द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 103, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । [८५]
अर्द्धोदकमुदश्वित् स्यान्मथितं सरवर्जितम् ॥३०॥ घोलं पित्तानिलहरं तक्रं दोषत्रयापहम् । उदश्वित् श्लेष्मलञ्चैव मथितं कफपित्तनुत् ॥ ३१ ॥ वातेऽम्लं सैन्धवोपेतं पित्ते स्वादु सशर्करम् । पिबेत्तक्रं कफे चापि व्योषक्षारसमायुतम् ॥ ३२ ॥ नैव तक्रं क्षते दद्यात् नोष्णकाले न दुर्बले । न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपित्तके ॥ ३३ ॥ परं तत्र लाघवं जनितम् । उदश्विन्मथितयोस्तक्र एवान्त- र्भावः । अतएवोक्तं तन्त्रान्तरे । मन्थनादिपृथग्भूतस्नेहमर्द्धोदकञ्च यत् । नातिसान्द्रद्रवं तक्रं स्वाद्वम्लन्तुवरं सरम् ॥ अजलं स्नेहहीनं यत् तत्तक्रं कफनाशनम् । इति । चरके तु विविधं तक्रमुक्तम् । रूक्षमर्द्धोद्धृतं स्नेहं यत्तथानुद्धृतं घृतम् । तक्रं दोषाग्निवलवित्त्रिविधं सम्प्रयोजयेदिति ॥ ३० ॥ इदानीमस्यैव भेदचतुष्टयस्य गुणमाह घोलमिति । यद्यपि पूर्वं तक्रस्य वातकफहरत्वमेवोक्तं तथापि मधुरत्वेन मधुरपाकि- त्वेन च पित्ताजनकत्वात् द्रव्यान्तरसंयोगाद्वा पित्तशमनमपीति मत्वा दोषत्रयापहत्वमप्योक्तम् । सुश्रुते तु मधुरस्य तक्रस्य पित्तहरत्वं साक्षादेवोक्तम् । तत् पुनर्मधुरं श्लेष्मप्रकोपणं पित्तशमनञ्चेति ॥ ३१ ॥ यत्र यादृशं तक्रं युक्तं तदाह वात इति ॥ ३२ ॥ तक्रस्याविषयं तक्रविषयञ्च श्लोकाभ्यामाह नेति । उष्ण- काले शरदि ग्रीष्मे च ॥ ३३ ॥