दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 362, कुल 474 में से
संदर्भ में पढ़ें३६२ दशकुमारचरितम् । [ उत्तरपीठिकायां तया सह तद्विमानहर्म्यतले ततोऽपि द्विगुणमण्डिता विहरिष्यामि। त्वया तु तन्मातृप्रार्थनं सकरुणमभिधाय मत्पतिरेतद्गृहं कथञ्चनानेयः। समी- पगते च युष्मासु क्रीडामत्ता नाम कन्दुकं भ्रंशयेयम्। अथ तमादाय तस्य हस्ते दत्त्वा वक्ष्यसि— 'पुत्र, तवेयं भार्योसखी निधिपतिदत्तस्य सर्वश्रेष्ठि- मुख्यस्य कन्या कनकवती नाम। त्वामियमनवस्थो निष्करुणश्चेति रत्न- वतीनिमित्तमत्यर्थं निन्दति । तदेष कन्दुको विपक्षधनं प्रत्यर्पणीयम्' इति । स तथोक्तो नियतमुन्मुखीभूय तामेव प्रियसखीं मन्यमानो मा बद्धाञ्जलिं याचमानायै मह्यं भूयस्त्वत्प्रार्थितः साभिलाषमर्पयिष्यति । 'तेन रन्ध्रे- कनकवत्यपेक्षयापि। द्विगुणमण्डिता-समधिकविभूषिता। त्वया-परिव्राजिकया। तन्मातृप्रार्थनं तस्याः कनकवत्या मातुर्जनन्याः प्रार्थनं याचनम् । कनकवत्या जननी त्वां द्रष्टुमिच्छतीति सकरुणमभिधाय तमुक्त्वा। एतद्गृहं कनकवतीगेहम् । कथञ्चन-येन केनापि प्रकारेण । आनेयः आनेतव्यः । समीपगते निकटवर्तिनि मत्पत्याविति शेषः। युष्मासु युष्माकमुपरि । क्रीडामत्ता नाम-क्रीडोन्मादिनीव भूत्वा । भ्रंशयेयं पातयिष्यामि । तं कन्दुकम् । तस्य मत्पत्युर्बलभद्रस्य । इयं कनकवती । अनवस्थः अव्यवस्थः चञ्चलमतिरित्यर्थः । तत्तस्मात् । विपक्षधनं विरोधिजनद्रव्यम् । स बलभद्रः । तथा तेन प्रकारेण कथितः । नियतमवश्यम् । उन्मुखीभूय ऊर्ध्वमुखो भूत्वा । मां तामेव प्रियसखीं कनकवतीं मन्यमानः जानन् । याचमानायैकन्दुकं प्रार्थयमानायै । भूयः पुनरपि । त्वत्प्रार्थितः त्वया याचितः । साभिलाषं सस्पृहम् । रन्ध्रेण व्याजेन । उपश्लिष्य आलिङ्ग्य । रागममुरागम् । उसकी (कनकवती की) मातासे करुणापूर्वक प्रार्थना करके मेरे पतिको (कनकवतीकी माता तुम्हें देखना चाहती हैं) किसी प्रकार उस मेरी सखीके घरपर ले आना। जब आप लोग कनकवतीके गृहके समीप आ जायंगी तब मैं आप लोगोंके ऊपर क्रीड़ोन्मत्ताके समान गेंद फेंक दूंगी (गिरा दूंगी)। आप उस गेंदको लेकर मेरे पतिके हाथमें देकर कहियेगा—"हे पुत्र ! सब वणिकोंमें श्रेष्ठ निधिपति नामक सेठकी पुत्री यह कनकवती तुम्हारी पत्नीकी सखी है। यह कनकवती निष्करुण, चंचल स्वभाववाली होनेके कारण तुम्हारी रत्नवतीके प्रेमके बहाने बड़ी निन्दा करती है। अतः इस विपक्षी धनको (गेंदको) उसे वापस कर दीजिये।' इस प्रकारसे कथन करनेपर वह अवश्य ऊपरकी ओर मुख करके मुझे कनकवती समझकर देखेगा। तब मैं बद्धाञ्जली होकर उससे गेंद फेरनेकी प्रार्थना करूंगी और आप भी उससे गेंद फेरनेको कहेंगी तो वह सस्पृह होकर मुझे गेंद दे देगा। फिर मैं उसका व्याज (कपट) के साथ आलिंगन करूंगी एवं प्रेमको