दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ३७ ───────────────────────────────────────────────────────────────────────────── ( ७७ ) ततो विषमविषज्वालावलीढावयवा सा धरणितले न्यपतत् । दयाविष्टहृदयोऽहं मन्त्रबलेत् विषव्यथामपनेतुमक्षमः समीपकुञ्जेभ्योष- धिविशेषमन्विष्य प्रत्यागतो व्युत्क्रान्तजीवितां तां व्यलोकयम् । ( ७८ ) तदनु तस्याः पावकसंस्कारं विरचय शोकाकुलचेता बालमेन- मगतिमादाय सत्यवर्मवृत्तान्तवेलायां तन्निवासाग्रहारेनामधेयस्याश्रुततया तदन्वेषणमशक्यमित्यालोच्य भवदमात्यतनयस्य भवानेवाभिरक्षितेति भवन्तमेनमनयम्' इति । ( ७९ ) तन्निशम्य सत्यवर्मस्थितेः सम्यगनिश्चिततया खिन्नमानसो ───────────────────────────────────────────────────────────────────────────── ( ७७ ) विषमयाऽविषह्यया विषस्य ज्वालया शिखया पीड्येत्यर्थः । अवलीढाः व्याप्ता अवयवा अङ्गानि यस्याः सा । दयया करुणया आविष्टमाक्रान्तं हृदयं चेतो यस्य सः । मन्त्रबलेन मन्त्रशक्त्या । अपनेतुं दूरीकर्तुम् । समीपकुञ्जेषु निकटस्थ- लतादिपिहितस्थानेषु । व्युत्क्रान्तजीवितां मृताम् । ( ७८ ) तदनु तदनन्तरम् । पावकसंस्कारं विरचय अग्निसंस्कारं कृत्वा तद्देहं भस्मसात्कृत्वेत्यर्थः । शोकेन खेदेनाकुलं व्याप्तं चेतो यस्य सः । अगतिमनाथम् । सत्यवर्मणो वृत्तान्तश्रवणवेलायां वार्ताश्रवणसमये तस्य सत्यवर्मणो निवासा- ग्रहारस्य वासस्थलभूतस्य ग्रामस्य यन्नामधेयं नाम तस्याश्रुततया अश्रव- णेन । अभिरक्षिता पालकः । अनयं प्रापितवानस्मि । णीञ्प्रापणे इत्यस्य धातो- र्लङि रूपम् । ( ७९ ) सत्यवर्मस्थितेः तदवस्थानस्य जीवनस्य वा सम्यगनिश्चिततया सोऽत्रै- ───────────────────────────────────────────────────────────────────────────── ( ७७ ) इतनी बात कहते-कहते भयङ्कर विषकी ज्वालासे, जो सब शरीरमें व्याप्त हो गया था, वह अचानक भूमिपर गिर गयी । मुझे उसकी ऐसी दशापर दया आ गयी। परन्तु मैं मन्त्र नहीं जानता था इससे मन्त्रबलसे उसकी पीड़ा नष्ट न कर सका किन्तु समीपके लता- गृहसे मैं जब औषधि खोजकर आया तो देखा कि उसके प्राण-पखेरू उड़ चुके थे । ( ७८ ) तत्पश्चात् मैंने उसकी दाह-क्रिया की । और इस शोकान्वित चित्तवाले बालकको अपने पास रख लिया । परन्तु सत्यवर्माके चरित्रके श्रवणके समय उसके निवासस्थान अग्रहारका नाम तो सुना किन्तु पता न पा सका अतः उस स्थानका अन्वेषण करना अशक्य समझा । हे प्रभो, आपके मन्त्रीका यह बालक है—ऐसा विचार करके आपके समीप ले आया हूँ । ( ७९ ) उपर्युक्त वृत्तान्तको जानकर तथा सत्यवर्माकी अनिश्चित स्थिति का ध्यान करके Nepal Sanskrit University, Balmeeki Campus, Kathmandu
३८ दशकुमारचरितम् । [ पूर्वपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF ३८ दशकुमारचरितम् । [ पूर्वपीठिकायां नरपतिः सुमतये मन्त्रिणे सोमदत्तं नाम तदनुजतनयमर्पितवान् । सोऽपि सोदरमागतमिव मन्यमानो विशेषेण पुपोष ॥ (८०) एवं मिलितेन कुमारमण्डलेन सह बालकेलीरनुभवन्नधिरू- ढानेकवाहनो राजवाहनोऽनुक्रमेण चौलोपनयनादिसंस्कारजातमलभत । ततः सकललिपिज्ञानं निखिलदेशीयभाषापाण्डित्यं षडङ्गसहितवेदसमुदा- यकोविदत्वं काव्यनाटकाख्यानकाख्यायिकेतिहासचित्रकथासहितपुराणग- णनैपुण्यं धर्मशब्दज्योतिस्तर्कमीमांसादिसमस्तशास्त्रनिकरचातुर्यं कौटिल्य- वावतिष्ठते न वेति जीवति न वेति वा सन्दिग्धतया । खिन्नं खेदाकुलं मानसं यस्य सः । नरपतिः राजा राजहंस इत्यर्थः । सोऽपि सुमतिरपि । सोदरं सत्यवर्माणमि- त्यर्थः । पुपोष वर्द्धयामास । (८०) एवमनेन प्रकारेण । मिलितेन एकत्र सङ्गतेन । कुमारमण्डलेन कुमारसं- घेन । बालकेलीः, शैशवोचितक्रीडाः । अधिरूढानि समारूढान्यनेकानि नानाविधानि वाहनानि हस्त्यश्वादीनि येन सः । कदाचिद् गजं कदाचिच्चाश्वमारुरोहेति भावः । अनुक्रमेण यथाक्रमम् । सकललिपिज्ञानं सर्वविधाक्षरसंस्थानपरिचयम् । षडङ्गैः शिक्षाकल्पादिरूपैर्वेदाङ्गैः सहिते युक्ते वेदसमुदाये वेदसमूहे कोविदत्वं पाण्डित्यम् । काव्यं रामायणादि, नाटकं रूपकादि, आख्यानकं चूर्णम् , आख्यायिका कादम्बर्यादि- कथा, इतिहासो महाभारतादि, चित्रकथा रमणीयकथा । एतः सहितो युक्तो यत्पुराण- गणः वेदव्यासरचिताष्टादशपुराणानि तत्र नैपुण्यं पाटवम् । धर्मेत्यादि प्रत्येकं शास्त्रेण सम्बध्यते तेन धर्मशास्त्रं स्मृतिः, शब्दशास्त्रं व्याकरणं, ज्योतिषं, तर्कशास्त्रं न्यायः, मीमांसा पूर्वोत्तरभेदेन द्विविधा, जैमिनीयदर्शनं वेदान्तदर्शनञ्चेत्यादिषु, आदि- पदेन धनुर्वेदादिसंग्रहः, शास्त्रनिकरेषु शास्त्रसमूहेषु चातुर्यं अभिज्ञत्वम् । कौटिल्यश्चा- राजहंस दुखी हुए और सुमति नामक अमात्यको बुलवाकर उस बालकको उन्हें सौप दिया और उसका सोमदत्त नाम भी धर दिया । उस सुमति मन्त्रीने उसे पाकर भाईके आनेके समान सुख प्राप्त किया तथा अति प्रीतिसे उसका लालन-पालन करने लगा । (८०) इस रीतिसे राजवाहन उन मिले हुए कुमारोंके साथ बालक्रीड़ा करता हुआ बढ़ने लगा और सवारियोंके आरोहणमें निपुण उस राजवाहनके क्रमसे चौल तथा उपनयन- सहित वेदका कोविदत्त्व, काव्य, नाटक, आख्यायिका, आख्यानक, इतिहास, चित्रकथासहित पुराणोंकी विज्ञता, धर्मशास्त्र, ज्योतिषशास्त्र, न्यायशास्त्र, मीमांसा प्रभृति सकल शास्त्रोंकी चतुरता, कौटिल्य, कामन्दकीय आदि नीतिग्रन्थोंकी कुशलता, वीणा आदि सभी वाद्यकलाओंमें Nepal Sanskrit University, Balmeeki Campus, Kathmandu
प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ३६ कामन्दकीयादिनीतिपटलकौशलं वीणाद्यशेषवाद्यदाक्ष्यं संगीतसाहित्यहा- रित्वं मणिमन्त्रौषधादिमायाप्रपञ्चचुञ्चुत्वं मातङ्गतुरङ्गादिवाह्नारोहणपा- टवं विविधायुधप्रयोगचणत्वं चौर्यदुरोदरादिकपटकलाप्रौढत्वं च तत्तदा- चार्य्येभ्यः सम्यगलब्ध्वा यौवनेन विलसन्तं कुमारनिकरं निरीक्ष्य महीव- ल्लभः सः 'अहं शत्रुजनदुर्लभः' इति परमानन्दममन्दमविन्दत । इति श्रीदण्डिनः कृतौ दशकुमारचरिते कुमारोत्पत्तिर्नाम प्रथम उच्छ्वासः ।
णक्यस्तेन प्रणीतं कौटिल्यं, कामन्दकरचितं कामन्दकीयम् आदिपदेन शुक्रनीत्यादि संग्रहः । इत्यादीनि यानि नीतिपटलानि नीतिशास्त्रसमुदायास्तेषु कौशलं नैपुण्यम् । वीणादिषु वीणाप्रभृतिष्वशेषेषु सकलेषु वाद्येषु दाक्ष्यं दक्ष्ताम् । सङ्गीतसाहित्येषु नृत्यगीतादिशिल्पकलासु हारित्वं मनोहारित्वम् । मणिमन्त्रौषधादिभिर्यो मायाप्र- पञ्चः कपटप्रबन्धस्तेन वित्त इति 'तेन वित्तश्चुञ्चुप्चणपौ'ति चुञ्चुप्रत्ययः, तत- स्तस्य भावस्तथा । कपटप्रबन्धकुशलत्वमित्यर्थः । विविधानामायुधानामह्स्त्राणां प्रयोगेण वित्तस्तस्य भावस्तथा । अत्रापि तेनैव चणप् । चौर्यं स्तेयं, दुरोदरं द्यूतं तदादिकपटकलासु प्रौढत्वं प्रावीण्यम् । तत्तदाचार्य्येभ्यस्तत्तच्छास्त्रनिष्णातैभ्यः । लब्ध्वा अधिगम्य । कृत्येषु कार्येषु अनलसमालस्यरहितमुद्यमशीलमित्यर्थः । महीव- ल्लभो राजा । शत्रुजनदुर्लभः शत्रुभिरपराजेयः । अविन्दत अलभत । इति श्रीताराचरणभट्टाचार्य्यकृतायां बालबोधिनीसमाख्यायां दशकुमारचरितव्याख्यायां प्रथमोच्छ्वासः ।
पटुता, संगीत, साहित्य, मणि, मन्त्र, औषध आदि माया-प्रपंचोंमें दक्षता; हाथी, घोड़े, रथादि सवारियोंपर चढ़नेकी क्षमता; अनेक प्रकारके अस्त्र-शस्त्रोंके चलानेमें पटुता; चोरी, जुआ, कपटकलामें प्रवीणता; आदि तत्तत् शास्त्रियोंसे अच्छी प्रकार सीखे हुए तरुणावस्थासे सुशोभित एवं कार्योंमें आलस्यरहित कुमारोंको देखकर राजा हंसवाहनने अपनेको कृतकृत्य माना तथा मनमें यह सोचा कि अब शत्रुजन मेरा कुछ भी नहीं बिगाड़ सकते-मै अजेय हूँ और परमानन्दित होने लगा । इस प्रकारसे प्रथमोच्छ्वासकी बालक्रोडा हिन्दीटीका समाप्त हुई ।'
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF द्वितीयोच्छ्वासः ( १ ) अथैकदा वामदेवः सकलकलाकुशलेन कुसुमसायकसंशयित- सौन्दर्येण कल्पितसौदर्येण साहसापहसितकुमारेण सुकुमारेण जयध्वजात- पवारणकुलिशाङ्कितकरेण कुमारनिकरेण परिवेष्टितं राजानमानतशिरसं समभिगम्य तेन तां कृतां परिचर्यामङ्गीकृत्य निजचरणकमलयुगलमिल- न्मधुकरायमाणकाकपक्षकं विदलिष्यमाणविपक्षं कुमारचयं गाढमालिङ्ग्य मितसत्यवाक्येन विहिताशीर्ब्यभाषत । ( १ ) सकलासु निखिलासु कलासु नृत्यगीतादिविद्यासु कुशलेन निपुणेन । कुमारनिकरेणेत्यस्य विशेषणमेवमग्रेऽपि । कुसुमसायकः कन्दर्पः संशयितः कन्दर्पो वा तदन्यो वेति सन्दिग्धो यस्मात् तथाभूतं सौन्दर्यं यस्य तेन । यस्य सौन्दर्यं दृष्ट्वा जनस्य कन्दर्पभ्रमो भवतीत्यर्थः । कल्पितं परस्परं रचितं सौदर्यं सहोदरभावः बन्धुतेति यावत्, येन तेन साहसेन पराक्रमेण अपहसितस्तिरस्कृतः कुमारः कार्त्तिकेयो येन तेन कुमाराधिकवीर्यशालिनेत्यर्थः । सुकुमारेण कोमलशरीरेण । जयध्वजो जयपताका, आतपवारणं छत्रं; कुलिशं वज्रं, तैरङ्कितौ चिह्नितौ करौ हस्तौ यस्य तेन । येषां करेषु ध्वजादिरेखाः सन्तीत्यर्थः । कुमारनिकरेण कुमारसमूहेन आनतशिरसं कृतनमस्कारम् । तेन राज्ञा राजहंसेन । परिचर्यां सेवाम् अङ्गीकृत्य स्वीकृत्य । निजस्य ( वामदेवस्य ) चरणकमलयुगले पादपङ्कजद्वये मिलन्तः पतन्तः मधुकरायमाणा भ्रमरा इवाचरन्तः काकपक्षाः शिखण्डका यस्य तं वामदेवं प्रणम- न्तमित्यर्थः । विदलिष्यमाणाः पराजेष्यमाणा विपक्षाः शत्रवो येन तम् । कुमारचयं राजवाहनादिकुमारगणम् । गाढं निर्भरम् । मितं स्वल्पं सत्यमवितथं यद्वाक्यं तेन । परिमितसत्यप्रियवचनेनेत्यर्थः । विहिताशीः कृताशीर्वादः । ( १ ) तत्पश्चात् एकदा वामदेव मुनि, सभी कलाओं में प्रवीण यही कामदेव है ऐसा जनोंके चित्तों में सन्देहको उत्पन्न करानेवाले और वेश भूषादिसे अत्यन्त रमणीय एवं साहसमें स्वामी कार्त्तिकेयका उपहास करनेवाले तथा जिनके हाथोंमें जयध्वज, छत्र एवं कुलिशके चिह्न हैं ऐसे सुकुमार कुमारोंके समुदायसे परिव्याप्त हुए प्रणतमस्तक महाराजके समीप गये । वहाँ जाकर राजा द्वारा की गयी सेवा स्वीकार की । तत्पश्चात् अपने पादपद्ममें प्रणाम करते समय जिनके काकपक्ष भ्रमरोंकी शोभाको धारण करनेवाले ज्ञात होते थे और भविष्यमें शत्रुदलका दलन करनेवाले थे ऐसे कुमारोंके समुदायका आलिङ्गन किया । फिर परिमित तथा सत्य वचनोंसे आशीर्वाद देकर कहने लगे- Nepal Sanskrit University, Balmeeki Campus, Kathmandu
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४१ ( २ ) ‘भूवल्लभ, भवदीयमनोरथफलमिव समृद्धलावण्यं तारुण्यं नुत- मित्रो भवत्पुत्रोऽनुभवति । सहचरसमेतस्य नूनमेतस्य दिग्विजययारम्भस- मय एषः । तदस्य सकलक्लेशसहस्य राजवाहनस्य दिग्विजयप्रयाणं क्रियताम्’ इति । ( ३ ) कुमारा माराभिरामा रामाद्यपौरुषा रुषा भस्मीकृतारयो रयोप- हसितसमीरणा रणाभियानेन यानेनाभ्युदयाशंसं राजानमकार्षुः । तत्सा- चिव्यमितरेषां विधाय समुचितां बुद्धिमुपदिश्य शुभे मुहूर्ते सपरिवारं कुमारं विजयाय विससर्ज । ( ४ ) राजवाहनो मङ्गलसूचकं शुभशकुनं विलोकयन्देशं कंचिदति- ( २ ) भवदीयानां त्वदीयानां मनोरथानामभिलाषाणां फलमिव । समृद्धमति- शयेन वर्धितं लावण्यं सौन्दर्यं यस्मिन् तदिति तारुण्यविशेषणम्। नुतानि प्रशंसितानि मित्राणि सुहृदो यस्य सः । नूनं निश्चयेन । दिशां विजयस्यारम्भः प्रारम्भस्तस्य समयः कालः । अस्मिन्नेव समये दिग्विजयोद्योगः कर्त्तव्यः इत्यर्थः । सकलक्लेशस- हस्य सत्त्वसम्पन्नतया सकलक्लेशसहिष्णोः । दिग्विजयप्रयाणं दिग्विजययात्रा । ( ३ ) मारः कन्दर्पस्तद्वदभिरामा मनोहराः । रामो दाशरथिराद्यो येषां ते तेषां पौरुषमिव पौरुषं पराक्रमो येषां ते । रुषा कोपेन भस्मीकृता विनाशिता अरयः शत्रवो यैस्ते । रयेण वेगेनोपहसितस्तिरस्कृतः समीरणः पवनो यैस्ते । रणमभियातीति रणा- भियानं तेन रणाभियानेन रणाभिमुखेन । यानेन यात्रया । अभ्युदयेऽभ्युन्नतौ आशंका ०यस्य तम् । तस्य राजवाहनस्य साचिव्यं मन्त्रित्वं सहायत्वमिति यावत् । इतरेषां अन्यकुमाराणाम् । समुचितां विजययात्राय योग्याम् । सपरिवारं सपरिजनम् । विजयाय विजयं कर्तुमिति ‘तुमर्थाच्च भाववचनादि’ति चतुर्थी । विससर्ज प्रेषयामास । ( ४ ) मङ्गलसूचकं शुभोदर्कज्ञापकम् । शुभशकुनं सुनिमित्तम् । तत्र विन्ध्याट- ( २ ) हे पृथिवीपति ! अनुकूलसुहृद् आपका पुत्र राजवाहन आपके मनोरथ फलकी तरह समृद्ध-लावण्य तथा युवावस्थाका अनुभव करता है। अतः सहचर वर्गोंके सहित उसके दिग्विजय करनेका यह समय अच्छा है। इसलिये उसे आप दिग्विजयार्थ भेज देवें । ( ३ ) कामदेवके सदृश मनोहर तथा श्रीरामचन्द्रादिके समान पराक्रमशील एवं कोपसे ही अरिवर्गको भस्म करनेमें समर्थ और वेगमें पवनको भी तिरस्कृत करनेवाले कुमारवर्गकी रणयात्राके द्वारा राज्यश्रीका अभ्युदय निश्चित होगा । यह बात परिज्ञात करके उस राजहंस ने अन्य कुमारोंको कुमार राजवाहनके साहाय्यके लिए नियुक्त किया तथा समुचित उपदेशों को देकर शुभ मुहूर्तमें परिजनोंके साथ राजवाहनको विजय करनेके लिए भेज दिया । ( ४ ) कुमार राजवाहन यात्रामें मंगलसूचक शुभ लक्षणों ( शकुनों ) को देखता हुआ Nepal Sanskrit University, Balmeeki Campus, Kathmandu
४२ दशकुमारचरितम् । [ पूर्वपीठिकायां
[Page Header] ४२ दशकुमारचरितम् । [ पूर्वपीठिकायां
[Main Text] क्रम्य विन्ध्याटवीमध्यमविशत् । तत्र हेतिहतिकिणाङ्कं कालायसकर्कश- कायं यज्ञोपवीतेनानुमेयविप्रभावं व्यक्तकिरातप्रभावं लोचनपरुषं कमपि पुरुषं ददर्श । (५) तेन विहितपूजनो राजवाहनोऽभाषत - 'ननु मानव, जनस- ङ्गरहिते मृगरहिते घोरप्रचारे कान्तारे विन्ध्याटवीमध्ये भवानेकाकी किमिति निवसति । भवदं सोपनीतं यज्ञोपवीतं भूसुरभावं द्योतयति । हेतिहतिभिः किरातरीतिरनुमीयते । कथय किमेतत्' इति । (६) 'तेजोमयोऽयं मानुषमात्रपौरुषो नूनं न भवति' इति मत्वा स पुरुष-
[Sanskrit Commentary] व्याम् । हेतीनामस्त्राणां हतिभिः प्रहारैर्यै किणाः शुष्कव्रणास्तेषामङ्काश्चिह्नानि य- स्मिन् तम् । कालायसं लोहमिव कर्कशः कठोरः कायो देहो यस्य तम् । यज्ञोपवीतेन यज्ञसूत्रेण । अनुमेयोऽनुमातुं योग्यो विप्रभावो द्विजत्वं यस्य तम् । व्यक्तः प्रकटितः किरातप्रभावो वनचरसामर्थ्यं येन तम् । यज्ञसूत्रेण ब्राह्मणोऽसावित्यनुमीयते, स्वरूपादिना तु किरातोऽयमिति स्पष्टं ज्ञायत इति भावः । लोचनयोर्नेत्रयोः परुषं कर्कशं भीषणदर्शनमित्यर्थः । (५) तेन किरातवेषधारिणा पुरुषेण । विहितपूजनः कृतसत्कारः । जनसङ्ग- रहिते । मनुष्यसम्पर्कशून्ये । मृगहिते पशूनामेव हितकरे । घोरो भयजनकः प्रचारः सञ्चारो यस्मिंस्तस्मिन् । किमिति किमर्थम् । भवतस्तव अंसं स्कन्धदेशमुपनीतं प्राप्तम् । भूसुरभावं विप्रभावम् । द्योतयति सूचयति । हेतिहतिभिः शस्त्राघातचिह्नः । किरातरीतिः । वनचरव्यवहारः । अनुमीयते तर्क्यते । (६) तेजोमयः प्राचुर्ये मयट् तेन तेजःपुञ्जशरीर इत्यर्थः । अयमिति राजवाह-
[Hindi Commentary] विन्ध्याटवीमें प्रविष्ट हो गया । वहाँपर उसने एक भयंकर नेत्रवाले मनुष्यको देखा-जो जनेऊ धारण करनेसे तो ब्राह्मण ज्ञात होता था किन्तु, उसके शरीरपर अनेक आयुधोंके आघातों के व्रण थे । उसका शरीर लोहेके समान कर्कश तथा काला दिखाई देता था । उसे देखनेसे ऐसा प्रतीत होता था जैसे कोई किरात हो । (५) उस मनुष्यने कुमार राजवाहनका स्वागत-सत्कार किया । सत्कारके अनन्तर राजवाहनने पूछा- हे मानव ! मनुष्योंसे विहीन इस विन्ध्याटवीके गहन वनमें क्यों आप निवास कर रहे हैं ? यह वन तो हिरणोंके हितके लिए तथा हिंसक जानवरोंके विचरणयोग्य है । आपके कन्धेपर धारण किया हुआ यज्ञोपवीत 'आप ब्राह्मण' हैं ऐसा सूचित कर रहा है किन्तु, देहमें लगे शस्त्रास्त्रके घावोंसे आप किरातोंके समान आचरण करनेवाले हैं ऐसा प्रतीत हो रहा है । बतलावें इसका क्या कारण है ? (६) इस तेजःपुञ्जाकृतिवाले मनुष्यकी शक्ति साधारण पुरुषोंके समान नहीं है अतः
स्तद्वयस्यमुखानाम्नजनने विज्ञाय तस्मै निजवृत्तान्तमकथयत्-‘राजनन्दन, केचिदस्यामटव्यां वेदादिविद्याभ्यासमपहाय निजकुलाचारं दूरीकृत्य सत्यशौचादिधर्मव्रातं परिहृत्य किल्विषमन्विष्यन्तः पुलिन्दपुरोगमास्तद- न्नमपभुञ्जाना बहवो ब्राह्मणब्रुवा निवसन्ति, तेषु कस्यचित्पुत्रो निन्दापात्र- चारित्रो मातङ्गो नामाहं सह किरातबलेन जनपदं प्रविश्य ग्रामेषु धनिनः स्त्रीबालसहितानानीयाटव्यां बन्धने निधाय तेषां सकलधनमपहरन्तु- दृघृत्य वीतदयो व्यचरम् । कदाचिदेकस्मिन्कान्तारे मदीयसहचरगणेन जिघांस्यमानं भूसुरमेकमवलोक्य दयायत्तचित्तोऽब्रवम् 'ननु पापाः, न हन्तव्यो ब्राह्मण' इति ।
नस्य निर्देशः । मानुषमात्रं मानुषप्रमाणं पौरुषं पराक्रमो यस्य सः । नूनमवश्यम् । मत्वा विचार्य । तस्य राजवाहनस्य वयस्यानां मित्राणां मुखात् तेषां कथनेनेत्यर्थः । नामजनने नाम आख्या जननमुत्पत्तिः ते, कुलनामनीत्यर्थः । केचिदित्यस्य ब्राह्मणब्रुवा इत्यनेन सम्बन्धः । अपहाय परित्यज्य । निजकुलाचारं ब्राह्मणकुलोचित- धर्मम् । धर्मव्रातं धर्मसमूहम् । परिहृत्य त्यक्त्वा । किल्विषं पापम् । 'पापं किल्विष- कल्मषमि'त्यमरोक्तेः । पुलिन्दानां किरातानां पुरोगमा अग्रगाः, पुलिन्दाः पुरोगमा नेतारो येषां ते इति वा । तदन्नं म्लेच्छान्नमुपभुञ्जाना भक्षयन्तः । ब्राह्मणब्रुवा ब्राह्मणाधमाः । निन्दापात्रं गर्हणीयं चारित्रं चरितं यस्य सः । किरातबलेन शबरसै- न्येन । धनिनो धनाढ्यान् । स्त्रीभिरबलाभिर्बालैः शिशुभिश्च सहितान् युक्तान् । उद्गृह्य विनाश्य । वीताऽपगता दया करुणा यस्य सः । जिघांस्यमानं हन्तुमिष्य- माणं हननार्थं नीयमानमिति भावः । भूसुरं ब्राह्मणम् । दयया करुणया आयत्तं आ- क्रान्तं चित्तं हृदयं यस्य सः । अब्रवमकथयम् ।
यह अवश्य तेजस्वी पुरुष है ऐसा ज्ञातकर तथा पूर्वसे ही राजवाहनके सुहृदोंसे उसका नाम और उत्पत्ति सुन चुकनेके कारण वह पुरुष राजवाहनसे अपना वृत्तान्त कहने लगा । उसने कहा-हे राजनन्दन ! इस विन्ध्याटवीमें अनेक कुत्सित विप्रोंका आवास है जिन्होंने वेदादि विद्याभ्यासको त्यागकर तथा ब्राह्मणोचित धर्माचार एवं सत्य-शौच आदि कुलाचारोंको छोड़कर पापाचारमें प्रविष्ट होकर म्लेच्छोंके अधीन रहना अपना धर्म बना लिया है और उन्हीं म्लेच्छोंका अन्न खाकर जीवन बिताना उनका प्रधान कार्य हो गया है। उन्हीं विप्रोंमेंसे एक चरित्रहीन, निन्दित विप्रपुत्र मैं भी हूँ । मेरा नाम मातंग है। इसी विपिनके किरात-भीलोंके साथ मैं भी नगरोंमें जाया करता था और पुत्र-कलत्रादिके सहित नगरोंसे धनिकोंको पकड़ लाया करता था तथा उन्हें बन्दी बनाकर सारा माल-असबाब छीन लेता था । इसी रीतिसे निर्दय होकर मैं घूमा करता था कि, एकदा किसी एक वनमें हमारे साथी लोग एक ब्राह्मणको मारने लगे । मुझे उसपर करुणा भर आयीं और मैंने कहा-हे पापियो ! इस ब्राह्मणकी हत्या न करो ।
रेफ र मध्यमा-य सका देरिव पारेया जत्व झ-छ, च ह, तवर्ग ट स श खेको झु
४४ दशकुमारचरितम् । [ पूर्वपीठिकायां
४४ दशकुमारचरितम् । [ पूर्वपीठिकायां ( ७ ) ते रोषारुणनयना मां बहुधा निरभर्त्सयन् । तेषां भाषणपा- रुष्यमसहिष्णुरहमवनिसुररक्षणाय चिरं प्रयुध्य तैरभिहतो गतजीवि- तोऽभवम् । ( ८ ) ततः प्रेतपुरीमुपेत्य तत्र देहधारिभिः पुरुषैः परिवेष्टितं सभामध्ये रत्नखचितसिंहासनासीनं शमनं विलोक्य तस्मै दण्डप्रणाममकरवम् । सोऽपि मामवेक्ष्य चित्रगुप्तं नाम निजामात्यमाहूय तमवोचत्-‘सचिव, नैषोऽमुष्य मृत्युसमयः । निन्दितचरितोऽप्ययं महीसुरनिमित्तं गतजीवितोऽ भूत् । इतः प्रभृति विगलितकल्मषस्यास्य पुण्यकर्मकरणे रुचिरुदेष्यति । पापिष्ठैरनुभूयमानमत्र यातनाविशेषं विलोक्य पुनरपि पूर्वशरीरमनेन गम्यताम्' इति । ( ७ ) ते पुलिन्दाः । रोषेण क्रोधेन अरुणानि रक्तवर्णानि नयनानि नेत्राणि येष ते । बहुधा नानाप्रकारेण । निरभर्त्सयन् अतर्जयन् । भाषणपारुष्यं कर्कशवचनानि असहिष्णुः सोढुमशक्तः । अवनिसुररक्षणाय ब्राह्मणत्राणाय । चिरं दीर्घकालम् । प्रयुध्य युद्धं कृत्वा । अभिहतः प्रहतः । गतं जीवितं यस्य सः गतप्राणो मृत इति शेषः । ( ८ ) प्रेतपुरीं यमालयम् । रत्नैर्मणिभिः खचिते प्रत्युप्ते सिंहासने आसीनमु- पविष्टम् । शमनं यमराजम् । दण्डप्रमाणं दण्डवन्नमस्कारम् । सोऽपि यमराजोऽपि । निजामात्यं स्वमन्त्रिणम् । अमुष्य पुरुषस्य । मृत्युसमयः मरणकालः । निन्दितं गर्हितं चरितं चरित्रं यस्य सः । महीसुरनिमित्तं ब्राह्मणार्थम् । इतः प्रभृति अद्या- रभ्य । विगलितं विनष्टं कल्मषं पापं यस्य तस्य । अस्य पुरुषस्य । पुण्यकर्मणां कर- णेऽनुष्ठाने । रुचिरभिलापः । उदेष्यति उत्पत्स्यते । पापिष्ठैः पापाचारिभिः अनु- भूयमानं भुज्यमानम् । अत्र यमालये नरके वा । यातनाविशेषं पीडाविशेषम् । गम्यतां प्राप्यताम् । ( ७ ) इस बातपर उन किरातों ने मुझे बहुत डाँटा तथा मारे क्रोधके उनकी आँखे लाल-लाल हो गयीं । उनकी कटु निर्भर्त्सनाको मैं न सह सका तथा ब्राह्मणकी रक्षाके निमित्त उनसे लड़कर प्राणोंको त्याग दिया । ( ८ ) मृत्युके पश्चात् प्रेतपुरीमें गया । वहाँ शरीरधारी पुरुषोंसे परिवेष्टित सभाके मध्यभागमें रत्नादि-जटित सिंहासनपर आसीन यमराजको देखा और दण्ड-प्रणाम किया । उन्होंने भी मुझे देखा और चित्रगुप्त नामके अपने मन्त्रीको बुलाकर कहा- हे चित्रगुप्त मन्त्रिवर ! इसकी मृत्युका समय अभी नहीं है । यद्यपि इसका आचरण कुत्सित है परन्तु यह विप्रके लिए मरा है । अतः उस पुण्यसे आजसे इसकी बुद्धि पापाचरणरहित होकर धर्माचरणवाली होगी । अत एव पापियोंको दी जानेवाली नरक-यातनाको दिखाकर इसे पुनः इसके पहले शरीरमें ही भेज देना चाहिये ।
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४५ ( ९ ) चित्रगुप्तोऽपि तत्र तत्र संतप्तेष्वायसस्तम्भेषु बध्यमानान् , अ- त्युष्णीकृते विततशरावे तैले निक्षिप्यमाणान् , लगुडैर्जर्जरीकृतावयवान् , निशितटंकैः परितक्ष्यमाणानपि दर्शयित्वा पुण्यबुद्धिमुपदिश्य माममुञ्चत् । तदेव पूर्वशरीरमहं प्राप्तो महाटवीमध्ये शीतलोपचारं रचयता महीसुरेण परीक्ष्यमाणः शिलायां शयितः क्षणमतिष्ठम् । ( १० ) ^[मातः स्ववृत्तान्तं राजवाहनं प्रति कथयति] तदनु विदितोदन्तो मदीयवंशबन्धुगणः सहसागत्य मन्दिर- मानीय मामपक्रान्तव्रणमकरोत् । द्विजन्मा कृतज्ञो मह्यमक्षरशिक्षां विधाय विविधागमतन्त्रमाख्याय कल्मषक्षयकारणं सदाचारमुपदिश्य ज्ञानेक्षण- गम्यमानस्य शशिखण्डशेखरस्य पूजाविधानमभिधाय पूजां मत्कृतामङ्गी- कृत्य निरगात् । ( ९ ) आयसस्तम्भेषु लौहस्तम्भेषु । विततशरावे विस्तीर्णकटाहे । तत्रस्थे इत्य- र्थः । लगुडैर्विशदण्डैर्यष्टिभिरिति यावत् । जर्जरीकृताः प्रहारेण शिथिलीकृता अवयवा अङ्गानि येषां तान् । निशितटङ्कैस्तीक्ष्णपाषाणदारणैः । परितक्ष्यमाणान् तनूक्रिय- माणान् । रचयता कुर्वता । परीक्ष्यमाणः जीवति वा न वेति दृश्यमानः । ( १० ) विदितो ज्ञात उदन्तो वृत्तान्तो येन सः मदीयवंशबन्धुगणः मम ज्ञाति- वर्गः । अपक्रान्ताः चिकित्सिता व्रणाः प्रहारस्थानानि यस्य तम् । द्विजन्मा ब्राह्मणः । अक्षरशिक्षां लिपिविज्ञानम् । विविधागमानां नानाशास्त्राणां तन्त्रं सिद्धान्तम् । आख्याय उपदिश्य । कल्मषाणां पापानां क्षये नाशे कारणं निमित्तभूतम् । सतामा- चारं-सज्जनैरुपदर्शितं मार्गम् । ज्ञानेक्षणेन ज्ञाननेत्रेण गम्यमानस्य न तु चक्षुषा दृश्यस्येत्यर्थः । शशिखण्डशेखरस्य शिवस्य । पूजाविधानं पूजनविधिम् । अङ्गीकृत्य स्वीकृत्य गृहीत्वेत्यर्थः । निरगात् निर्गतः । ( ९ ) चित्रगुप्त महोदयने भी मुझे ले जाकर निम्नांकित नरकयातनाएँ दिखायीं । वहाँपर मैंने देखा कि यत्र तत्र जीवोंको लोहेके तप्त खम्भोंमें बांधा जा रहा था । कहीं-कहीं खूब गरम किये तेलके बड़े बड़े कड़ाहि धरे थे जिनमें जीव फेंके जा रहे थे । यत्र तत्र लाठीके प्रहारोंसे लोगोंके अंग भंग हो रहे थे । कहीं-कहींपर छेनीसे लोगोंको वेधा जा रहा था । तब उन्होंने और पापियोंको मुझे दिखाया तथा पुण्य-चरित्रका, पुण्य-बुद्धिके उदयर्थि उपदेश किया और मुझे छोड़ दिया । पुनः मैं उस शरीरमें आ गया और देखा कि, वही ब्राह्मण जिसके लिये मैं लड़ा था मेरे मृत शरीरकी शीतोपचारसे रक्षा कर रहा है तथा मेरे शरीरको एक शिलाके ऊपर सुलाये हुए रखे है । मैं क्षण भर ऐसी दशामें रहा । (१०) अनन्तर मेरे वंशके बन्धु-बान्धवगण भी मेरी ऐसी दशा जानकर वहाँपर अचानक आ पहुँचे तथा मुझे घर ले गये एवं सेवा-शुश्रूषा द्वारा मेरे व्रणोंको अच्छा किया । वह कृतज्ञ Nepal Sanskrit University, Balmeeki Campus, Kathmandu
४६ दशकुमारचरितम् । [ पूर्वपीठिकायां ( ११ ) तदारभ्याहं किरातकृतसंसर्गं बन्धुवर्गमुत्सृज्य सकललोकैक- गुरुमिन्दुकलावतंसं चेतसि स्मरन्नस्मिन्कानने दूरीकृतकलङ्को वसामि । 'देव, भवते विज्ञापनीयं रहस्यं किंचिदस्ति । आगम्यताम्' इति । ( १२ ) स वयस्यगणादपनीय रहसि पुनरेन मभाषत-'राजन्, अतीते निशान्ते गौरीपतिः स्वप्नसन्निहितो निद्रामुद्रितलोचनं विबोध्य प्रसन्नवद- नकान्तिः प्रश्रयानतं मामवोचत्-'मातङ्ग, दण्डकारण्यान्तरालगामिन्या- स्तटिन्यास्तीरभूमौ सिद्धसाध्याराध्यमानस्य स्फटिकलिङ्गस्य पश्चादद्रिप- तिकन्यापदपंक्तिचिह्नितस्याश्मनः सविधे विधेशाननमिव किमपि बिलं ( ११ ) किरातैः कृतः संसर्गः सम्बन्धो येन तमिति बन्धुवर्गस्य विशेषणम् । उत्सृज्य त्यक्त्वा । सकलस्य लोकस्य संसारस्यैकोऽद्वितीयो गुरुस्तम् । इन्दोः कला अवतंसः शिरोभूषणं यस्य तं शिवमित्यर्थः । दूरीकृतकलङ्को निष्कलङ्को निष्पाप इति यावत् । विज्ञापनीयं कथनीयम् । रहस्यं गोप्यम् । ( १२ ) स मातङ्गः । वयस्यगणात् सुहृन्मण्डलात् अपनीय दूरं नीत्वा । रहसि निर्जने । एनं राजवाहनम् । अतीते विगते । निशान्ते रात्रिशेषे । स्वप्ने स्वप्नावस्था- यां संनिहितः समीपमागतः । निद्रया मुद्रिते निमीलिते लोचने यस्य तम् । विबोध्य जागरयित्वा प्रसन्ना सौम्यमधुरा वदनस्य मुखस्य कान्तिः शोभा यस्य सः । प्रश्रये- ण विनयेनानतं नम्रशिरसम् । दण्डकारण्यस्य तदाख्यवनस्य अन्तराले मध्ये गामि- न्या गमनशीलायास्तटिन्या नद्याः । सिद्धैः गुह्यकादिभिः साध्यैः गणदेवताभिश्च आराध्यमानस्य उपास्यमानस्य । स्फटिकलिङ्गस्य स्फटिकनिर्मितशिवस्य । अद्रिपतेः हिमालयस्य कन्यायाः पार्वत्याः पदपंक्त्या चरणपद्धत्या चिह्नितस्याङ्कितस्य । अश्मनः पाषाणस्य । सविधे समीपे । विधेर्ब्रह्मणः । आननं मुखम् । बिलं विवरं विप्र मुझे लिपिविज्ञान, नाना शास्त्र, तन्त्रके सिद्धान्त, पापनाशक सदाचार एवं ज्ञानसे भगवान् शिवकी पूजा-विधिका सदुपदेश देकर तथा मेरे द्वारा दी हुई दक्षिणा आदिको ग्रहण कर चला गया । (११) उसी दिनसे किरातोंके साथ रहनेवाले बान्धवोंको त्यागकर मैं समस्त भुवनोंके एक- मात्र कारण भगवान् शङ्करकी सेवामें दृढ़ चित्त हो उन्हींको जपता हुआ इस विपिनमें सब पापोंको छोड़कर रह रहा हूँ । हे देव, आपसे एकान्तमें मुझे कुछ कहना है, अतः यहाँ आयें और सुनें । (१२) सुहृद्-मण्डलसे अलग लेजाकर उसने राजवाहनसे कहा—हे राजन्, गत रात्रिमें भगवान् शिवने मुझे सोते हुए जगाया तथा कहा—हे मातङ्ग, दण्डकारण्यके मध्यमें होकर बहनेवाली नदीके तीरपर सिद्ध और गणदेवोंसे आराध्यमान स्फटिक-निर्मित शिवलिंगके पीछे पार्वती देवीके चरणश्रेणीसे चिह्नित प्रस्तरके समीप ब्रह्माके मुखके सदृश एक विवर है ।
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४७ विद्यते । तत्प्रविश्य तत्र निक्षिप्तं ताम्रशासनं शासनं विधातुरिव समादाय विधिं तदुपदिष्टं दिष्टविजयमिव विधाय पाताललोकाधीश्वरेण भवता भवितव्यम् । भवत्साहाय्यकरो राजकुमारोऽद्य श्वो वा समागमिष्यति' इति । तदादेशानुगुणमेव भवदागमनमभूत् । साधनाभिलाषिणो मम तोषिणो रचय साहाय्यम्' इति । (१३) 'तथा' इति राजवाहनः साकं मातङ्गेन नमितोत्तमाङ्गेन विहा- यार्धरात्रे निद्रापरतन्त्रं मित्रगणं वनान्तरमवाप । तदनु तदनुचराः कल्ये- साकल्येन राजकुमारमनवलोकयन्तो विषण्णहृदयास्तेषु तेषु वनेषु सम्य- गन्विष्यानवेक्षमाणा एतदन्वेषणमनीषया देशान्तरं चरिष्णवोऽतिसहि- ष्णवो निश्चितपुनःसंकेतस्थानाः परस्परं वियुज्य ययुः । छिद्रमिति यावत् । तत् बिलम् । निक्षिप्तं स्थापितम् । ताम्रशासनं ताम्रफलकम् । शासनमादेशम् । समादाय गृहीत्वा । तत्र ताम्रशासने उपदिष्टं लिखितम् । दिष्टस्य भाग्यस्य विजयं विजयकारिणम् 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिर्'त्य- मरः । भवतस्तव साहाय्यकारी । श्वः आगामिदिने । तदादेशानुगुणं तदादेशा- नुरूपम् । साधनाभिलाषिणः तत्कार्यसिद्धिं कामयतः । तोषिणः सन्तुष्टस्य । रचय कुरु । (१३) तथा 'एवमस्तु' इति प्रार्थनां स्वीकृत्येत्यर्थः । नमितोत्तमाङ्गेन नम्र- शिरसा । विहाय परित्यज्य । मित्रगणमिति शेषः । अर्धरात्रे निशीथे । निद्रापरतन्त्रं निद्राकुलम् । वनान्तरं अपरं वनम् । कल्ये प्रभाते । 'प्रत्यूषोऽहर्मुखं कल्यमि'त्यमरः । साकल्येन सामस्त्येन—सर्वे सर्वत्र अन्विष्यापि इत्यर्थः । विषण्णं खिन्नं हृदयं येषां ते । अनवेक्षमाणाः अपश्यन्तः । एतस्य कुमारस्य अन्वेषणस्यानुसन्धानस्य मनी- षया बुद्ध्या । चरिष्णवः भ्रमणशीलाः । अतिसहिष्णवः क्लेशसहनशीलाः । निश्चितं निर्णीतं पुनःसंकेतस्थानं पुनःसंगमस्थानं यैस्ते । वियुज्य पृथग्भूय । उस विवर (बिल) में प्रविष्ट होकर वहां धरे हुए ताम्रपत्रको ब्रह्माके आदेशके समान ले लो और उस ताम्रपत्रमें लिखी हुई विधिको सौभाग्यसे प्राप्त विजयकी भांति स्वीकार करो और तुम पातालाधिपति बन जाओ इस कार्यमें तुम्हारी सहायता करनेवाला एक राजपुत्र आज कलतक तुम्हारे समीप आ जायगा । भगवान्के आदेशानुसार ही आपका आगमन हुआ है अतः आप अब मेरी सहायता करें । (१३) 'मैं सहायता करूंगा' ऐसा कहकर राजवाहन आधी रातके समय निद्राके वशी- भूत मित्रवर्गोंको छोड़कर प्रणामार्थ नतमस्तक मातंगके साथ वनान्तरमें चला गया । प्रभात समयमें राजवाहनको खोजनेपर भी उसके सेवकोंने न पाया और वे बड़े दुःखी हुए । इसके पश्चात् वे लोग उसे खोजने अन्य अरण्योंमें गये । देशान्तरमें खोजनेके लिए जानेवाले
४८ दशकुमारचरितम् । [ पूर्वपीठिकायां
४८ दशकुमारचरितम् । [ पूर्वपीठिकायां ( १४ ) लोकैकवीरेण कुमारेण रक्ष्यमाणः संतुष्टान्तरङ्गो मातङ्गोऽपि बिलं शशिशेखरकथिताभिज्ञानपरिज्ञातं निःशङ्कं प्रविश्य गृहीतताम्रशासनो रसातलं पथा तेनैवोपेतय तत्र कस्यचित्पत्तनस्य निकटं केलीकाननका- सारस्य विततसारसस्य समीपे नानाविधेनेशशासनविधानोपपादितेन हविषा होमं विरच्य प्रत्यूहपरिहारिणि सविस्मयं विलोकयति राजवाहने समिदाज्यसमुज्ज्वलिते ज्वलने पुण्यगेहं देहं मन्त्रपूर्वकमहुतीकृत्य तडि- त्समानकान्ति दिव्यां तनुमलभत । ( १५ ) तदनु मणिमयमण्डनमण्डलमण्डिता सकललोकललनाकुल- ( १४ ) लोकेषु भुवनेषु एकोऽद्वितीयो वीरो योधस्तेन । सन्तुष्टान्तरङ्गः हृष्टमा- नसः । शशिशेखरेण शिवेन कथितात् आदिष्टात् अभिज्ञानात् चिह्नात् परिज्ञातमव- गतम् । निःशङ्कं निर्भयम् । रसातलं पातालम् । पथा मार्गेण । पत्तनस्य नगरस्य । केलीकानने क्रीडोद्याने यत्कासारं सरोवरं तस्य । वितताः सर्वतः प्रमृताः सारसाः पक्षिविशेषा यत्र तस्य । ईशस्य शिवस्य यत् शासनविधानं आज्ञाविधिस्तेनोपपादि- तेन सम्पादितेन । हविषा हवनीयद्रव्येण आज्यादिनेत्यर्थः । प्रत्यूहपरिहारिणि विघ्ननिवारके । समिद्भिः काष्ठैः आज्यैर्घृतैश्च समुज्ज्वलिते उद्दीपिते । ज्वलने वह्नौ । पुण्यस्य सुकृतस्य गेहमाधारभूतं देहस्य विशेषणमेतत् । मन्त्रपूर्वकं समन्त्रकम् । आहुतीकृत्य ज्वलने क्षिप्त्वा । तडिता विद्युता समाना तुल्या कान्तिः प्रभा यस्या- स्ताम् । दिव्यां स्वर्गीयाम् । तनुं देहम् । ( १५ ) मणिमयै रत्नप्रचुरैर्मण्डनमण्डलभूषणगणैर्मण्डिताऽलंकृता । सकल- उन अतिसहिष्णु कुमारों ने पुनः आकर मिलने के लिए एक संकेतस्थल भी निश्चित कर दिया । इसके पश्चात् वे लोग अलग-अलग दिशाओं में खोजने चल पड़े । ( १४ ) विश्व के प्रमुख योधाराजवाहन द्वारा रक्षित होने से प्रसन्न चित्त उस मातंगने भी शिवजीसे निर्देशित किये गये लक्षणोंवाले चिह्नोंसे परिज्ञात विवर में निःशंक होकर प्रवेश किया और वहाँसे ताम्रपत्रको लेकर फिर उसी मार्गसे पातालमें चला गया । वहाँ किसी नगर के समीप सारस पक्षियोंसे युक्त क्रीडोद्यानके तालाब के पास परमेश्वरकी आज्ञा-विधिके अनु- कूल सम्पादित अनेक प्रकार के हवनीय द्रव्य को होम करके विघ्नों को दूर करनेवाले राज- वाहन के, आश्चर्यपूर्वक, देखते देखते समिधा एवं घृत से उद्दीप्त अग्नि में पुण्यगेह-देह की आहुति दे दी । तथा बिजली के सदृश देदीप्यमान शरीर प्राप्त किया । ( १५ ) इसके पश्चात् रत्नोंके अलंकारोंसे अलंकृत समस्त रमणियोंमें श्रेष्ठ एक कुमारीने
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४६ ललामभूतकन्यका काचन विनीतानेक सखीजनानुकम्प्यमाना कलहंसगत्या शनैरागत्यावनिसुरोत्तमाय मणिमेकमुज्ज्वलाकारमुपायनीकृत्य तेन 'का त्वम्' इति पृष्टा सोत्कण्ठाकलकण्ठस्वनेन मन्दं मन्दमुदञ्जलिरभाषत— ( १६ ) 'भूसुरोत्तम, अहमसुरोत्तमन्दिनी कालिन्दी नाम । मम पितास्य लोकस्य शासिता महानुभावो निजपराक्रमासहिष्णुना विष्णुना दूरीकृतामरे समरे यमनगरातिथिर्कारि । तद्वियोगशोकसागरमग्नां माम- वेक्ष्य कोऽपि कारुणिकः सिद्धतापसोऽभाषत— ( १७ ) 'बाले, कश्चिद्दिव्यदेहधारी मानवो नवो वल्लभस्तव भूत्वा सकलं रसातलं पालयिष्यति' इति । तदादेशं निशम्य घनशब्दोन्मुखी चा- लोकस्य निखिलसंसारस्य ललनाकुलेषु कामिनीगणेषु ललामभूता भूषणस्वरूपा कन्यका । विनीता नम्रा । अनेकैर्बहुभिः सखीजनैः सहचरीवर्गैरनुगम्यमानाऽनुस्रि- यमाणा । कलहंसगत्या राजहंसवन्मन्थरगमनेन । अवनिसुरोत्तमाय ब्राह्मणवराय मातङ्गायेत्यर्थः । उपायनीकृत्य उपहारीकृत्य । तेन मातङ्गेन । सोत्कण्ठा सोत्सुका । कलकण्ठस्वनेन कोकिलस्वरेण । उदञ्जलिर्बद्धाञ्जलिः । ( १६ ) लोकस्य पातालस्य । शासिता पालयिता । महानुभावो महाप्रतापः । निजस्य स्वस्य ( मत्पितुरित्यर्थः ) पराक्रमस्य असहिष्णुना सहनाशक्तेन । दूरीकृताः पराजिताः अमरा देवा यस्मिंस्तस्मिन् । यमनगरस्य यमालयस्यातिथिर्ब्यागतः । अकारि कृतः हत इत्यर्थः । तस्य पितुर्वियोगो विनाशस्तस्माद्यः शोक एव सागरस्तत्र मग्ना तामू । कारुणिको दयालुः । ( १७ ) वल्लभः पतिः । तस्य सिद्धतापसस्यादेशमाज्ञाम् । घनस्य मेघस्य शब्देन गर्जनेन उन्मुखी ऊर्ध्वमुखी । मेघध्वनि श्रुत्वोर्ध्वाननेत्यर्थः । तवालोकनकाङ्क्षिणी विनीत सखियों के साथ कलहंसकी चालसे आकर उक्त देदीप्यमान शरीरधारी ब्राह्मणके समीप जाकर एक समुज्ज्वल मणि उसे भेंट की । ब्राह्मणके द्वारा पूछी जानेपर कि 'तुम कौन हो ?' उसने कोयलसी मीठी वाणीमें धीमे स्वरसे उत्तर दिया— ( १६ ) हे भूसुरोत्तम ! मेरा नाम कालिन्दी है और मैं असुरराजकी पुत्री हूँ । जब इस लोकके अधिपति मेरे पिताने, इस लोकका शासन करते हुए अपने महापराक्रमके विक्रमसे समरमें देवताओंको भी पराजित कर दिया, तब इस महापराक्रमको न सहकर विष्णु भगवान्ने मेरे पिताको संग्राममें मार डाला । उनके वियोगरूपी शोक-सागरमें निमग्न मुझे देखकर जटाधारी एक कारुणिक साधुने मुझसे कहा— ( १७ ) 'जो तुम्हारा वल्लभ होगा वही समस्त पातालके राज्यका स्वामी भी होगा ।' ४ द० कु० पू०
५० दशकुमारचरितम् । [ पूर्वपीठिकायां
५० दशकुमारचरितम् । [ पूर्वपीठिकायां तकी वर्षागमनमिव तवालोकनकाङ्क्षिणी चिरमतिष्ठम् । मन्मनोरथफला- यमानं भवदागमनमवगम्य मद्राज्यावलम्बभूतामात्यानुमत्या मदनकृतसा- रथ्येन मनसा भवन्तमागच्छम् । लोकस्यास्य राजलक्ष्मीमङ्गीकृत्य मां तत्सपत्नीं करोतु भवान्' इति । ( १८ ) मातङ्गोऽपि राजवाहनानुमत्या तां तरुणीं परिणीय दिव्याङ्ग- नालाभेन हृष्टतरो रसातलराज्यमुररीकृत्य परमानन्दमाससाद । ( १६ ) वञ्चयित्वा वयस्यगणं समागतो राजवाहनस्तदवलोकनकौतू- हलेन भुवं गमिष्णुः कालिन्दीदत्तं क्षुत्पिपासादिकिलेशनाशनं मणि साहा- य्यकरणसंतुष्टान्मातङ्गाल्लब्ध्वा कंचनाध्वानमनुवर्तमानं तं विसृज्य बिलप- त्वद्दर्शनाभिलाषिणी । चिरं दीर्घकालम् । मम मनोरथोऽभिलाषस्तस्य फलं तद्वदा- चरतीति । मम राज्यस्य लोकस्य पातालस्येत्यर्थः । अवलम्बभूतानां रक्षकाणां अमा- त्यानां मन्त्रिणामनुमत्या सम्मत्या । मदनेन कामेन कृतं सारथ्यं सारथिकर्म यस्य तेन मदनचालितेनेत्यर्थः । तस्या राजलक्ष्म्याः सपत्नीं प्रतिपक्षवनिताम् । ( १८ ) राजवाहनानुमत्या राजकुमारदेशेन । परिणीयोद्वाह्य । हृष्टतरोऽति- शयेन हृष्टः । उररीकृत्य स्वीकृत्य तद्राज्याधिपतिर्भूत्वेत्यर्थः । आससाद प्राप । ( १९ ) वञ्चयित्वा विप्रलभ्य । वयस्यगणं मित्रमण्डलम् । तदवलोकनकौतूहलेन तेषां सुहृदां अवलोकनकौतूहलेन दर्शनकौतुकेन । भुवं पृथिवीम् । गमिष्णुः गमनशी- लोऽर्थात्पातालात् । कालिन्द्या मातङ्गपत्न्या दत्तमर्पितम् । क्षुत्पिपासेति-यस्य प्रभा- वात् क्षुत्पिपासादयो नश्यन्तीत्यर्थः । मणिं रत्नम् । साहाय्यकरणसन्तुष्टात् साहाय्य- उसी आदेशको शिरोधार्य्य करके मैं, मेघागमके लिए जैसी चातकी प्रतीक्षा किये रहती है तद्वत, आपकी आशामें प्रतीक्षा किये बहुत दिनोंसे बैठी हूँ । मेरी अभिलाषाके फलस्वरूप आपके आगमनको जानकर मेरे राज्यके आलम्बनभूत अमात्योंकी अनुमतिसे कामदेवको सारथी बनाकर मेरा मन आपके समीप आया है—कामोन्मत्ता मैं आप तक आयी हूँ । अतः आप इस राज्यश्रीसहित राज्यपालनको अंगीकार करें और मुझे भी राज्यश्रीकी सपत्नी ( सौत ) बनावें । ( १८ ) राजवाहनकी अनुमतिसे मातंगने भी उस युवतीसे विवाह किया । तथा दिव्यां- गनाकी प्राप्तिपर अति प्रसन्न होकर पातालके शासनकी प्राप्तिसे परमानन्दित हो गया । ( १९ ) अपने मित्रोंको वनमें छोड़कर राजवाहन आया था । अतः मित्रोंको देखनेकी अभिलाषासे जब वह पृथिवीपर आने लगा तब भूख और प्यासको दूर करनेवाली एक मणि जो उसे कालिन्दीने दी और सहायता करनेसे सन्तुष्ट मातंग उसे पहुँचाने आया । कुछ दूरतक Nepal Sanskrit University, Balmeeki Campus, Kathmandu
द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ५१ थेन तेन निर्ययौ । तत्र च मित्रगणमनवलोक्य भुवं बभ्राम । ( २० ) भ्रमंश्च विशालोपशल्ये कमप्याक्रीडमासाद्य तत्र विश्रमि- षुरान्दोलिकारूढं रमणीसहितमाप्तजनपरिवृतमुद्याने समागतमेकं पुरुषम- पश्यत् । सोऽपि परमानन्देन पल्लवितचेता विकसितवदनारविन्दः 'मम स्वामी सोमकुलावतंसो विशुद्धयशोनिधी राजवाहन एषः । महाभाग्यत- याकाण्ड एवास्य पादमूलं गतवानस्मि । संप्रति महानयनोत्सवो जातः' इति ससंभ्रममान्दोलिकाया अवतीर्य सरभसपदविन्यासविलासिहर्षोत्क- र्षचरितस्त्रिचतुरपदान्युद्गतस्य चरणकमलयुगलं गलदुल्लसन्मल्लिका- वलयेन मौलिना पस्पर्श । विधानपरितुष्टात् । कञ्चन कियन्तम् । अनुवर्त्तमानमनुसरन्तम् । ( २० ) विशाले महति उपशल्ये ग्रामप्रान्तभागे । आक्रीडमुद्यानम् । विश्र- मिषुः विश्रमितुमिच्छुः । आन्दोलिकायां दोलायामारूढमुपविष्टम् । आप्तजनैरात्मीयैः परिवृतं परिवेष्टितम् । सोऽपि आन्दोलिकारूढः पुरुषोऽपि । पल्लवितं विकसितं चेतो हृदयं यस्य सः प्रसन्नहृदय इत्यर्थः । विकसितवदनारविन्दः प्रफुल्लमुखकमलः । स्वामी प्रभुः । सोमकुलावतंसः चन्द्रवंशभूषणम् । विशुद्धयशोनिधिर्विमलकीर्ति- शेवधिः । महद्भाग्यं यस्य तस्य भावस्तया अनुकूलदैवप्रभावेण । अकाण्डे असमये सहसेत्यर्थः । पादमूलं चरणसमीपम् । नयनोत्सवो नेत्रानन्दः । ससम्भ्रमं सत्वरा- दरम् । सरभसेन वेगवता पदविन्यासेन चरणनिक्षेपेण विलसतीति विलासी तथाभूतश्चासौ हर्षोत्कर्षौ चरिते यस्य स चेति कर्मधारयः । त्रीणि चत्वारि वेति त्रिच- तुराणि उद्गतस्य चलितस्य । गलद् अवनमनेन भ्रश्यद् उल्लसन्मल्लिकावलयं विक- सन्मल्लिकामाल्यं यस्मात्तेन । मौलिना शीर्षेण । पस्पर्श चरणयुगलमिति शेषः, नमश्चकारेत्यर्थः । आनेपर राजवाहनने उसे कांचनसे ही लौटा दिया तथा स्वयं विवरके द्वारसे बाहर आ गया । जहांसे मित्रवर्गको वंचित करके वह पाताल गया था उस स्थलपर आनेपर उसने उन लोगोंको वहां न पाया । उन्हें न पाकर उनकी खोजमें वह पृथ्वीतलपर इतस्ततः घूमने लगा । ( २० ) घूमते हुए वह एक दिन विशालापुरीके समीप एक बागमें आया । वहां विश्राम करनेकी चेष्टा करने लगा । इतनेमें पालकीमें बैठे हुए रमणीके साथ तथा आप्तजनोंसे परिवृत होकर आये हुए एक मनुष्यको उसने देखा । परमानन्द हर्षोल्लाससे मुदित मन एवं प्रफुल्लित मुखवाले उस पुरुषने कहा—'अरे ये तो चन्द्रवंशके भूषण स्वच्छ सुयशके निधान मेरे स्वामी राजवाहन हैं । बड़े भाग्योदयसे आज अनायास इनके दर्शन मिले । अब इनके चरण-कमलोंको छूना चाहिये । इस समय नेत्रोंको बड़ा सुख हो रहा है।' ऐसा कहते हुए हर्षके साथ अति शीघ्र पालकीसे उतरकर बड़े वेगसे विलासके साथ पैरोंको भूमिपर रखते हुए तीन-चार पैर आगेसे ही राजवाहनके
५२ दशकुमारचरितम् । [ पूर्वपीठिकायां
५२ दशकुमारचरितम् । [ पूर्वपीठिकायां ( २१ ) प्रमोदाश्रुपूर्णो राजा पुलकिताङ्गं तं गाढमालिङ्ग्य 'अये सौम्य सोमदत्त !' इति व्याजहार । ततः कस्यापि पुन्नागभूरुहस्य छायाशीतले तले संविष्टेन मनुजनाथेन सप्रणयमभाणि—'सखे ! कालमेतावन्तं, देशे कस्मिन्, प्रकारेण केनास्थायि भवता, संप्रति कुत्र गम्यते, तरुणी केयम्, एष परिजनः संपादितः कथम्, कथय' इति । ( २२ ) सोऽपि मित्रसंदर्शनव्यतिकरापगतचिन्ताज्वरातिशयो मुकु- लितकरकमलः सविनयमात्मीयप्रचारप्रकारमवाचत्— इति श्रीदण्डिनः कृतौ दशकुमारचरिते द्विजोपकृतिर्नाम द्वितीय उच्छ्वासः ॥ ( २१ ) प्रमोदाश्रुभिः सुहृदवलोकनानन्दजनितनेत्रवारिभिः पूर्णः । पुलकिताङ्गं रोमाञ्चितशरीरम् । सौम्य सुन्दर मनोहरेति यावत् । व्याजहार उवाच । पुन्नागभू- रुहस्य नागकेसरवृक्षस्य । संविष्टेनोपविष्टेन । मनुजनाथेन राज्ञा । सम्पादितः प्राप्तः । ( २२ ) सोऽपि सोमदत्तोऽपि । मित्रस्य सुहृदः सन्दर्शनव्यतिकरेण अवलोकन- व्यापारेण अवगतो विनष्टः चिन्ताज्वरातिशयो यस्य सः । मुकुलितकरकमलः बद्धाञ्जलिः । आत्मीयप्रचारप्रकारं निजभ्रमणवृत्तान्तम् । इति श्रीताराचरणभट्टाचार्यकृतायां बालविवोधिनीसमाख्यायां दशकुमारचरितव्याख्यायां द्वितीयोच्छ्वासः । पैरोंका अपने शिरसे स्पर्श किया। चरणोंके स्पर्शके समय उसके शिरसे मल्लिकाकी मालाएं गिरी पड़ रही थीं। ( २१ ) आनन्दाश्रुसे परिपूर्ण राजवाहनने आनन्दविभोर होकर उस पुलकितांग पुरुषका गाढ़ांलिंगन छातीसे लगाकर किया और कहा—'अये सौम्य सोमदत्त ।' तब एक पुंनाग (नागकेसर) वृक्षकी शीतल छाया में बैठकर राजवाहनने कहा—हे सखे ! इतने समय किस देशमें रहे तथा क्या करते रहे ? अधुना कहाँ जाते हो ? यह तरुणी स्त्री कौन है ? इन सब परिजनोंसे कैसे भेंट हुई ? सभी बातें समझाओ । ( २२ ) यह सुनकर सोमदत्त भी बड़ा प्रसन्न हुआ तथा मित्रसमागमसे उत्पन्न हर्षके द्वारा चिन्तायुक्त ज्वरसे रहित होकर अपने करकमलोंकी अञ्जलि बांधकर विनयसे बतलाने लगा । इस प्रकारसे द्वितीय उच्छ्वासकी बालक्रीड़ा हिन्दी टीका समाप्त हुई ।
तृतीयोच्छ्वासः (१) 'देव, भवच्चरणकमलसेवाभिलाषीभूतोऽहं भ्रमन्नेकस्यां वना- वनौ पिपासाकुलो लतापरिवृतं शीतलं नदसलिलं पिबन्नुज्ज्वलाकारं रत्नं तत्रैकमद्राक्षम् । तदादाय गत्वा कंचनाध्वानमम्बरमणेरत्युष्णतया गन्तुम- क्षमो वनेऽस्मिन्नेव किमपि देवतायतनं प्रविष्टो दीनाननं बहुतनयसमेतं स्थविरमहीसुरमेकमवलोक्य कुशलमुदितदयोऽहमपृच्छम् । (२) कार्पण्यविवर्णवदनो मदाशापूर्णमानसोऽवोचदग्रजन्मा—'महा- भाग, सुतानेतान्मातृहीनाननेकै रुपायै रक्षन्निदानीमस्मिन्कुदेशे भैक्ष्यं सं- पाद्य दद्देतेभ्यो वसामि शिवालयेऽस्मिन्' इति । (१) सोमदत्तः कथयति देवेति-भवतस्तव चरणकमलयोः पादपद्मयोः सेवायां शुश्रूषायां अभिलाषीभूतः साभिलाषः । वनाव नौ काननप्रदेशे । तत्र नदसलिले । कञ्चन कियन्तम् । अम्बरमणेः सूर्यस्य । देवतायतनं देवमन्दिरम् । दीनं विषण्णं आननं मुखं यस्य तम् । बहुभिरनेकैस्तनयैः पुत्रैः समेतं युक्तम् । स्थविरमहीसुरं वृद्धब्राह्मणम् । कुशलं क्षेमम् अपृच्छमित्यस्य कर्म । उदितोत्पन्ना दया करुणा यस्य सः । अहं सोमदत्त इत्यर्थः । (२) कार्पण्येन दैन्येन विवर्णं मलिनं वदनं मुखं यस्य सः । महत्या प्रचु- रया आशया आकाङ्क्षया उपस्थितोऽयं मह्यं किञ्चिदवश्यं प्रदास्यतीत्येवंरूपया पूर्णं मानसं यस्य सः । अग्रजन्मा ब्राह्मणः । इदानीं सम्प्रति । कुदेशे निकृष्टस्थाने । भैक्ष्यं भिक्षाचरणम् । एतेभ्यः सुतेभ्यः । सोमदत्तचरित (१) हे देव ! आपके पादपद्मोंका सेवाभिलाषी मैं पर्यटन करता हुआ एक दिन एक वनमें पहुँचा । वहाँ प्याससे आकुलीभूत होकर लताओंसे आच्छादित नदीके जलको पीकर पर्यटन करने लगा । उसी विपिन स्थलमें एक समुज्ज्वल रत्नको पड़ा हुआ मैंने देखा और उसे उठा लिया । कुछ दूर आगे बढ़ा तो सूर्य भगवान्के प्रचण्ड तेज आतपको न सह सका और चलनेमें अशक्त होकर उसी विपिनके एक देव-मन्दिरमें घुस गया । वहाँपर दीन मुखवाले बहुतसे पुत्रोंके साथ बैठे हुए एक वृद्ध ब्राह्मण—पिताको देखा । मुझे उनपर दया आ गयी । मैंने उस वृद्धसे कुशल प्रश्न किये । (२) दीनताके कारण विवर्णमुख तथा विशाल आशाओंसे परिपूर्ण चित्त होकर उस वृद्ध विप्रने उत्तर दिया—हे महाभाग ! मातृहीन इन पुत्रोंका पालन अनेक प्रकारके यत्नों द्वारा इस कुदेशसे भिक्षाटन करके करता हुआ इसी शिवालयमें रहता हूँ । Nepal Sanskrit University, Balmeeki Campus, Kathmandu
५४ दशकुमारचरितम् । [ पूर्वपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF ५४ दशकुमारचरितम् । [ पूर्वपीठिकायां (३) 'भूदेव, एतत्कटकाधिपती राजा कस्य देशस्य, किं नामधेयः, किमत्रागमनकारणमस्य' इति पृष्टोऽभाषत महीसुरः- 'सौम्य, मत्तकालो नाम लाटेश्वरो देशस्यास्य पालयितुर्वीरकेतोस्तनयां वामलोचनां नाम तरु- णीरत्नमसमानलावण्यं श्रावं श्रावमवधूतदुहितृप्रार्थनस्य तस्य नगरीमरौ- त्सीत् । वीरकेतुरपि भीतो महदुपायनमिव तनयां मत्तकालायादात् । तरु- णीलाभहृष्टचेता लाटपतिः 'परिणेया निजपुर एव' इति निश्चित्य गच्छ- न्निजदेशं प्रति संप्रति मृगयादरेणात्र वने सैन्यावासमकारयत् । (४) कन्यामारेण नियुक्तो मानपालो नाम वीरकेतुमन्त्री मानधन- श्रतुरङ्गबलसमन्वितोऽन्यत्र रचितशिविरस्तं निजनाथावमानखिन्नमान- (३) एतस्य पुरतो वर्त्तमानस्य कटकस्य सन्यस्याधिपतिः स्वामी । किन्नाम- धेयः किमाख्यकः किं नामधेयं यस्येति विग्रहः । महीसुरो भूसुरः । लाटेश्वरः लाट- देशाधिपतिः । असमानं अद्वितीयं लावण्यं सौन्दर्यं यस्य तत् । श्रावंध्रावं पुनः पुनः श्रुत्वा । अवधूता तिरस्कृता न स्वीकृतेति यावत्, दुहितुः कन्याया वामलोचनाया इति यावत् प्रार्थना लाटेश्वरकृता याच्ञा येन तस्य । तस्य वीरकेतोः । अरौत्सीत् रुद्धवान् । उपायनमुपढौकनम् । अदात् प्रददौ । तरुण्याः कन्याया लाभेन प्राप्त्या हृष्टं सन्तुष्टं चेतश्चित्तं यस्य सः । परिणेया विवाहा । निजपुरे स्वनगरे । मृगयाद- रेण मृगयाभिलाषेण । (४) कन्यैव सारो धनं यस्य तेन वीरकेतुनेत्यर्थः । नियुक्तः प्रेरितः । मान एव धनं यस्य सः अभिमानीत्यर्थः । चतुरङ्गं हस्त्यश्वरथपदातिरूप बलं सैन्यं तेन (३) मैने पूछा- हे विप्रवर ! इस सेनाका राजा कौन है और उसका क्या नाम है ? और यह राजा सेनासहित क्यों इस स्थान पर आया है ? ऐसा पूछनेपर उत्तर देते हुए उसने कहा-हे सौम्य ! लाट देशके स्वामी मत्तकालने इस देशके अधिपति वीरकेतुकी तनया, जो अपनी सुन्दरतामें अद्वितीया है तथा नारियोंमें मणिके समान है, के साथ विवाह करने की अभिलाषा प्रकट की परन्तु, वीरकेतुने उसकी इच्छाको विफल कर दिया- वामलोचना कन्या देनेसे इनकार कर दिया। तब क्रोध करके मत्तकालने इसका राज्य घेर लिया। इस पर वीरकेतु अतिभयान्वित हो गया और विशाल भेंटमें अपनी पुत्री वामलोचना उसे समर्पित कर दी। उक्त तरुणीकी प्राप्तिपर प्रसन्नचित्त मत्तकालने यह विचार किया कि इसके साथ विवाह संस्कार अपने राज्यमें जाकर कर लेंगे-और वह वहाँसे चल पड़ा। अपने राज्यको जाते हुए शिकार खेलनेकी इच्छासे उसने मार्गमें पड़ाव डाल दिया । (४) इधर वीरकेतुके आदेशसे मानपाल नामक मन्त्रीने भी चतुरंगिणी सेनाके साथ Nepal Sanskrit University, Balmeeki Campus, Kathmandu
तृतीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ५५ षोऽन्तर्बिभेद' इति । (५) विप्रोऽसौ बहुतनयो विद्वान्निर्धनः स्थविरश्च दानयोग्य इति तस्मै करुणापूर्णमना रत्नमदाम् । परमाह्लादविकसिताननोऽभिहितानेका- शीः कुत्रचिदग्रजन्मा जगाम । अध्वश्रमखिन्नेन मया तत्र निरवेशि नि- द्रासुखम् । तदनु पश्चान्निगडितबाहुयुगलः स भूसुरः कशाघातचिह्नित- गात्रोऽनेकैर्नैस्त्रिंशिकानुयातोऽभ्येत्य माम् 'असौ दस्युः' इत्यदर्शयत् । (६) परित्यक्तभूसुरा राजभटा रत्नावाप्तिप्रकारं मदुक्तमनाकर्ण्य भ- यरहितं मां गाढं नियम्य रज्जुभिरानीय कारागारम् 'एते तव सखायः'
समन्वितो युक्तः । रचितशिविरः कृतसैन्यावासः । तं मत्तकालम् । निजनाथस्य स्व- स्वामिनोऽवमानेन परिभवेन खिन्नं विषण्णं मानसं मनो यस्य सः । अन्तर्बिभेद प्रकृत्यमात्यादीनां भेदं चकार । (५) दानयोग्यो दानपात्रम् । करुणापूर्णमनाः सदयचित्तोऽहं सोमदत्त इत्य- र्थः । परमेणोत्कृष्टेनाह्लादेनानन्देन विकसितं प्रफुल्लमाननं मुखं यस्य सः । अभि- हिता उक्ता दत्ता इति यावत् । अनेका असंख्येया आशिष आशीर्वादा येन सः । कुत्र- चिदनिर्दिष्टे स्थाने । अग्रजन्मा ब्राह्मणः । अध्वनि मार्गे यः श्रमः परिश्रमस्तेन खिन्नः तेन । निरवेशि उपभुक्तम् । तदनु तदनन्तरम् । पश्चात् पृष्ठदेशे निगडितं बद्धं बाहु- युगलं हस्तद्वयं यस्य सः । कशाघातेन वेत्रप्रहारेण चिह्नितं गात्रं शरीरं यस्य सः । अनेकैर्बहुभिर्नैस्त्रिंशिकैरखधारिपुरुषैरनुयातोऽनुसृतः । दस्युश्चौरः । (६) परित्यक्तो मुक्तो भूसुरो ब्राह्मणो यैस्ते । रत्नावाप्तिप्रकारं मम रत्नलाभ- वृत्तान्तम् । भयरहितं निर्भयम् । गाढं नियम्य दृढं बद्ध्वा । एते कारागारस्थिताः
पड़ाव डाल रखा है और अपने स्वामीके अनादरसे खिन्नचित्त होकर उनमें बुद्धिभेद करा दिया है । (५) इस वृत्तान्तको श्रवणकर मैने सोचा कि यह ब्राह्मण विद्वान् है, वृद्ध है और निर्धन तथा बहुकुटुम्बी भी है अतः दानके देने योग्य है- ऐसा सोचकर मैने वह रत्न दयावश उसे दानमें दे दिया । रत्नकी प्राप्तिपर उसे बड़ा हर्ष हुआ और वह अनेक आशीर्वाद देता हुआ वहाँसे चला गया । अध्वपरिश्रमसे क्लान्त होकर मैं भी वहाँ सो गया । थोड़ी देरमें वह ब्राह्मण दोनों हाथ निगडित होकर कई सिपाहियोंके साथ मेरे पास आया । मैंने देखा कि उसके शरीरपर चाबुकोंकी मारके निशान भी पड़े हैं। मुझे संकेत कर उसने कहा- यही चोर हैं । (६) उन राजपुरुषोंने इस बातको श्रवणकर उस ब्राह्मणको छोड़ दिया और मुझे रस्सियोंसे कसकर बाँध दिया । रत्नप्राप्तिका सारा वृत्तान्त मैंने उनसे कह सुनाया । परन्तु
५६ दशकुमारचरितम् । [ पूर्वपीठिकायां
५६ दशकुमारचरितम् । [ पूर्वपीठिकायां इति निगदितान्कांश्चिन्निदिष्टवन्तो मामपि निगदितचरणयुगलमकार्षुः । किंकर्त्तव्यतामूढेन निराशक्लेशानुभवेनावाचि मया—'ननु पुरुषा वीर्यप- रुषाः, निमित्तेन केन निर्विशथ कारावासदुःखं दुस्तरम् । यूयं वयस्या इति निर्दिष्टमेतैः, किमिदम्' इति । (७) तथाविधं मामवेक्ष्य भूसुरान्मया श्रुतं लाटपतिवृत्तान्तं व्या- ख्याय चोरवीराः पुनरवोचन्—'महाभाग ! वीरकेतुमन्त्रिणो मानपालस्य किङ्करा वयम् । तदाज्ञया लाटेश्वरमारणाय रात्रौ सुरुङ्गाद्वारेण तदगारं प्रविश्य तत्र राजाभावेन विषण्णा बहुधनमाहृत्य महाटवीं प्राविशाम । अपरेद्युश्च पदान्वेपिणो राजानुचरा बहवोऽभ्येत्य धृतधनचयानस्मान्परितः इत्यर्थः । सखायः सुहृदः । निगदितान् संयमितान् शृङ्खलाबद्धान् इति यावत् । निर्दिष्टवन्तो दर्शयन्तः । निगदितं बद्धं चरणयुगलं पादद्वयं यस्य तम् । किं कर्तव्यं यस्य तस्य भावः किंकर्त्तव्यता तस्यां मूढो मन्दस्तेन, अधुना किं कार्यमित्यजानते- त्यर्थः । निर्नास्ति आशा यस्य तस्य यः क्लेशः खेदस्तस्यानुभवो यस्मिन् तथा- भूतेन । नन्विति सम्बोधने । वीर्येण पराक्रमेण परुषाः कठोराः । निर्विशथ अनु- भवथ । दुस्तरमपारम् । वयस्याः सुहृदः । निर्दिष्टं कथितम् । एतै राजभटैः । (७) तथाविधं तथाकारं निगदितचरणमित्यर्थः । व्याख्याय मम पुरत उक्त्वा । किंकराः सेवकाः । तदाज्ञया वीरकेतोरादेशेन । सुरुङ्गाद्वारेण बिलमार्गेण । तदागारं तस्य लाटपतेरगारम् , गृहम् । राजाभावेन राज्ञोऽनुपस्थित्या । विषण्णाः दुःखिताः । आहृत्यादाय । अपरेद्युः अन्यस्मिन् दिने तत्परदिवस इत्यर्थः । पदान्वेषिणः चरण- चिह्नमनुसरन्तः । अभ्येत्य अस्मत्समीपमागत्य । धृतो रक्षितो धनानां रत्नानां चयो उन्होंने मेरे कथनपर कुछ भी ध्यान नहीं दिया और कारागारमें लाकर मुझसे कहा-'देखो ये सब तुम्हारे मित्र हैं' तथा जो चोर वहाँ पूर्वसे कैद थे उनको दिखाकर मुझे भी-मेरे दोनों पैरोंको-निगडित कर दिया । किंकर्त्तव्यविमूढ होकर तथा उस कारागारसे मुक्तिका कोई अन्य उपाय न देखकर मैंने उन बन्दियोंसे कहा— ऐ वीरो ! तुम लोग इतने बलिष्ठ होकर क्यों इस कारावासके कठिन दुःखोंको झेल रहे हो और इन राजपुरुषोंने तुम लोगोंको निर्देशित करके मुझे तुम लोगोंका मित्र कहा है, इसका क्या अभिप्राय है ? (७) मेरे प्रश्नपर तथा मुझे निगडित दशामें देखकर और मेरे द्वारा विप्रके मुखसे सुने हुए लाटपतिके वृत्तान्तको सुनकर वे चोर बोले—'हे सौम्य ! राजा वीरकेतुके मंत्री मानपालके हम लोग दास हैं । उन्हीं मंत्रीकी आज्ञासे हम लोग राजाको मारनेके लिए सुरंगके द्वारा रातमें राजाके आगारमें गये । परन्तु, राजाको न पाकर खिन्न मन होकर वहाँकी अतुल धन