द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 101, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणाः। ६३ कोपनं कफवातानां दुर्नाम्नाञ्चाविकं दधि ॥ १८॥ दीपनीयमचक्षुष्यं वातलं वाडवं दधि । रूक्षमुष्णं कषायञ्च कफमूत्रापहञ्च तत् ॥ २० ॥ स्निग्धं विपाके मधुरं वल्यं सन्तर्पणं गुरु । चक्षुष्यमग्र्यं दोषघ्नं दधि नार्या गुणोत्तरम् ॥ २१ ॥ लघु पाके वलाशघ्नं वीर्य्योष्णं पक्तिनाशनम् । कषायानुरसं नाग्या दधि वर्च्चोविबन्धनम् ॥२२॥ दधीन्युक्तानि यानीह गव्यादीनि पृथक् पृथक् । विज्ञेयमेव सर्वेषु गव्यमेव गुणोत्तरम् ॥ २३ ॥ वातघ्नं कफकृत् स्निग्धं वृंहणं नातिपित्तकृत् । कुर्य्याद्भक्ताभिलाषञ्च दधि यत् सुपरिस्रुतम् ॥२४॥ शृतक्षीरात्तु यज्जातं गुणवद्दधि तत् स्मृतम् । कफवातानां दुर्नाम्नाञ्च कोपनमित्यन्वयः । कफवाताभ्या- मिति पाठे सम्भूतानामिति शेषः । तेन कफवाताभ्यां सम्भू- तानां दुर्नाम्नां कोपनमित्यर्थः ॥ १८ ॥ अचक्षुष्यत्वमिह प्रभावादिति चन्द्रिका । कफमूत्रापहत्वं च रूक्षोष्णत्वात् ॥ २० ॥ चक्षुष्यमग्र्यमिति श्रेष्ठं चक्षुष्यमित्यर्थः । चक्षुर्हितत्वमस्य प्रभावात् । गुणोत्तरमिति गुणैः प्रधानम् ॥ २१ ॥ सर्वेषु दधिषु गव्यस्य प्राधान्यमाह दधीनीति ॥ २३ ॥ इदानीं तस्यैव दध्नोऽवस्थान्तरेषु गुणोत्तरं दर्शयन्नाह वातघ्नमिति । सुपरिस्रुतं सुष्ठु गलितद्रवभागम् ॥ २४ ॥