भारतकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 102, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 102

९४ द्रव्यवर्गः। वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम् ॥ २५ ॥ दधि त्वसारं रूक्षञ्च ग्राहि विष्टम्भि वातलम् । दीपनीयं लघुतरं सकषायं रुचिप्रदम् ॥ २६ ॥ दध्नः सरो गुरुर्वृष्यो विज्ञेयोऽनिलनाशनः । वह्नेर्विधमनश्चापि कफशुक्रविवर्द्धनः ॥ २७ ॥ तक्रं लघु कषायाम्लं दीपनं कफवातजित् । शोथोदरार्शो ग्रहणीदोषमूत्रग्रहारुचि । प्लीहगुल्मघृतव्यापद्गरपाण्ड्वामयान् जयेत् ॥ २८ ॥ मस्तु तद्वत् सरं श्रोतःशोधि विष्टम्भजिल्लघु ॥ २६ ॥ ससरं निर्जलं घोलं तक्रं पादजलान्वितम् । कथितक्षीरस्य दध्नो गुणमाह शृतक्षीरादिति ॥ २५ ॥ उद्धृतस्नेहस्य दुग्धस्य दध्नो गुणमाह दधीति । असारमुद्धृत- स्नेहम् ॥ २६ ॥ दधिसरगुणमाह दध्न इति । वह्नेर्विधमनो वह्निमान्द्यकरः । सरो दध्न उपरितनो भागः । वृष्यः शुक्रविवर्द्धन इति पदद्वयो- पादानं श्रुतिवृद्धिकरभेदेन वृष्यद्वयपरिग्रहार्थम् ॥ २७ ॥ तक्रगुणमाह तक्रमिति ॥ २८ ॥ अतिदेशेन मस्तुगुणमाह मस्त्विति । तद्वदिति गुणैस्तक्र- वत् ॥ २९ ॥ दध्नः संस्कारविशेषेण नामविशेषानभिधाय गुणविशेषानाह ससरमिति । चरकादिभिस्तक्रं विहाय एते त्रयो भेदाः कण्ठ- रवेण नोक्ता यतो घोलस्य दध्न एवान्तर्भावः । यतः ससरं निर्जलं दधि मथितं सत् दध्नो नातिरिच्यते । मन्थनसंस्कारेण