द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 100, कुल 176 में से
संदर्भ में पढ़ें६२ द्रव्यगुणः । रोचिष्णु शस्तमरुचौ शीतके विषमज्वरे ॥ पीनसे मूत्रकृच्छ्रे च रूक्षन्तु ग्रहणीगदे ॥ १६ ॥ गव्यं दधि च मङ्गल्यं वातघ्नं शुचि रोचकम् । स्निग्धं विपाके मधुरं दीपनं बलवर्द्धनम् ॥१७॥ दध्याजं कफपित्तघ्नं लघु वातक्षयापहम् । दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम् ॥ विपाके मधुरं वृष्यं रक्तपित्तप्रसादनम् । बलाश्ववर्द्धनं स्निग्धं विशेषाद्दधि माहिषम् ॥१८॥ त्वात् सुजातकालात्यये चात्यम्लत्वात् अत्राम्लत्वोष्णत्वस्निग्ध- त्वाल्लभ्यमानमपि वातनाशनत्वं यत् पुनरुच्यते तत् प्रकर्षार्थम् । तथाम्लत्वादियुक्तस्यापि वातहन्तृत्वादिव्यभिचारदर्शनाच्चेति ज्ञेयम् । व्यभिचारोदाहरणानि मन्दकामन्दजातमद्यादीन्यनु- सर्त्तव्यानि । न्यायश्चायमेवंजातीये सर्वत्रैव बोध्यः । अरुचौ शस्तमित्युक्तापि रोचिष्णु इति वचनम् अरोचकहरस्यापि तिक्तरसस्य रोचिष्णुत्वं व्यभिचारदर्शनाज्ज्ञेयम् । शीतक इति विषमज्वरविशेषणम् । पीनस इति चतुर्विधपीनसे प्रभावात् हितम् । किंवा पीनसपाचकत्वात् सर्वत्र हितम् । अन्ये तु पीनसे शस्तमिति यद्यपि सामान्यत एवोक्तम् तथापि योग्यतया वातिकपीनसे एव शस्तमित्याहुः । रूक्षमुद्धृतसारं पुनर्ग्रहणी- गदे हितमिति योज्यम् ॥ १६ ॥ सामान्यगुणमभिधाय विशेषगुणमाह गव्यमिति । मङ्ग- ल्यत्वमिह प्रभावात् ॥ १७ ॥ अत्र विशेषादिति पदं स्निग्धमित्यनेन बलाश्र्ववर्द्धनमित्य- नेन च सम्बध्यते ॥ १८ ॥