैरन्तर्यनष्टदृष्टमध्ययष्टिकम्, अवपतनोत्पतननिर्व्यवस्थ- मुक्ताहारम्, अङ्कुरितघर्मसलिलदूषितकपोलपत्रभङ्गशोषणाधिकृतश्रवणप- ल्लवानिलम्, आगलितस्तनतटांशुकनियमनव्यापृतैकपाणिपल्लवं च निष- द्योत्थाय निमील्योन्मील्य स्थित्वा गत्वा चैवातिचित्रं पर्यक्रीडत राजकन्या। अभिहत्य भूतलाकाशयोरपि क्रीडान्तराणि दर्शनीयान्येकेनैव वानेकेनैव कन्दुकेनादर्शयत् । चन्द्रसेनादिभिश्च प्रियसखीभिः सह विहृत्य विहृतान्ते कन्दुको यत्र तद्यथा । अवनमनेति-अवनमननवनतीकरणमुन्नमनमूर्धीकरणं तयो- नैरन्तर्येण सातत्येन नष्टदृष्टा अवनमनेन नष्टाऽदर्शनं गता-उन्नमनेन च दृष्टा मध्य- यष्टिः शरीरमध्यभागो यस्मिंस्तद्यथा । अवपतनेति-अवपतनोत्पतनाभ्यां निर्व्य- वस्थश्चञ्चलो मुक्ताहारो यस्मिंस्तद्यथा । अङ्कुरितेति-अङ्कुरितेन ईषत् संजातेन घर्मसलिलेन स्वेदवारिणा दूषितयोर्व्यासयोः कपोलयोर्गण्डयोः पत्रभङ्गानां पत्ररच- नानां स्वेदबिन्दुसिक्तानामित्यर्थः- शोषणे शुष्ककरणे अधिकृतो नियुक्तः श्रवणप- ल्लवानिलः कर्णकिसलयवायैर्यत्र तद्यथा तथा । आगलितति-आगलितस्य स्रस्तस्य स्तनतटांशुकस्य कुचतटावरणस्य नियमने बन्धने व्यापृतो नियुक्त एकः पाणिपल्लवः करकिसलयो यस्मिंस्तद्यथा तथा । निषद्य-उपविश्य । निमील्य चक्षुरिति शेषः । अतिचित्रं-नानाविधम् । अभिहत्य ताडयित्वा । भूतलाका- शयोः-भूतले दर्शनीयानि आकाशे च दर्शनीयानि । क्रीडान्तराणि-नाना क्रीडाः । दर्शनीयानि-द्रष्टुं योग्यानि-मनोहराणीत्यर्थः । विहृत्य-क्रीडित्वा । विहृतान्ते- उछलती हुई बाहर-भीतर घूमनेवाला कन्दुक बना रही थी । उस राजपुत्रीकी देहका मध्यभाग, कभी दिखाता था और कभी नहीं भी दिखाता था । ऊपर और नीचे नमित और अनमित होनेसे उस राजकन्याकी मोतीकी माला चञ्चलायमान हो रही थी। उस राजकुमारीके कपोलोंपर जो पत्र रचनायें, ( चन्दनादिकी ) थीं, वे गेंद खेलनेके कारण उत्पन्न हुए पसीनेकी बूंदोंसे भींगती थीं, परन्तु, तुरन्त ही उस राजपुत्रीके कानोंपर सजे हुए नूतन किसलय अपनी हवासे उन्हें सुखा भी देते थे । उस राज- पुत्रीका एक हाथ ( कर किसलय ) उसके कुचोंपरसे खिसकते हुए वस्त्रको ( अञ्चलको ) सम्भालनेमें व्यस्त दीख रहा था। वह राजकन्या उठकर, खड़ी होकर, आँखें बन्द कर तथा आंखें खोल कर, कभी ठहरकर, कभी चलकर अतिविचित्र प्रकारकी कन्दुक क्रीड़ा कर रही थी । वह राजकुमारी कभी पृथिवीपर, कभी आकाशकी ओर, कभी एक प्रकारसे और कभी-कभी अनेक प्रकारसे एक ही गेंदसे क्रीड़ा कर रही थी । अर्थात् कभी वह एक गेंदकी अनेक गेंदोंके समान लोगोंको प्रतीति कराती थी और कभी एक ही गेंदकी प्रतीति करा रही थी । अपनी प्रिय सखी चन्द्र-
षष्ठोच्छ्वासः ] बालत्रिबोधिनीव्याख्यासहितम् । ३३१ चाभिवन्द्य देवीं मनसा मे सानुरागेणेव परिजनेनानुगम्यमाना, कुवल- यशरमिव कुसुमशरस्य मय्यपाङ्गं समर्पयन्ती, सापदेशमसकृदावर्त्यमा- नवदनचन्द्रमण्डलतया स्वहृदयमिव मत्समीपे प्रेरितं प्रतिनिवृत्तं न वेत्यालोकयन्ती, सह सखीभिः कुमारीपुरमगमत् । ( १२ ) अहं चानङ्गविह्वलः स्ववेश्म गत्वा कोशदासेन यत्नवदत्युदारं स्नानभोजनादिकमनुभावितोऽस्मि । सायं चोपसृत्य चन्द्रसेना रहसि मां प्रणिपत्य पत्युरंसमंसेन प्रणयपेशलमाघट्टयन्त्युपाविशत् । आचष्ट च हृष्टः क्रीडासमाप्तौ । देवीं-भगवतीम् । मनसेत्यादि-मे मम सानुरागेणानुरक्तेन मनसा हृदयेनेव परिजनेन तत्सखीवर्गेण अनुगम्यमानाः, यथा तस्याः परिज- नोऽनुगच्छतिस्म तथा मे हृदयमपि तामन्वगच्छदिति भावः । कुसुमशरस्य कामस्य कुवलयशरं कुवलयाख्यं बाणमिव अपाङ्गं कटाक्षमित्यर्थः मयि समर्प- यन्ती प्रेरयन्ती । सापदेशं सब्याजम् । असकृद् वारंवारम् । आवर्त्येति-आव- र्त्यमानं पुनः पुनः प्रतिनिवर्त्यमानं वदनमेव चन्द्रमण्डलं यस्यास्तस्या भाव- स्तया । स्वहृदयेत्यादि-मत्समीपे प्रेरितं स्वहृदयं प्रतिनिवृत्तं न वेति पश्यन्ती- वेत्युत्प्रेक्षा । ( १२ ) अहं मित्रगुप्तः । अनङ्गविह्वलः-मदनाविष्टः । स्ववेश्म-निजगृहम् । यत्नवत् सयत्नम् अत्युदारम्-अत्युत्कृष्टम् । अनुभावितः-अनुभवविषयीकृतः । उपसृत्य-आगत्य । पत्युः कोशदासस्य । अंसं-स्कन्धदेशम् । अंसेन स्वस्कन्धेन । प्रणयपेशलं-प्रेममधुरं यथा तथा । आघट्टयन्ती स्पृशन्ती । भूयासं भविष्यामि । सेना तथा अन्योंके साथ इस तरीकेसे अनेक रीतिसे उस राजकुमारोने कन्दुक क्रीड़ाएँ कीं और तदनन्तर देवीजीका स्तवन कर मेरे अनुराग युक्त अन्तःकरणके साथ एवं अपने परिजन वर्गके सहित वहाँसे रवाना हुई । जाते हुए उस राजकुमारीने कामदेवके कमल- बाणके समान अपने कटाक्षोंका विक्षेप मेरे ऊपर किया । किसी-किसी बहानेसे वह अपने मुख चन्द्रमण्डलको बार-बार पीछे फेरती थी अर्थात् पीछे मुख करके वह देखती जाती थी । उसका देखना मालूम पड़ता था कि उसने (कुमारीने) अपना हृदय मेरे समीप भेज दिया हो । और इसीलिये वह बार-बार मुझे देख भी लेती थी कि वह ( मित्रगुप्त ) मुझे देख रहा है या चला गया । ऐसी चेष्टाएँ करती हुई वह राजपुत्री सखियोंके साथ अन्तःपुरमें चली गयी । ( १२ ) कामदेव पीडित मैं भी अपने स्थानपर जाकर उदार चित्तवाले कोशदासद्वारा यत्नपूर्वक स्नान, भोजन आदि प्राप्त कर आराम करने लगा । सायंकालमें चन्द्रसेना भायी २२ द० कु० उ० Nepal Sanskrit University, Balmeeki Campus, Kathmandu
१३२ दशकुमारचरितम्। [ उत्तरपीठिकायां
१३२ दशकुमारचरितम्। [ उत्तरपीठिकायां कोशदासः—'भूयासमेवं यावदायुरयाताक्षि, त्वत्प्रसादस्य पात्रम्' इति। मया तु सस्मितमभिहितम्-'सखे, किमेतदाशास्यम्। अस्ति किञ्चिदञ्ज- नम्। अनया तदक्तनेत्रया राजसूनुरुपस्थितो वानरीमिवैनां द्रक्ष्यति, वि- रक्तश्चैनां पुनस्त्यक्ष्यति' इति। तया तु स्मेरयास्मि कथितः-'सोऽयमार्ये- णाज्ञाकरो जनोऽत्यर्थमनुगृहीतः, यदस्मिन्नेव जन्मनि मानुषं वपुरपनीय वानरीकरिष्यते। तदास्तामिदम्। अन्यथापि सिद्धं नः समीहितम्। (१३) अद्य खलु कन्दुकोत्सवे भवन्तमपहसितमनोभवाकारमभि- लषन्ती रोषादिव शम्बरद्विपातिमात्रमायास्यते राजपुत्री। सोऽयमर्थो एवं-एवं रूपेण। यावदायूः-यावत्कालं जीविष्यामीत्यर्थः। आयते दीर्घे अक्षि- णी नेत्रे यस्यास्तत्सम्बुद्धौ। त्वत्प्रसादस्य तवानुग्रहस्य। पात्रं-भाजनम्। मया- मित्रगुप्तेन। आशास्यम्-आशंकनीयम्। अत्राशंकायाः सम्भव एव नास्तीत्यर्थः। अञ्जनं कजलम्। तदक्तनेत्रया-तेनाञ्जनेन अक्ते रञ्जिते नेत्रे यस्यास्तया। अनया चन्द्रसेनया हेतुभूतयेत्यर्थः। वानरीमिव-वानराकृतिम्। एनां चन्द्रसेनाम्। तया चन्द्रसेनया। स्मेरया-स्मितं कुर्वत्या। आर्येण पूज्येन भवता। आज्ञाकरः सेवकः। सोऽयं जनः-अहमित्यर्थः। अत्यर्थमत्यन्तम्। मनुष्यस्येदमिति मानु- षम्। वपुः शरीरम्। अपनीय-दूरीकृत्य। आस्तां तिष्ठतु अलमनेनेत्यर्थः। अन्यथा मनुष्यस्य वानरीकरणं विनाऽन्येनाप्युपायेन। सिद्धं सम्पन्नम्। नोऽस्मा- कम्। समीहितमभीष्टम्। (१३) भवन्तमित्यादि-अपहसितस्तिरस्कृतो मनोभवस्य कन्दर्पस्याकारो येन तादृशं भवन्तं मित्रगुप्तमित्यर्थः अभिलषन्ती आकांक्षन्ती राजपुत्री रोषात्क्रोधा- और मुझे प्रणामकर एकान्तमें अपने पतिके कधस कंधा मिलाकर प्रेमपूर्वक बैठ गयीं। प्रसन्नतासे कोशदासने कहा—'हे विशालाक्षि ! यावज्जीवन पर्यन्त मुझे आप इसी तरह प्रेमपात्र बनाये रखियेगा !' मैने हँसकर कहा—'हे मित्र ! ऐसी आशङ्का ही क्यों करनी चाहिये। एक तरहका अञ्जन (मेरे पास) है। उस अञ्जनसे परिरञ्जित होनेपर यह चन्द्रसेना राजपुत्रको बन्दरियाकी तरह दिखायी पड़ेगी। और उस कारणसे राजकुमार विरक्त होकर इसे नहीं देखेगा। उसने हंसकर मुझसे कहा-'हे आर्य ! यह' जन (चन्द्रसेना) आपकी आज्ञाकारिणी आपसे अत्यन्त अनुगृहीत है। क्योंकि आप इसी जन्ममें इसे मानुषी देहसे बन्दरियाके रूपमें परिणत करनेवाले हैं अस्तु, यह कृपा रहने दीजिये। अन्य उपायोंद्वारा भी यह कार्य सम्पन्न हो जायगा। (.१३) आज कन्दुकक्रीडामें कामदेवको तिरस्कृत करनेवाले आपको राजकुमारी
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३३३ विदितभावया मया स्वमात्रे तया च तन्मात्रे, महिष्या च मनुजेन्द्राय, निवेदयिष्यते । विदितार्थस्तु पार्थिवस्त्वया दुहितुः पाणि ग्राहयिष्यति । ततश्च त्वदनुजीविना राजपुत्रेण भवितव्यम् । एष हि देवतासमादिष्टो विधिः । त्वदायत्ते च राज्ये नालमेव त्वामतिक्रम्य मामवरोद्धुं भीमधन्वा तत्सहतामयं त्रिचतुराणि दिनानि' इति मामामन्य प्रियं चोपगृह्य प्रत्य- यासीत् । ( १४ ) मम च कोशदासस्य च तदुक्तानुसारेण बहुविकल्पयतोः दिव शम्बरद्विषा कामेनातिमात्रमप्यर्थम् आयास्यते पीड्यते । अयमर्थः विषयः । विदितभावया-ज्ञाताशयया । स्वमात्रे-निजजनन्यै-चन्द्रसेनाया मात्रे इत्यर्थः । तया चन्द्रसेनाजनन्य । तन्मात्रे तस्याः कन्दुकावत्या जनन्यै । महिष्या-राज्ञ्या मनुजेन्द्राय राज्ञे । निवेदयिष्यते-कथयिष्यते । विदितार्थः-ज्ञातवृत्तान्तः । त्वया मित्रगुप्तेन । दुहितुः स्वकन्यायाः कन्दुकावत्याः । पाणिं ग्राहयिष्यति-विवाहं कारयिष्यतीत्यर्थः । ततः विवाहानन्तरम् । त्वदनुजीविना त्वदायत्तेन । देवतास- मादिष्टः-दैवनिर्दिष्टः । विधिर्विधानम् त्वदायत्ते-भवदधीनीकृते । अलं समर्थः । त्वां भवन्तं मित्रगुप्तमित्यर्थः । अतिक्रम्योल्लंध्य । मां चन्द्रसेनामित्यर्थः । अवरोद्धुं बलान्निरोद्धुम् । तत् तस्मात् । सहतां अपेक्षताम् । अयं-कोशदासः । मां मित्र- गुप्तम् । आमन्त्र्य आभाष्य । प्रियं-दयितं कोशदासमिति यावत् । उपगृह्य आलिङ्ग्य । प्रत्ययासीत् प्रतिगता । ( १४ ) तदुक्तानुसारेण-चन्द्रसेना वचनानुसारेण । बहु अनेकप्रकारम् । विक- ल्पयतोः-जल्पतोः विशेषणमिदम् मम च कोशदासस्य चेत्यनेन चकाराच्चित्तस्य अभिलाष कर रही थी, इसी कारण कामदेव क्रोधसे राजकन्याको पीड़ित कर रहा है । राजकुमारीके भावको जाननेवाली मैं इन बातोंको अपनी मातासे कहूँगी, मेरी माता राजकुमारीकी मातासे कहेगी और वे राजमाता अपने पतिसे निवेदित करेंगी। इन बातोंको ज्ञातकर राजा अपनी पुत्रीका विवाह आपसे कर देंगे। तत्पश्चात् यह राजपुत्र आपके ही अधीन हो जायगा । क्योंकि देवताने यही विधानकी आज्ञा दी है। जब यह राज्य आपके अधिकारमें हो जायगा, तब यह राजपुत्र भीमधन्वा आपकी आज्ञाका उल्लंघन करके मुझे रोक नहीं सकता-विवाह करनेसे । अत एव तीन-चार दिनोंके कष्टोंको और झेलना चाहिये । ऐसे वाक्य मुझसे कहकर तथा अपने प्रियका आलिङ्गन करके वह चन्द्रसेना चली गयी । (१४) हम लोगोंने, उसी चन्द्रसेनाके कथनानुसार उसके वाक्योंपर विचार विनिमय Nepal Sanskrit University, Balmeeki Campus, Kathmandu
३३४ दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
३३४ दशकुमारचरितम् । [ उत्तरपीठिकायां
कथंचिदक्षीयत क्षपा । क्षपान्ते च कृतयथोचितनियमस्तमेव प्रिया- दर्शनसुभगमुद्यानोद्देशमुपागतोऽस्मि । तत्रैव चोपसृत्य राजपुत्रो निरभि- मानमनुकूलाभिः कथाभीमामनुवर्तमानो मुहूर्तमास्त । नीत्वा चोपकार्या- मात्मसमेन स्नानभोजनशयनादिव्यति करेणोपाचरत् । तल्पगतं च स्वप्ने- नानुभूयमानप्रियादर्शनालिङ्गनसुखमायसेन निगडेनातिबलवद्बहुपुरुषैः पीवरभुजदण्डोपरुद्धमबन्धयन्माम् । ( १५ ) प्रतिबुद्धं च सहसा मामभ्यधात्—'अयि दुर्मते, श्रुतमाल्पितं
द्विवचनस्य । कथंचित्केनापि प्रकारेण-अतिकष्टेनेति भावः । अक्षीयत-प्रभातोऽ- भवत् । क्षपा रात्रिः । क्षपान्ते निशावशाने । कृतेति-कृताः सम्पादिता यथोचिता विहिता नियमाः प्रातःकृत्यादिक्रिया येन सः । तं पूर्वदृष्टम् । प्रियेति-प्रियायाः कन्दुकाबत्या दर्शनेनावलोकनेन सुभगं मनोरमम् । उद्यानॊद्देशम् उपवनप्रदेशम् । उपागतः प्राप्तः । तत्रैव उपवने । राजपुत्रः भीमधन्वा । निरभिमानमहङ्कारशून्यं यथा तथा । अनुकूलाभिः मदभिलषिताभिः । कथाभिर्वार्त्तालापैः । अनुवर्तमानः- मामुपचरन् । आस्त अतिष्ठत् । नीत्वा प्रापय्य मामिति शेषः । उपकार्यां राज- सदनम् । आत्मसमेन स्वानुरूपेण । स्नानेति-स्नानभोजनशयनादीनां व्यतिकरः प्रबन्धस्तेन । उपाचरत्-मामसेवत । तल्पगतं शय्यास्थं शयितमिति यावत् । स्वप्नेन स्वप्नावस्थया । अनुभूयमानमनुभवविषयीकृतं प्रियायाः कन्दुकाबत्या दर्शनालिङ्गनयोः सुखं येन तथाभूतम् । मामित्यस्य विशेषणद्वयम् । आयसेन लोहमयेन । निगडेन शृङ्खलेन । अतिबलवद्भिर्महाशक्तिशालिभिर्बहुभिरनेकः पुरुषैः करणभूतैः । पीवरेति-पीवराभ्यां मांसलाभ्यां भुजदण्डाभ्यामुपरुद्धं निरुद्धं यथा तथा । अबन्धयत् बन्धनं प्रापितवान् । ( १५ ) प्रतिबुद्धं जागरितं मामिति शेषः । दुर्मते दुष्टबुद्धे । सम्बोधनपदमे-
करते हुए, रात व्यतीत की । प्रभात होनेपर मैं यथाविधि नित्यकृत्य करके उसी बगीचेमें जा पहुँचा जहाँपर राजपुत्रोके दर्शन हुए थे। उसी बगीचेमें राजपुत्र भीमधन्वा भी आ गया और मेरे अनुकूल कथाएँ सुनाता हुआ मेरे पास निरभिमान होकर कुछ समयतक बैठा रहा । फिर मुझे राजसदनमें ले जाकर अपने सदृश स्नान, भोजन और शयन आदिसे मेरा राजकुमारोचित स्वागत किया । शय्यापर सो जानेपर मैंने स्वप्नमें देखा कि मैंने राजकन्याके साथ रमणकर उसके आलिंगन सुखको प्राप्त किया । तथा लोहेकी हथकड़ियोंसे मैं बहुत बलवान् राजपुरुषों द्वारा, जिनकी भुजाए बड़ी मोटी हैं, बन्दी बना दिया गया हूँ । ( १५ ) जागनेपर मैं सम्बोधित किया गया-'हे दुर्बुद्धे ! मन्दभाग्या चन्द्रसेनाकी
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३३५ हतायाश्चन्द्रसेनाया जालरन्ध्रनिःसृतं तच्चेष्टावबोधप्रयुक्तयानया कुब्जया, त्वं किलाभिलषितो वराक्या कन्दुकावत्या तव कलानुजीविना मया स्थे- यम्, त्वद्वचः कलानतिक्रमता मया चन्द्रसेना कोशदासय दास्यते' इत्युक्त्वा पार्श्वचरं पुरुषमेकमालोक्याकथयत् - 'प्रक्षिपैनं सागरे' इति । स तु लब्धराज्य इवातिहृष्टः 'देव, यदाज्ञापयसि' इति यथादिष्टमकरोत् । (१६) अहं तु निरालम्बनो भुजाभ्यामितस्ततः स्पन्दमानः किमपि काष्ठं दैवदत्त मुरसोपश्लिष्य तावदप्लोषि, यावदपासरद्वासरः शर्वरी च सर्वा । प्रत्युषस्यदृश्यत किमपि वहित्रम् । अमुत्रासन्यवनाः ते मामुदूधृत्य तत् । आलपितं भाषितम् । हताया मन्दभागिन्याः । जालरन्ध्रनिःसृतं गवाक्ष- च्छिद्रनिर्गतम् आलपितमित्यस्य विशेषणम् । कथमिति ? तच्चेष्टेति । तस्याश्च- न्द्रसेनायाश्चेष्टावबोधाय ईहितज्ञानाय प्रयुक्तया नियुक्तया । कुब्जया-हीनाङ्ग्या कयाचित् स्त्रिया । किं श्रुतमिति चेत्-त्वं किलेत्यादि । वराक्या हतभाग्यया । अनुजीविना-त्वदायत्तजीवितेन । मया भीमधन्वना । स्थेयं स्थातव्यम् । त्वद्वचः तव मित्रगुप्तस्य वाक्यम् । अनतिक्रमता-अलङ्घयता । मया भीमधन्वनेत्यर्थः । अत्र किल शब्दा असम्भाव्यार्थबोधकाः । पार्श्वचरं-समीपवर्तिनम् । एनं मित्र- गुप्तम् । सः पुरुषः । यथादिष्टमादेशानुरूपं सागरप्रक्षेपम् । (१६) अहं मित्रगुप्तः । निरालम्बनः निराश्रयः । स्पन्दमानः-सञ्चलन् । उरसा वक्षसा । उपश्लिष्य आलिङ्गय । तावत्-तावत्कालपर्यन्तम् । अप्लोषि- प्लवमानोऽभवम् । 'प्लुङ्' प्लवने इत्यस्य धातोलुंङि उत्तमपुरुषैकवचने रूपम् । यावत्-यावता कालेन । अपासरत्-अत्यक्रामत् । सर्वा शर्वरी निखिला रात्रिश्चा- पासरदिति शेषः । प्रत्युषसि प्रभाते । अदृश्यत-दृष्टमभवत् । वहित्रं जलयानम् । बातोंको मैंने एक कुब्जाद्वारा सुना, जिसने खिड़कीके छेदोंसे चन्द्रसेनाकी बातें श्रवण की थीं कि, हतभागिनी कन्दुकावती मेरो भगिनी तुम्हें चाहती है। अतः मैं तेरे अधीन होकर रहूँगा। और तेरे कथनानुसार मैं चन्द्रसेनाको कोशदाससे उद्वाहित कर दूंगा।' ऐसा कह कर उसने अपने समीपके एक नौकरको देखकर कहा-'इस मित्रगुप्तको समुद्रमें फेंक दो ।' उस राजभक्त नौकरने (सेवकने) राज्यप्राप्तिके सदृश प्रसन्नता प्रकट करते हुए कहा-'जैसी प्रभुकी (आपकी) आज्ञा ।' और मुझे यथादेश समुद्रमें फेंक दिया । (१६) निराश्रित होकर मैं बंधी हुई भुजाओंको सञ्चालित करता हुआ समुद्रमें इधर-उधर डूबता हुआ बह रहा था कि, दैववशात् मुझे एक काठ मिल गया। उस काठको वक्षःस्थलसे लगाकर मैं एक दिन और एक रात तैरता ही रह गया। दूसरे दिन Nepal Sanskrit University, Balmeeki Campus, Kathmandu
३३६ दशकुमारचरितम् । [ उत्तरपीठिकायां
३३६ दशकुमारचरितम् । [ उत्तरपीठिकायां
रामेषु नाम्ने नाविकनायकाय कथितवन्तः-‘कोऽप्ययमायसनिगडबद्ध एव जले लब्धः पुरुषः । सोऽयमपि सिञ्चेत्सहस्रं द्राक्षाणां क्षणेनैकेन' इति अस्मिन्नेव क्षणे नैकनौकापरिवृतः कोऽपि मद्गुरभ्यधावत् । अबि- भ्युर्यवनाः । तावदतिजवा नौकाः श्वान इव वराहमस्मत्पोतं पर्युरुत्सत् । प्रावर्तत संप्रहारः । पराजयिषत यवनाः । तानहमगतीनवसीदतः स- माश्वास्यालपिषम्--‘अपनयत मे निगडबन्धनम् । अहमहमवसादयामि वः सपत्नान्' इति ।
अमुत्र-अस्मिन् वहित्रे । आसन्-अतिष्ठन् । यवना म्लेच्छाः । ते यवनाः । उद्- धृत्य जलादुत्थाप्य । नाविकनायकाय-नाविकाधिपतये । आयसनिगडबद्धः लौह- शृङ्खलनियमितः । सोऽयं-पुरुषः । द्राक्षाणां मृद्वीकालतानां सहस्रं एकेन क्षणेन सिञ्चेत् आर्दीकुर्यात् । अयं यावान् बलिष्ठो दृश्यते तथा तर्कयामः क्षणमात्रे- णायं द्राक्षाणां सहस्रं सेक्तुं समर्थ इति भावः । अथवा-अस्य विनिमयेनास्मा- भिर्दाक्षाणां सहस्रं लप्स्येतेति भावः । नैकनौकापरिवृतः-अनेकक्षुद्रतरणीवेष्टितः । मद्गुः युद्धपोतः । अबिभयुः भयं प्रापुः । ञिभी भये इत्यस्य भीधातोलंङि रूपम् । अतिजवाः वेगवत्यः । श्वानः कुक्कुराः । वराहं शूकरम् । कुक्कुरा यथा वराहं रुन्धन्ति तद्वदित्यर्थः । अस्माकं पोतं वहित्रम् । पर्युरुत्सत् समन्तात् रुरुधुः । परिपूर्वकाद् रुधंधातोलुंङ् प्रावर्त्तत प्रारभत । सम्प्रहारो युद्धम् । पराजयिषत— पराजिता अभूवन् । तान् यवनान् पराजीयमानानिति शेषः । अहं मित्रगुप्त इत्यर्थः । अगतीन् अशरणान् अत एव अवसीदतः-नैराश्यं गतान् । आलपि- षम् । अवोचम् । अपनयत-अपसारयत दूरीकुरुतेति यावत् । अवसादयामि-नाश- यामि । सपत्नान् शत्रून् ।
उषाकालमें मुझे एक नाव ( नौका ) दिखायी दी । उस नावके ऊपर यवन लोग बैठे हुए थे । उन यवनोंने मुझे जलसे बाहर निकालकर राम नामके नाविकोंके अधिपतिसे कहा— 'लोहेकी सिकड़ियोंसे परिवद्ध यह मनुष्य जलमें बह रहा था, इसको हम लोगोंने खींच निकाला है । इसे इतनी शक्ति है कि यह एक ही क्षणमें हजार द्राक्षाकी लताओंको सींच सकता है । उसी समय अनेक नावोंके साथ एक युद्धक नौका, जिसका नाम 'मद्गु' था, अनेक योद्धाओंके सहित वहांपर आ गयी । उन योद्धाओंको देखकर वे सब यवन भयान्वित हो गये । और उन वीर पुरुषोंसे युक्त नावोंने मेरी नावको ऐसे चारों ओरसे घेर लिया जैसे शिकारी कुत्ते सूअरको घेर लिया करते हैं । संग्राम भी होने लगा । यवन लोग पराजित हो गये । नैराश्यको प्राप्त होनेवाले तथा शरणहीन उन यवनोंको