दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 387, कुल 474 में से
संदर्भ में पढ़ेंसप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३८७ 'यथेयं रथचरणजघना कथयति तथा चेन्नाचरेयम् , नयेत नक्रकेतनः क्षणेनैकेनाकीर्त्तनीयां दशाम्। जनं चैनं सह नयानया कन्यया कन्या- गृहं हरिणनयनया' इति । नीतश्चाहं निशाचरेण शारदजलधरजालकान्ति कन्याकनिकेतनम् । तत्र च कांचिन्नालकलां चन्द्राननानिदेशाच्चन्द्रशा- लैकदेशे तद्दर्शनचलितधृतिरतिष्ठम्। (८) सा च स्वच्छन्दं शयानाः करतलालससंघट्टनापनीतनिद्राः काश्चिदधिगतार्थाः सखीरकार्षीत् । अथागत्य ताम्प्रणनिहितशिरसः क्षर- रथचरणजघना रथचरणः चक्रं तदाकारे जघने यस्याः सा, प्रशस्तजघनेति यावत् । तथा तादृक् । आचरेयं अनुतिष्ठेयम् । नयेत प्रापयेत् । नक्रकेतनः मकरध्वजः । क्षणेन एकेन मुहूर्त्तेन । अकीर्त्तनीयां अकथनीयाम् । दशां मरणदशामिति भावः । एनं जनं मामित्यर्थः । नय प्रापय । नीतः प्रापितः । शारदेति-शरदि भवः शार- दस्तादृशो यो जलधरो मेघस्तस्य जालं मण्डलं तस्येव कान्तिर्यस्य तादृशम् सुधासितमित्यर्थः । कन्याकनिकेतनं कन्यागृहम् । तत्र कन्यागृहे । काञ्चित्- कियत्परिमिताम् । कालकलां कालस्य समयस्य कलामंशम् । चन्द्राननानिदेशात्- राजकन्यादेशात् । चन्द्रशालैकदेशे चन्द्रशाला शिरोगृहं तस्या एकदेशे एकस्मिन् विभागे । तद्दर्शनेति-तस्या राजकन्याया दर्शनेन चलिता च्युता धृतिधैर्यं यस्य सः । (८) सा राजकन्या । स्वच्छन्दं प्रकामम् । शयानाः निद्रामधिगताः । करत- लेति-करतलेन अलसं मन्दं यत् संघट्टनं प्रेरणं तेन अपनीता दूरीभूता निद्रा यासां ताः एवम्भूताः काश्चित सखीः सहचरीः अधिगतार्थाः अधिगतः सम्यक् ज्ञातः अर्थः मदागमनरूपो विषयो याभिस्ताः । अथ निद्रापगमनानन्तरं ताः सख्यः । किम्भूताः, चरणनिहितशिरसः-मत्पादसंस्थापितमस्तकाः प्रणता इति आचरण न करूंगा तो, कामदेव एक ही क्षणमे अवर्णनीया परिस्थिति ला देगा। अर्थात् मरणावस्था प्राप्त करा देगा। अत एव इस जन (मुझ) को इसी मृगनयनी राजपुत्रीके साथ अन्तःपुरमें ले चलो।' मैं (तथा वह राजपुत्री) उस निशाचर (किंकर) द्वारा शरत्कालिक मेघोंके समान सुन्दर छविकाले (सफेद) कन्यान्तःपुरमें पहुँचा दिया गया। उस कन्यान्तःपुग्में कुछ कालतक उस चन्द्रमुखी राजकन्याके आदेशसे अट्टा- लिका (शिरोगृह) के एक स्थलमें 'फिर उस चन्द्रमुखीका दर्शन होगा' इस आशासे अधीरबुद्धि होकर बैठ गया। (८) वह चन्द्रमुखी, घोर निद्रामें सोती हुई कई सखियोंको, हाथकी धीमी थपकियोंसे जगाकर, तथा मेरे आगमन रूपी समाचारको ज्ञात कराकर वहाँ बुलाकर