दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 363, कुल 474 में से
संदर्भ में पढ़ेंषष्ठोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । ३६३ णोपश्लिष्य रागमुरुज्वलीकृत्य यथासौ कृतसंकेतो देशान्तरमादाय मां गमिष्यति तथोपपादनीयम्' इति । ( ३६ ) हर्षाभ्युपेतया चानया तथैव संपादितम् । अथैतां कनकव- तीति वृद्धतापसीविप्रलब्धो बलभद्रः सरत्नसाराभरणामादाय निशि नीर- न्ध्रे तमसि प्रावसत् । सा तु तापसी वार्त्तामापादयत्—'मन्देन मया नि- र्निमित्तमुपेक्षिता रत्नवती, श्वशुरौ च परिभूतौ, सुहृदश्चातिवर्तिताः । तद्- त्रैव संसृष्टो जीवितुं जिह्रेमीति बलभद्रः पूर्वेद्युर्मामकथयत् । नूनमसौ तेन उज्ज्वलीकृत्य-वर्धयित्वा । असौ बलभद्रः । कृतसंकेतः-दत्तेङ्गितः । उपपादनीयं विधेयम् । (४१) हर्षेति-हर्षेणानन्देन अभ्युपेतया तथास्त्विति स्वीकृतया । अनया प्रव्रा- जिकया । एतां रत्नवतीं कनकवतीति कृत्वा वृद्धतापसीविप्रलब्धः वृद्धप्रव्राजिका- प्रतारितः । सरत्नसाराभरणांम्-रत्नालङ्काराद्युत्कृष्टधनसहिताम् । नीरन्ध्रे तमसि- गाढान्धकारे । प्रावसत्-देशान्तरमगच्छत् । वार्त्तामापादयत्-वक्ष्यमाणरूपां कथां प्राचारयत् । कीदृशीमित्याह-इत्यन्तेन । मन्देन मूढेन । मया-बलभद्रेण । निर्नि- मित्तं निष्कारणम् । उपेक्षिता त्यक्ता । श्वशुरौ-श्वश्रूश्च श्वशुरश्चेत्येकशेषः । परिभूतौ तिरस्कृतौ । अवमानिताविति यावत् । अतिवर्त्तिताः अतिक्रान्ताः तेषां वचनमपि मयोपेक्षितमिति भावः । अत्रैव अस्मिन्नेव नगरे । संसृष्टः श्वशुरादिभिः सङ्गतः । जिह्रेमि लज्जे । पूर्वेद्युः गतदिवसे । मां वृद्धतापसीमित्यर्थः । नूनं निश्चितम् । असौ रत्नवती । तेन बलभद्रेण । नीता देशान्तरमिति शेषः । व्यक्तिः प्रकाशः एतद्वृ- त्तान्तप्रकटनमिति यावत् । अचिरात् शीघ्रम् । इत्यन्ता वार्त्ता तापस्या प्रचा- बढ़ाकर उसे देशान्तर चलनेके लिय संकेत करूंगी तथा जिस रीतिसे वह मुझे लेकर अन्य देशमें भाग चले ऐसे प्रयत्नोंको करूंगी । (३९) आनन्दके साथ संन्यासिनी द्वारा वह कार्य मेरे कथनानुसार सम्पादित कर दिया गया । तदनन्तर संन्यासिनी द्वारा वंचित होकर वह बलभद्र रत्नवतीको ही कनकवती समझकर मणि, सुवर्ण आदिसे युक्त होकर गाढान्धकारवाली आधी रातमें वहांसे अन्य देशको चला गया । उस संन्यासिनी द्वारा लोगोंमें बात प्रचारित हुई कि उस बलभद्रने कल मुझसे कहा—'हे अम्ब ! निष्कारणही मुझ मूर्खजनके द्वारा रत्नवती उपेक्षिता हुई । श्वसुर-सास आदि भी तिरस्कृत हुए । मित्रोंकी भी सम्मतियां न मानीं । अतः अब यहां इन लोगोंके संग मुझे रहनेमें लज्जा आती है।' इस कारणसे वही वलभद्र अपनी स्त्री रत्नवतीको साथ लेकर परदेश चला गया है । यह बात शीघ्र ही प्रकाशित भी २४ द० कु० उ०