भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 37, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 37

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ३७ ───────────────────────────────────────────────────────────────────────────── ( ७७ ) ततो विषमविषज्वालावलीढावयवा सा धरणितले न्यपतत् । दयाविष्टहृदयोऽहं मन्त्रबलेत् विषव्यथामपनेतुमक्षमः समीपकुञ्जेभ्योष- धिविशेषमन्विष्य प्रत्यागतो व्युत्क्रान्तजीवितां तां व्यलोकयम् । ( ७८ ) तदनु तस्याः पावकसंस्कारं विरचय शोकाकुलचेता बालमेन- मगतिमादाय सत्यवर्मवृत्तान्तवेलायां तन्निवासाग्रहारेनामधेयस्याश्रुततया तदन्वेषणमशक्यमित्यालोच्य भवदमात्यतनयस्य भवानेवाभिरक्षितेति भवन्तमेनमनयम्' इति । ( ७९ ) तन्निशम्य सत्यवर्मस्थितेः सम्यगनिश्चिततया खिन्नमानसो ───────────────────────────────────────────────────────────────────────────── ( ७७ ) विषमयाऽविषह्यया विषस्य ज्वालया शिखया पीड्येत्यर्थः । अवलीढाः व्याप्ता अवयवा अङ्गानि यस्याः सा । दयया करुणया आविष्टमाक्रान्तं हृदयं चेतो यस्य सः । मन्त्रबलेन मन्त्रशक्त्या । अपनेतुं दूरीकर्तुम् । समीपकुञ्जेषु निकटस्थ- लतादिपिहितस्थानेषु । व्युत्क्रान्तजीवितां मृताम् । ( ७८ ) तदनु तदनन्तरम् । पावकसंस्कारं विरचय अग्निसंस्कारं कृत्वा तद्देहं भस्मसात्कृत्वेत्यर्थः । शोकेन खेदेनाकुलं व्याप्तं चेतो यस्य सः । अगतिमनाथम् । सत्यवर्मणो वृत्तान्तश्रवणवेलायां वार्ताश्रवणसमये तस्य सत्यवर्मणो निवासा- ग्रहारस्य वासस्थलभूतस्य ग्रामस्य यन्नामधेयं नाम तस्याश्रुततया अश्रव- णेन । अभिरक्षिता पालकः । अनयं प्रापितवानस्मि । णीञ्प्रापणे इत्यस्य धातो- र्लङि रूपम् । ( ७९ ) सत्यवर्मस्थितेः तदवस्थानस्य जीवनस्य वा सम्यगनिश्चिततया सोऽत्रै- ───────────────────────────────────────────────────────────────────────────── ( ७७ ) इतनी बात कहते-कहते भयङ्कर विषकी ज्वालासे, जो सब शरीरमें व्याप्त हो गया था, वह अचानक भूमिपर गिर गयी । मुझे उसकी ऐसी दशापर दया आ गयी। परन्तु मैं मन्त्र नहीं जानता था इससे मन्त्रबलसे उसकी पीड़ा नष्ट न कर सका किन्तु समीपके लता- गृहसे मैं जब औषधि खोजकर आया तो देखा कि उसके प्राण-पखेरू उड़ चुके थे । ( ७८ ) तत्पश्चात् मैंने उसकी दाह-क्रिया की । और इस शोकान्वित चित्तवाले बालकको अपने पास रख लिया । परन्तु सत्यवर्माके चरित्रके श्रवणके समय उसके निवासस्थान अग्रहारका नाम तो सुना किन्तु पता न पा सका अतः उस स्थानका अन्वेषण करना अशक्य समझा । हे प्रभो, आपके मन्त्रीका यह बालक है—ऐसा विचार करके आपके समीप ले आया हूँ । ( ७९ ) उपर्युक्त वृत्तान्तको जानकर तथा सत्यवर्माकी अनिश्चित स्थिति का ध्यान करके Nepal Sanskrit University, Balmeeki Campus, Kathmandu