भारतकोश
संग्रह पर लौटें

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

द्रव्यगुणः । [८५]

अर्द्धोदकमुदश्वित् स्यान्मथितं सरवर्जितम् ॥३०॥ घोलं पित्तानिलहरं तक्रं दोषत्रयापहम् । उदश्वित् श्लेष्मलञ्चैव मथितं कफपित्तनुत् ॥ ३१ ॥ वातेऽम्लं सैन्धवोपेतं पित्ते स्वादु सशर्करम् । पिबेत्तक्रं कफे चापि व्योषक्षारसमायुतम् ॥ ३२ ॥ नैव तक्रं क्षते दद्यात् नोष्णकाले न दुर्बले । न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपित्तके ॥ ३३ ॥ परं तत्र लाघवं जनितम् । उदश्विन्मथितयोस्तक्र एवान्त- र्भावः । अतएवोक्तं तन्त्रान्तरे । मन्थनादिपृथग्भूतस्नेहमर्द्धोदकञ्च यत् । नातिसान्द्रद्रवं तक्रं स्वाद्वम्लन्तुवरं सरम् ॥ अजलं स्नेहहीनं यत् तत्तक्रं कफनाशनम् । इति । चरके तु विविधं तक्रमुक्तम् । रूक्षमर्द्धोद्धृतं स्नेहं यत्तथानुद्धृतं घृतम् । तक्रं दोषाग्निवलवित्त्रिविधं सम्प्रयोजयेदिति ॥ ३० ॥ इदानीमस्यैव भेदचतुष्टयस्य गुणमाह घोलमिति । यद्यपि पूर्वं तक्रस्य वातकफहरत्वमेवोक्तं तथापि मधुरत्वेन मधुरपाकि- त्वेन च पित्ताजनकत्वात् द्रव्यान्तरसंयोगाद्वा पित्तशमनमपीति मत्वा दोषत्रयापहत्वमप्योक्तम् । सुश्रुते तु मधुरस्य तक्रस्य पित्तहरत्वं साक्षादेवोक्तम् । तत् पुनर्मधुरं श्लेष्मप्रकोपणं पित्तशमनञ्चेति ॥ ३१ ॥ यत्र यादृशं तक्रं युक्तं तदाह वात इति ॥ ३२ ॥ तक्रस्याविषयं तक्रविषयञ्च श्लोकाभ्यामाह नेति । उष्ण- काले शरदि ग्रीष्मे च ॥ ३३ ॥

६६ द्रव्यगुणः । ग्राहिणी वातला रूक्षा विज्ञेया तक्रकूर्चिका ॥३४ तक्रान्लघुतरो मण्डः कूर्चिकादधितक्रजः ॥३५॥ किलाटोऽनिलहा वृष्यः कफनिद्राकरो गुरुः ॥३६ मधुरो बृंहणस्तद्वत् पीयूषोऽपि स मोरटः ॥३७॥ तक्रस्य हेत्वन्तरग्रथितस्य घनो भागस्तक्रकूर्चिकेत्युच्यते तद्गुणमाह ग्राहिणीति ॥ ३४ ॥ तक्रकूर्चिकादधिकूर्चिकाभ्यां जातस्य मस्तुनेो गुणविशेषमाह तक्रादिति । मण्ड इति मस्तु तस्य विशेषणं कूर्चिकादधि- तक्रज इति कूर्चिकाभूतं यद्दधि कूर्चिकाभूतञ्च यत्तक्रं ताभ्यां जातो मण्डस्तक्रान्लघुतर इत्यर्थः । दधिकूर्चिकालक्षणं यथा ॥ दध्ना सह पयः पक्वं सा भवेद्दधिकूर्चिका ॥ ये तु दधिकूर्ची च तक्रवदिति पठन्ति तन्मते दधि- कूर्चिका तक्रवदिति तक्रकूर्चिकासमानगुणा अन्ये दधिकूर्चिका तक्रज इति पठन्ति व्याचक्षते च ॥ प्रकृतदधिजस्तथा कूर्च्चि- काभूतदधिजः तथा कूर्चिकाभूततक्रजश्च मण्ड इति मस्तुत्रय- स्यायं गुणनिर्देश इति ॥ ३५ ॥ कूर्चिकाप्रस्तावात् क्षीरकूर्चिकागुणमाह किलाट इति । नष्टक्षीरपिण्डं यमाहुर्लोकाः क्षीरसा इति ॥ ३६ ॥ पीयूषमोरटयोर्गुणमाह मधुर इति । तद्वदिति किलाट- तुल्यः । पीयूषमोरटयोर्लक्षणं यथा क्षीरं सद्यः प्रसूतायाः पीयूषमिति संज्ञितम् । सप्तरात्रात् परं क्षीरमप्रसन्नञ्च मोरटम् ॥ इति । जेज्जड़स्तु मोरटस्थाने मोरगं पठन्ति व्याचष्टे च । मोरगो नष्टक्षीरद्रवभाग इति ॥ ३७ ॥

द्रव्यगुणः । ६७ नवनीतं नवं वृष्यं शीतं वर्ण्यबलाग्निकृत् । संग्राहि वातपित्तासृक्क्षयार्शोऽर्दितकासजित् ३८ क्षीरोद्भवन्तु संग्राहि रक्तपित्ताक्षिरोगनुत् ॥३९॥ विकल्प एष दध्यादिः श्रेष्ठो गव्योऽभिवर्णितः । विकल्पानवशिष्टांस्तु क्षीरवीर्य्यं समादिशेत् ॥४०॥ तक्रनिष्पत्त्यनन्तरं नवनीतमुत्पद्यत इति तक्रानन्तरं नव- नीतगुणानाह नवनीतमिति । नवमिति सद्यस्कम् । एतेनाभि- नवस्यैवैते गुणाः प्रकर्षवन्तो भवन्तीति दर्शयति ॥ ३८ ॥ क्षीरमथनोत्थितस्य नवनीतस्य गुणमाह क्षीरोद्भवमिति ॥३९॥ ननु क्षीरं दधि च गव्यादीनां प्रतिप्रतिगुणत उक्तम् । मस्तु तक्रादयस्तु सामान्येनोक्ताः तत् किं गव्यमस्त्वादय एते गुणतो वाच्या न वेत्याशङ्कायामाह विकल्प इति । विकल्पो भेदः प्रकार इति यावत् । दध्यादिरिति । अतद्गुणसंविज्ञान बहु- व्रीहिः । तेन मस्तुतक्रादिरूप इत्यर्थः । श्रेष्ठ इति हेतुगर्भ- विशेषणम् । तेन श्रेष्ठत्वाद्गव्य एवोक्तः । न पुनराजावीप्रभृ- तीनामित्यर्थः । अभिवर्णितः कथितः । यद्येवं छागादिमस्त्वा- दीनां गुणाः कथं ज्ञातव्या इत्याह विकल्पानित्यादि । वीर्य्य- शब्दोऽत्र गुणवचनः । तेन पञ्चमौ ल्यप्लोपे । तेन छागादि- क्षीराणां ये गुणा उक्तास्तान् सुवीक्ष्य तन्मस्तुतक्रादावपि तत्स- दृशान् गुणान् वदेदित्यर्थः । केचिदिमं श्लोकमनार्षमिति वदन्ति । तन्न सम्यक् । यतोऽपठ्यमानेऽस्मिन् श्लोके अजा- दितक्रादिगुणानुक्ते न्यूनता स्यात् । न वा तक्रादिविकल्पस्य सामान्यगुणोक्तिरिति वक्तुं युज्यते । मुख्यतस्परस्परगुणभेदादजा- दितक्राणाम् । अतएवोक्तं वाग्भटेन । ९

६८ द्रव्यगुणः। घृतं बुद्ध्यग्निशुक्रौजोज्ञेदःस्मृतिकफावहम् । वातपित्तविषोन्मादशोषालक्ष्मीजरापहम् । स्नेहोत्तमं योगवाहि सर्वथा मधुरं हिमम् ॥४१॥ गव्यं घृतं घृतश्रेष्ठं चक्षुष्यं बलवर्धनम् । विपाके मधुरं श्रेष्ठं वातपित्तविषापहम् ॥४२॥ माहिषन्तु घृतं स्वादु पित्तास्रानिलनुद्धिमम् ॥४३॥ छागं घृतन्तु चक्षुष्यं लघ्वग्निबलवर्धनम् ॥ ४४ ॥ आविकादीनि सर्पींषि बुद्ध्वा स्वक्षीरवद्वदेत् ॥४५॥ सर्पिः पुराणं तिमलप्रतिश्यातिमिरपहम् । विद्याद्दधिघृतादीनां गुणदोषान् यथा पय इति ॥ ४० ॥ नवनीतसम्भवात् घृतस्य नवनीतानन्तरं घृतगुणमाह घृत- मिति । कफावहमिति कफकरम् । यत्तु त्रिदोषापकर्षणमिति सुश्रुतेनोक्तम् तत् संस्कारेण कफहरत्वादिति ज्ञेयम् । अत- एव चरकेऽपि संस्कारात्तु जयेत् कफमित्युक्तम् । योगवाहीति यैर्यैर्द्रव्यैः संस्क्रियते तेषां तेषामेव गुणानावहतीत्यर्थः । सर्वथा मधुरमिति रसे पाके च मधुरमित्यर्थः । तथा सर्वथा हिमं निपातेऽधिवासे च शीतमित्यर्थः । न तु काञ्जिकादिवत् निष्पा- तमात्रे शीतमित्यर्थः ॥ ४१ ॥ इदानीं विशिष्टघृतगुणमाह गव्यमिति । अत्र सामान्य- गुणाभिहितमधुरत्वादेः पुनरभिधानमुत्कर्षार्थम् । अत्र द्वितीयं श्रेष्ठमिति पदं चक्षुष्यमित्यादिषु सर्वत्रैव योज्यम् । श्रेष्ठमित्य- तिशयेन चक्षुष्यमतिशयेन बलवर्धनमित्यादि ॥ ४२ ॥ अनुक्तसर्पिर्गुणमतिदेशेनाह आविकादीनीति ॥ ४५ ॥

द्रव्यगुणः । ६८ मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम् ॥४६॥ क्षीरघृतन्तु संग्राहि तर्पणं नेत्ररोगनुत् ॥ ४७ ॥ सर्पिर्मण्डः सरः स्वादुर्योनिश्रोत्रशिरोऽक्षिजान् । गदान् जयति शोथघ्नो रूक्षस्तीक्ष्णस्तनुश्च सः ॥४८॥ इति क्षीरवर्गः । तैलं संयोगसंस्कारात् सर्वरोगहरं स्मृतम् । कषायानुरसं स्वादु सूक्ष्ममुष्णं व्यवायि च ॥ पुराणसर्पिर्गुणमाह सर्पिरिति । प्रतिश्यायशब्दः प्रतिश्याय- वचनः । पुराणघृतलक्षणं यथा उग्रगन्धं पुराणं स्याद् दशवर्षस्थितं घृतम् । लाक्षारसन्निभं शीतं प्रपुराणमतः परम् ॥ यथा यथा हि जीर्णत्वप्रकर्षस्तथा तथा गुणोत्कर्षः । उक्तं हि हारीते । यथा यथा जरां याति गुणवत् स्यात्तथा तथा ॥ ४६ ॥ क्षीरोत्थितघृतगुणमाह क्षीरघृतमिति ॥ ४७ ॥ सर्पिर्मण्डगुणमाह सर्पिर्मण्ड इति । सर्पिषस्तप्तस्य स्त्यानो- भवदुपरीतनो भागः सर्पिर्मण्डः ॥ ४८ ॥ इति क्षीरवर्गः । जङ्गमस्नेहोत्तमं घृतमभिधाय स्थावरस्नेहोत्तमं तैलमाह तैलमिति । तैलमिति तिलोद्भवम् । संयोगसंस्कारादिति संयो- गात् संस्काराच्चेत्यर्थः । संस्कारस्तैलस्य भेषजैः पाकः । संयोग-

१०० द्रव्यगुणः । पित्तलं बद्धविण्मूत्रं न च श्लेष्माभिवर्द्धनम् । वातघ्नमुत्तमं बल्यं त्वच्यं मेधाग्निवर्द्धनम् ॥ १ ॥ सार्षपं कटु तीक्ष्णोष्णं कफशुक्रानिलापहम् । लघु पित्तास्रकृत् कोठकुष्ठार्शोव्रणजन्तुजित् ॥२॥ सेकाभ्यङ्गावगाहेषु तिलतैलं प्रशस्यते । तद्वस्तिषु च पानेषु नस्ये कर्णाक्षिपूरणे ॥ अन्नपानविधौ चापि प्रयोज्यं वातशान्तये ॥ ३ ॥ तैलमेरण्डजं तिक्तं कटु स्वादुरसं गुरु । ब्रध्नगुल्मानिलकफानुदरान् विषमज्वरम् ॥ रुक्शोफौ च कटौगुह्यकोष्ठपृष्ठाश्रयौ जयेत् । तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्वति ॥५॥ उमाकुसुम्भजं तूष्णं त्वग्दोषकफपित्तकृत् ॥ ६ ॥ करञ्जनिम्बतैलन्तु नात्युष्णं कफपित्तजित् । तिक्तं क्रिमिहरं तैलं शेषं योनिवदादिशेत् ॥७॥ स्ववचारणायां ज्ञेयः। सूक्ष्ममिति सूक्ष्मस्रोतोऽनुसारित्वात् । व्यवायीति अपक्वमेव सकलदेहव्यापकात् । त्वच्यमित्यभ्यङ्गात् । यत्तु वाग्भटे त्वग्दोषकरत्वमुक्तं तैलस्य तल्लक्षणाभिप्रायेणेति न विरोधः । अन्ये तु तत्रापि त्वग्दोषहृदिति पठन्ति । तन्तु न टीकाकृद्भिर्व्याख्यातम् ॥ १ ॥ अन्नपानविधौ अन्नपानसंस्कारे ॥ ३ ॥ उमा अतसी ॥ ६ ॥

[द्रव्यगुणः। १०१]

सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं विशिष्यते। निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि ॥ ८ ॥

तिक्तमित्यन्तः करञ्जनिम्बयोस्तैलगुणः। तैलमित्यादिना तु अनुक्ततैलगुण उक्तः॥ ७ ॥ स्थावरस्नेहेषु तिलतैलप्राधान्यमाह सर्वेभ्य इति ॥ ८ ॥ ननु तैलपदे तैलत्वं प्रवृत्तिनिमित्तम्। तच्च न तावत्तिलो- द्भवत्वम्। सर्षपतैलादावव्याप्तेः। नापि बीजप्रभवत्वं तद्गतरूपा- दावतिव्याप्तिः। नापि बीजप्रभवस्नेहत्वं सारतैलादावव्याप्तेः। अपि च बीजप्रभवस्नेहत्वं न तावत् स्नेहरूपगुणवृत्तिः। तैलं गन्धवदिति प्रत्ययस्य सर्वजनसाधारणस्य भ्रान्तित्वापत्तेः। नापि स्नेहाश्रयद्रव्यवृत्तिः। बीजद्रवमात्रस्यैव तैलत्वापत्तिरिति अनुप- पत्तिं हृदि निधाय सर्षपादिस्रेहेष्वपि तैलशब्दं व्युत्पादयन्नाह निष्पत्तेरिति। तिले यथा तैलं निष्पद्यते चूर्णीकरणयन्त्र- पातनादिना तथा सर्षपादावपि स्नेहाकर्षणात्। भवति च समाननिष्पत्तिकतया तच्छब्दता यथा वितुषे धान्ये तण्डुलशब्दो वृत्ततः स वितुषे विडङ्गेऽपि वर्त्तते। यथा विडङ्गतण्डुला इति। तद्गुणत्वेन तच्छब्दता यथा गोर्वाहिक इति। तद्गुणत्वञ्च सुश्रु- तेनोक्तम् यथा यावन्तः स्थावराः स्नेहाः समासात् परिकीर्त्तिताः। सर्वे तैलगुणा ज्ञेयाः सर्वे चानिलनाशनाः ॥ एतेन तिलस्य विकारस्तैलमिति योगे बाधकाभावात्। तिलप्रभवस्नेह एव तैलपदप्रयोगात् स्नेहत्वेऽपि शक्तेस्तैलपदं योगरूढम्। सार्षपादौ तु तैलपदप्रयोगो भाक्त इति भावः। अन्ये तु गन्धरसविशेषाभिव्यङ्ग्यं तैलत्वं जातिः। अतएव घृत-

१०२ द्रव्यगुणः । वसा मज्जा च वातघ्नौ वलपित्तकफप्रदौ । मांसानुरूपगन्धौ च विद्यान्मेदोऽपि ताविव ॥६॥ इति तैलवर्गः । इक्षोरसो हिमो वृष्यस्तर्पणो जीवनः सरः । वातासृक्पित्तजित् स्वादुः स्निग्धः प्रीणनवृंहणः । रसो दन्तकृतः श्लेष्मकारणं न विदाहवान् ॥ १ ॥ यान्त्रिकस्तु विदाही स्याद्गुरुस्त्वग्ग्रन्थियोगतः॥२॥ तैलसंशये गन्धरसविशेषनिश्चयात् तैलत्वनिश्चय इति सार्षप- स्नेहादीनामपि तैलत्वमित्याहुः ॥ ८ ॥ स्नेहसामान्याद् वसादीनामपि गुणमाह वसेति ॥ ६ ॥ इति तैलवर्गः । माधुर्य्यसामान्यात् क्षीरवर्गमनु इक्षुविकृतिवर्गेऽभिधातव्ये उपोद्घातागतेन तैलवर्गेण व्यवधानं कृतम् । सम्प्रति यथोक्तो- पोद्घातागतं तैलवर्गमभिधाय प्रकृतमिक्षुविकृतिवर्गमाह इक्षो- रिति । दन्तकृत इति दन्तपीड़नेन कृतः ॥ १ ॥ यान्त्रिक इति यन्त्रपीड़नेन कृतः । ननु यान्त्रिकस्य इक्षु- रसस्य विदाहित्वे सति रक्तपित्तहरत्वं यत् तद्विरुध्यते । यथा मधूदकस्येक्षुरसस्य चापि पानाच्छमं गच्छति रक्तपित्तमिति । तन्न । यतो दन्तनिष्पीड़ितस्यैवाविदाहिनो रक्तपित्ते ग्रहणं भवि- ष्यति । किं वा यान्त्रिकस्यापि विदाहकारणत्वगादिसंयोगा- देस्त्यागं कृत्वोपयोगः कार्य्यः । तेन यान्त्रिकस्तु विदाहीति वचनं

द्रव्यगुणाः । १०३ अतीव मधुरो मूले मध्ये मधुर एव च । अग्रे चाक्षिषु विज्ञेय इक्षूणां लवणो रसः ॥ ३ ॥ पक्को रसो गुरुः स्निग्धः स तीक्ष्णः कफवातजित् ४ फाणितं गुर्वभिष्यन्दि वृंहणं कफशुक्रलम् ॥ ५ ॥ रूक्षं मधूकपुष्पोत्थं फाणितं त्वथ वातहृत् । कफदं मधुरं पाके कषायं वस्तिदूषणम् ॥ ६ ॥ गुड़ो वृष्यो गुरुः स्निग्धः सक्षारो मूत्रशोधनः । नातिपित्तहरो मेदःकफक्रिमिवलप्रदः ॥ ७ ॥ प्रायोवादमाश्रित्य बोध्यम् । अन्ये त्वेतद्दोषभिया विदाहीति शीघ्रपाकीति व्याख्यानयन्ति ॥ २ ॥ इक्षूणामवयवविशेषेण गुणविशेषमाह अतीवेति अक्षि- ष्विति । ग्रन्थिषु चन्द्रिकाकारस्तु इक्षूणामक्षिषु सर्वसन्धिषु प्ररो- हजननसमर्था अङ्कुरा इत्याह । अन्ये त्वत्तु चेति पठन्ति तत् सुबोधम् ॥ ३ ॥ पक्वस्येक्षुरसस्य गुणमाह पक्व इति ॥ सतीक्ष्ण ईषत्तीक्ष्ण इत्यर्थः ॥ ४ ॥ फाणितं तन्तुलीभूतो रसः । अस्यैव तन्त्रान्तरे क्षुद्रगुड़ इति संज्ञा । तदुक्तं क्षुद्रो गुड़श्चतुर्भागावशेषित इति ॥ ५ ॥ फाणितप्रसङ्गान्मधूकपुष्पकृतफाणितगुणमाह रूक्षमिति ॥ ६ ॥ इक्षुरसस्यैव पाकादतिघनभावं गतस्य गुड़संज्ञा तस्य गुण- माह गुड़ इति ॥ सक्षार इति क्षारसहचरितलवणरसः क्षार- शब्देनोच्यते । स्वामिदासाद्यस्तु व्याख्यातारः क्षाराधिकारे क्षारस्य रसत्वमेव मन्यन्ते । तत्तु न सम्यक् सर्वतन्त्रविरोधात् ।

१०४ द्रव्यगुणः । पित्तघ्नो मधुरः शुद्धो वातघ्नोऽसृक्प्रसादनः ॥८॥ स पुराणोऽधिकगुणो गुड़ः पथ्यतमः स्मृतः ॥६॥ खण्डं वृष्यतमं बल्यं चक्षुष्यं बृंहणं तथा । वातपित्तहरं नातिस्निग्धं हृद्यं सुखप्रदम् ॥१०॥ शर्करा वातपित्तासृङ्मूर्च्छाच्छर्दिविषापहा ॥११॥ तमराजस्तु तृष्णाघ्नो ज्वरदाहास्रपित्तजित् ॥१२॥ उक्तं हि चरके क्षरणात् क्षारो नासौ रसो द्रव्यमिति । नाति- पित्तहर इति । मधुरत्वेऽपि सलवणत्वात् ॥ ७ ॥ अपहृतमलत्वेन शुद्धो यो गुड़स्तस्य गुणमाह पित्तघ्न इति । शुद्धो मलापगमनेन धवल इत्यर्थः ॥ ८ ॥ पुराणगुड़स्य गुणमाह स इति ॥ पथ्यतम इति गुड़ान्तरा- पेक्षया । चन्द्रिकाकारस्तु पथे स्रोतसे हितः पथ्यः पथ्यतमः सर्वेषां स्रोतोहितानां श्रेष्ठ इत्यर्थः । पथ्यतमस्तु जीर्णत्वेन रौक्ष्यलाघवादिगुणयोगात् । अतएवोक्तं गुणाधिक इति । गुणाश्चात्र स्रोतः शोधनाधिकारिण एव रौक्ष्यलाघवादयो न तु स्नेहादयः । पुराणं प्रायशो रूक्षं प्रायेणाभिनवं गुर्विति युक्ति- विरोधात् । अप्रस्तुतत्वात् स्नेहादीनां स्रोतःशुद्ध्यकरणत्वाच्चेति व्याचष्टे । डल्वनस्तु स पुराण इत्यस्य ईषत् पुराणमित्यर्थं व्याख्या- तवान् ॥ ६ ॥ तस्यैव गुड़स्य संस्कारान्तरेण नामान्तरं गुणान्तरं च निर्दि- शन्नाह खण्डमिति ॥ १० ॥ अत्र शर्कराशब्दः सामान्यवचनः । तेन यासशर्करामधु- शर्करागुड़शर्कराणामिवायं गुण इति बोध्यः ॥ ११ ॥ तमराजः शर्कराभेद इति डल्वनः ॥ १२ ॥

द्रव्यगुणः। १०३ वृष्या क्षीणक्षतहिता सस्नेहा गुड़शर्करा ॥ १३ ॥ मधुजा शर्करा रूक्षा तृष्णाच्छर्द्यतिसारनुत् । तद्गुणा तिक्तमधुरा सस्नेहा यासशर्करा ॥ १४ ॥ गुड़मत्स्यण्डिकाखण्डशर्करा विमलाः परम् ॥ १५॥ यथा यथैषां वैमल्यं मधुरत्वं तथा तथा । स्नेहगौरवशैत्यानि सरत्वञ्च तथा तथा ॥ १६ ॥ मधु स्वादुरसं शीतं व्रणशोधनरोपणम् । कषायानुरसं रूक्षं वल्यं दीपनलेखनम् ॥ गुड़पदं यासशर्करामधुशर्करयोर्व्यवच्छेदार्थम् ॥ १३ ॥ मधुनः कालान्तरावस्थानादति घनीभूतमवयवं मधुशर्करेति वदन्ति । दुरालभाक्वाथस्य घनीभावाद् यासशर्करेत्युच्यते ॥ १४ ॥ गुड़ादीनामुत्तरोत्तरं नैर्मल्यातिशयमाह गुड़ेत्यादि । पर- मित्यत्तरोत्तरं विमलाः । तेन गुडापेक्षया मत्स्यण्डिका विमला मत्स्यण्डिकापेक्षया खण्डो विमलः खण्डापेक्षया च शर्करा इति । मत्स्यण्डिकाश्च खण्डमध्ये कृत्रिमाः पाकादिना निष्पन्न- त्वात् शालूकाकृतयोऽतिकठिना भवन्ति ॥ १५ ॥ एतेषामेव यथा यथा वैमल्यप्रकर्षस्तथा तथा माधुर्यादि- प्रकर्षोऽपीत्याह यथेति ॥ अत्र गौरवस्थाने केचिल्लाघवं पठन्ति वदन्ति च । लाघवं हि गुणः प्रशस्तो न गौरवम् उत्तरोत्तरश्च प्राशस्त्यमेषामुक्तम् । किन्तु यथा यथा सारत्वं भवति तथा तथा गौरवमप्युपपन्नम् ॥ १६ ॥ माधुर्यसामान्यात् मधुशर्कराप्रसङ्गाच्चानन्तरं मधुगुणाभि- धानं तस्य सामान्यगुणमाह मध्विति ॥ सन्धानमिति भग्नादि- सन्धानकरम् । नन्वत्र लध्विति पठ्यते । तथा त्रिदोषप्रशमन-

१०६ द्रव्यगुणः। सन्धानं लघु चक्षुष्यं स्वर्य्यं हृद्यं त्रिदोषनुत् । श्वासहिक्काविषहरमुष्णं क्षाम्बु विरोधि च ॥१७॥ मिति तथाच चरकविरोधः । तत्र हि वातलं गुरु शीतञ्च रक्त- पित्तापहं मध्विति पठति । एवं वाग्भटेऽपि व्रणशोधनसन्धान- रोपणं वातलं मध्विति पठ्यते । सत्यम् । तत्र यल्लघुत्वमुक्तं तत् पुराणमध्वपेक्षया । इदं हि वचनं सौश्रुतम् । सुश्रुते च पुराण- मेव मध्वधिकृतम् । यथा विडङ्गं पिप्पली चौद्रं सर्पिश्चाप्यनवं हितम् । इति । तेनाधिकृतत्वात् पुराणमधुन एवैते गुणा ज्ञेयाः । चरके तु पुराणादिविशेष मनादृत्य गुरुत्वमुक्तम् । चक्रस्तु लघ्विति लघुपाकमिति व्याख्याय विरोधं परिहरति । त्रिदोष- प्रशमनत्वञ्चास्य प्रभावान्मिलितत्रिदोषारब्धज्वरहरतया ज्ञेयम् । पृथग्वातजननन्तु चरकवाग्भटाभ्यामुक्तमतो न विरोधः । त्रिदोषहरत्वे उपपत्तिरपि दर्शिता सुश्रुतेन । यथा तच्च लघु- त्वात् कषायानुरसत्वाच्च कफघ्नं पैच्छिल्यात् माधुर्य्यात् कषा- यानुरसत्वाच्च वातपित्तघ्नमिति । न च दृष्टकारणत एव त्रिदोषहरत्वोपपत्तौ प्रभावकल्पनमयुक्तमिति वाच्यम् । प्रभाव- मन्तरेण मिलितत्रिदोषारब्धविकारहरणनियमानुपपत्तेः । विष- हरमिति विषान्वयसम्भवेऽपि विषहरत्वमस्य प्रभावात् । अतएवोक्तञ्चरके विषं विषघ्नमुक्तं यत् तत् प्रभावप्रभावितम् । इति । केचिदनयैवानुपपत्त्या वमिहरमिति पठन्ति । तन्न । सुश्रुतेऽपि विषप्रशमनमित्युक्तत्वात् । उष्णाक्षाम्बुविरोधीति उष्णेन क्षाम्बुना च विरुध्यते । सुश्रुते च उष्णविरोधे उपपत्ति- रपि दर्शिता यथा । तत् सौकुमार्य्याच्च तथैव शैत्यान्ना-

द्रव्यगुणः । १०७ माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं मधुजातयः । माक्षिकं प्रवरं तेषां विशेषाद्भ्रामरं गुरु ॥ १८ ॥ माक्षिकं तैलवर्णं स्याद् घृतवर्णन्तु पौत्तिकम् । क्षौद्रन्तु कपिलं विद्यात् श्वेतं भ्रामरमुच्यते ॥ १९ ॥ नौषधीनां रससम्भवाच्च। उष्णे विरुध्येत विशेषतस्तु तथा- न्तरीक्षेण जलेन चापि। सौकुमार्य्यादिति सुकुमारं हि उष्णे विरुध्यते। नवनीतस्यानघृतजलकुसुमवत्। तथैव शैत्या- दिति शीतस्य स्वभावत एव उष्णविरोधात्। नानौषधीनां रससम्भवाच्चेति विरुद्धरसवीर्य्यनानाद्रव्यपुष्पस्य रसेन द्रवेण सम्भवादुत्पत्तेरित्यर्थः। खाम्बुना शीतेनापि मधुनो विरोधित्वे द्रव्यस्वभावमात्रं हेतुः। उष्णविरोधयोश्चास्पर्शैरिव नोष्णवीर्य्यै- स्तेनोष्णवीर्य्यत्रिकट्वादिना मधु न विरुध्यते। एतच्चोष्ण- विरोधित्वमार्घ्यं मधु विहाय बोध्यम्। तस्य विपान्वयत्वासम्भ- वात्। अतएवोक्तं भोजे। मधून्यष्णैर्विरुध्यन्तेऽन्यत्रार्घ्यादिति ॥ १७ ॥ यद्यपि सुश्रुतेऽष्टविधं मधूक्तम्। यथा। पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च। आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ॥ इति। तथापि मधुनश्चतुर्विधत्वमेव सर्वजनप्रसिद्ध- मिति कृत्वा चरकवचनमुपन्यस्यति। पिङ्गला मक्षिका महत्यः पुत्तिकास्तद्भवं पौत्तिकम्। भ्रामराः प्रसिद्धाः। मक्षिका एव स्वल्पाः पिङ्गलाः क्षुद्रास्तद्भवं क्षौद्रम्। तद्विधा एवास्वल्पा मक्षिकास्तद्भवं माक्षिकम् ॥ १८ ॥ माक्षिकादिज्ञानार्थं वर्णविशेषानाह माक्षिकमिति ॥ १९ ॥

१०८ द्रव्यगुणः १ बृंहणीयं मधु नवं नातिश्लेष्महरं सरम् । मेदःस्थौल्यापहं ग्राहि पुराणमतिलेखनम् । दोषत्रयहरं पक्वमाममम्लं त्रिदोषकृत् ॥ २० ॥ तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून्॥२१ उष्णेन मधु संयुक्तं वमनेष्ववचारितम् । अपाकादनवस्थानान्न विरुद्ध्येत पूर्ववत् ॥ २२ ॥ इत्यैक्षवादिवर्गः । तस्यैव मधुनोऽवस्थाविशेषेण गुणभेदमाह बृंहणीयमिति । पक्वमित्यग्निसम्पर्कादेव मधु गृह्णन्ति । अन्ये तु मधुनः पाको नास्तीति कृत्वा मध्वाधारस्यैव भूरिकालेन स्वयं सुसञ्जातत्वं पक्वत्वं स्वल्पकालावस्थानाच्चामत्वं वदन्ति ॥ २० ॥ मधुनो योगवाहितामाह तदिति । अत्र केचित् नानाद्रव्या- त्मकत्वाच्च योगवाहिपरं मध्विति पठन्ति । तन्मतेऽपीयमेवोप- पत्तिः ॥ प्रभावसहिता मधुनो योगवाहित्वे हेतुः । प्रभावात्तु नानाद्रव्यात्मकत्वेऽपि मद्यादीनां न योगवाहित्वम् ॥ योग- वाहितया च येन येन वाजीकरणरसायनदोषहरणादिना युज्यते तस्य तस्यैव कर्म करोतीति भावः ॥ २१ ॥ इदानीं विषयविशेषे मधुन उष्णेनाप्यविरोधमाह उष्णे- नेति । वमनेष्विति अचिरावस्थायिभेषजोपलक्षणम् । तेन वस्तावप्यविरोधो ज्ञेयः । विरेचने तु चिरावस्थानाद्विरुध्यत एव । पूर्ववदिति सौकुमार्यादिहेतुः । पूर्वस्मादिव नात्र विरोध इत्यर्थः ॥ २२ ॥ इत्यैक्षवादिवर्गः ।

द्रव्यगुणः । १०६ सर्वं पित्तकरं मद्यमम्लं दीपनपाचनम् । भेदनं कफवातघ्नं हृद्यं बस्तिविशोधनम् ॥ पाके लघु विदाह्युष्णं तीक्ष्णमिन्द्रियबोधनम् । विकासि सृष्टविण्मूत्रं निद्राभावप्रसक्तिनुत् ॥ १॥ स्तन्यरक्तक्षयहिता सुरा दीपनबृंहणी । कार्श्यार्शोग्रहणीदोषमूत्राघातानिलापहा ॥ २॥ कासार्शोग्रहणीदोषप्रतिश्यायविनाशिनी । श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरा ॥ ३ ॥ इदानीं मधुगुडयोनित्वात् तथा मधुशब्दाभिधेयत्वाच्च मद्यस्य तदनन्तरं मद्यवर्गमाह सर्वमिति । यद्यपि मार्द्वीकमा- ध्वोकादिमद्यं साक्षादप्रतीयमानाम्लरसं तथापि अम्लकार्य्यदन्त- हर्षमुखस्रावकारित्वेन अम्लानुरसत्वेन चाम्लत्वमिह ज्ञेयम् । यत्तु वाग्भटे सस्वादुतिक्तकटुकमम्लपाकरसं सरम् । सकषायं स्वरारोग्यप्रतिभावर्णकृल्लघु ॥ इति । पञ्चरसत्वमुक्तम् । तन्मतेऽप्यम्लानुरसता इतररसानां ज्ञेया । उक्तं हि सर्वेषां मद्यमम्लानामुपर्य्युपरि वर्त्तते । इति । इन्द्रियबोधनमिति इन्द्रियपाटवकरमिति डल्लनः । निद्राभावप्रसक्तिनुदिति निद्राया अभावं नाशं तथा निद्राया अतिप्रसक्तिञ्च नुदति । अतएवोक्तमन्यत्र नष्टनिद्रातिनिद्राये हितं पित्तास्रदूषणम् । इति ॥ १ ॥ सुरागुणमाह स्तन्येति । सुराऽत्र लोहितवर्णा ॥ २ ॥ १०

११० द्रव्यगुणः । छर्द्यरोचकहृत्कुक्षितोदशूलप्रमर्दिनी । प्रसन्ना गुल्मवातार्शोविवन्धानाहनाशिनी ॥४॥ पित्तलाल्पकफा रूक्षा यवैर्वातप्रकोपणी । विष्टम्भिनी सुरा गुर्वी श्लेष्मला तु मधूलिका ॥५॥ रूक्षा नातिकफा वृष्या पाचनी वल्कली सुरा ॥६॥ कोहलो भेद्यवृष्यश्च त्रिदोषो वदनप्रियः ॥ ७ ॥ ग्राह्युष्णो जगलः प्रोक्तो रूक्षस्तृट्कफशोथनुत् ॥८॥ कातोलीति प्रसिद्धायाः श्वेतसुराया गुणमाह कासार्श इति ॥ ३ ॥ प्रसन्नागुणमाह छर्दीति । प्रसन्ना मद्यस्योपरि अच्छो भागः । अन्ये तु मद्यमेव भेषजयोगात् प्रसन्नं प्रसन्नामाहुः ॥ ४ ॥ यवगोधूमकृतसुरयोः क्रमाद्गुणमाह पित्तलेति । गुर्वी- त्यन्तो यवसुरागुणः । यवैरित्यनन्तरं कृतेति शेषः । श्लेष्मला तु मधूलिकेति गोधूमसुरागुणः । मधूलकः स्वल्पगोधूमः । तत्कृत- क्लिन्नभागा सुरा मधूलिका । अन्ये तु मधूलकां मर्कटहस्ततृणं तत्फलक्लिन्नकृता मधूलिकेत्याहुः । जेज्जड़स्तु मधूलकपुष्पस- म्भवं मद्यं मधूलिकामाह ॥ ५ ॥ वल्कलीति प्रसिद्धसुरागुणमाह रूक्षेति । बिभीतककृता सुरा वल्कली । अतएव केचिद्वल्कलीस्थाने आक्षिकीति पठन्ति । अक्षी बिभीतकः ॥ ६ ॥ कोहलाख्यमद्यगुणमाह कोहल इति । यवशक्तुकिण्वकृतं मद्यं कोहलः । अन्ये तु पौण्ड्रदेशप्रसिद्धां सुरां काञ्चिमानिका- माहुः ॥ ७ ॥

द्रव्यगुणः। १११ हृद्यः प्रवाहिकाटोपदुर्नामानिलशोधनुत् । वक्कसो हृतसारत्वाद्विष्टम्भी वातकोपनः ॥ ९ ॥ शीधुः पित्तानिलहरः श्लेष्मस्नेहविकारहा । मेदःशोथोदरार्शोघ्नो वल्यः पक्वरसो मतः ॥ १० ॥ जरणीयो विबन्धघ्नः स्वरवर्णविशोधनः । लेखनः शीतरसिको हितः शोफोदरार्शसाम् ॥ ११ ॥ गौड़ः शीधुः कषायः स्यात् स्वादुः पाचनदीपनः १२ शार्करो मधुरो हृद्यो दीपनो वस्तिशोधनः । वातघ्नो मधुरः पाके रुच्य इन्द्रियबोधनः ॥ १३ ॥ शीधुर्मधूकपुष्पोत्थो विदाह्यग्निवलप्रदः । रूक्षः कषायः कफहा वातपित्तप्रकोपणः ॥ १४ ॥ जगलो भक्तकिण्वकिक्ककृतः सुरा तस्या गुणमाह ग्राह्येति ॥ ८ ॥ भेदकगन्धद्रव्यविक्रियमाणवक्कसगुणमाह हृद्य इति ॥ ९ ॥ पक्केक्षुरसकृतशीधुगुणमाह शीधुरिति। पक्वरसः कथितेक्षु- रसेषु यः क्रियते ॥ १० ॥ अपक्केक्षुरसकृतशीधुगुणमाह जरणीय इति। शीतरसिको- ऽपक्केक्षुरसकृतः ॥ ११ ॥ गुड़कृतशीधुगुणमाह गौड़ इति ॥ १२ ॥ शर्कराकृतशीधुगुणमाह शार्कर इति। इन्द्रियबोधन इन्द्रि- यपाटवजनकः ॥ १३ ॥ अयन्तु न गुड़योनिः ॥ १४ ॥

११२ द्रव्यगुणः । जाम्बवो बद्धनिष्यन्दस्तुवरो वातकोपनः ॥ १५॥ तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् । मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः ॥१६॥ तीक्ष्णः कषायो मदकृद् दुर्नामकफगुल्मनुत् । क्रिमिमेदोऽनिलहरो मैरेयो मधुरो गुरुः ॥ १७ ॥ निर्दिशेद् द्रव्यतश्चान्यान् कन्दमूलफलासवान् ॥ १८ नवं मद्यमभिष्यन्दि दोषकृज्जीर्णमन्यथा ॥ १६ ॥ जम्बुफलरसगुड़ादिकृतशीधुगुणानाह जाम्बव इति । बद्ध- निष्यन्दो बद्धमूत्रः । तुवर इति कषायः । तौवर इति पाठे तौवर इति जाम्बवविशेषणं वदन्ति । जम्बुफलरसतुवरोक्वाथ- गुड़ादिकृतः शीधुरित्यर्थः ॥ १५ ॥ इदानीं पृथङ्‌मधुगुड़पिष्टयोनिमद्यान्यभिधाय मध्वादि- योनिमेलननिष्पाद्यं किञ्चिदौषधयुक्तं मद्यमासवसंज्ञकं निर्दि- शन्नाह तीक्ष्ण इति । सुरा पौष्टी सैवं यत्र तोयकार्य्यं करोति स सुरासवः ॥ १६ ॥ मैरेयगुणमाह तीक्ष्ण इति । आसवस्य सुरायाश्च द्वयोरेकत्र भाजने । सन्धानं तं विजानीयात् मैरेयमुभयाश्रयमिति ॥१७॥ अनुक्तासवगुणज्ञानार्थमाह निर्दिशेदिति । द्रव्यत इति । द्रव्यगुणतो वीक्ष्य कन्दाद्युपलक्षणम् । तेन काण्डत्वक्पल्लवा अपि ग्राह्याः ॥ १८ ॥ मद्यस्याल्पकालत्वादिना अपरिणतस्य तथा चिरकालत्वा- दिना परिणतस्य दोषगुणानाह नवमिति । जीर्णमिति कालेन परिपक्वम् ॥ १६ ॥

द्रव्यगुणः । ११३ अरिष्टो द्रव्यसंयोगसंस्कारादधिको गुणैः ॥ २० ॥ बहुदोषहरश्चैव रोगाणां शमनश्च सः । दीपनः कफवातघ्नः सरः पित्ताविरोधनः ॥ शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः ॥ २१ ॥ अरिष्टासवशीधूनां गुणान् कर्माणि चादिशेत् । बुद्ध्वा यथा स्वं संस्कारमवेक्ष्य कुशलो भिषक् ॥ २२ ॥ सान्द्रं विदाहि दुर्गन्धि विरसं क्रिमिलं गुरु । अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम् ॥ अल्पौषधं पर्युषितमत्यच्छं पिच्छिलञ्च यत् । तद्वर्ज्यं सर्वथा मद्यं किञ्चिच्छेषञ्च यद्भवेत् ॥ २३ ॥ अरिष्टगुणमाह अरिष्ट इति । अरिष्टशब्देन इक्षुविकारस- हिताभयाचित्रकदन्तीपिप्पल्यादिभूरिभेषज-क्वाथ्यादिसंस्कारवत् मद्यमभिधीयते । द्रव्यसंयोग इति अभयाचित्रकादिद्रव्यसंयोगः । संस्कारस्तु भेषजक्वाथनभाजनसंस्कारयवराशिस्थापनादिः ॥ २० ॥ अधिकगुणत्वमेवाह बह्विति । बहुदोषहर इत्यस्य भाष्यं कफवातघ्नः पित्ताविरोधेन इति । नञ् ईषदर्थे । रोगाणां शमन इत्यस्य तु भाष्यं शूलाध्मानेत्यादि । तेन न पौनरुक्त्यम् । किंवा शेषार्थमेतद्वचनमित्याहुः । दोषाणां शमन इति पाठेऽपि दोष- शब्दो रोगवचन एवेति ज्ञेयम् ॥ २१ ॥ अरिष्टप्रसङ्गेनासवशीधूनामपि बहुप्रपञ्चेनेहानुक्तानां गुण- ज्ञानार्थमाह अरिष्टेति । संस्कारमवेक्ष्येति संस्कारद्रव्यगुणान् बुद्ध्वा ॥ २२ ॥ यादृशं मद्यं वर्ज्यं तदाह सान्द्रमिति । तरुणमिति मन्द-

११४ द्रव्यगुणः । चिरस्थितं जातरसं दीपनं कफवातजित् । रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम् ॥२४॥ शुक्तं वलाशपित्तासृक्क्लेदि वातानुलोमनम् । भृशोष्णतीक्ष्णारूक्षाम्लं हृद्यं रुचिकरं सरम् । दीपनं शिशिरं स्पर्शे पाण्डुहत्कृमिनाशनम् ॥२५॥ तद्वत्तदास्रुतं सर्वं रोचनन्तु विशेषतः ॥ २६ ॥ गौड़ानि रसशुक्तानि मधुशुक्तानि यानि च । जातम् । एतच्चोक्तमपि समुदितदोषाभिधानप्रस्तावात् पुनरु- च्यते ॥ २३ ॥ सेव्यं यन्मद्यं तदाह चिरस्थितमिति ॥ २४ ॥ आसुतत्वसामान्यात् शुक्तादिगुणकर्मणी दर्शयन्नाह शुक्त- मिति । शुक्तलक्षणं यथा । यन्मस्त्वाद्वि शुचौ भाण्डे सगुड़क्षौद्रकाञ्जिकम् । धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥ इति । अत्रैव गुड़ादिमानं यथा । गुड़माक्षिकधान्याम्लमस्तु च द्विगुणं क्रमात् । शुक्तसिद्धार्थमावाप्यं प्रायशः कंटुकञ्च तत् ॥ इति ॥२५॥ शुक्तप्रक्षिप्तकन्दादिषु शुक्तगुणानभिदिशति । तदास्रुत- मिति । शुक्तसन्धानक्षिप्तमार्द्रककरीरादि तद्वदिति शुक्तसमान- गुणम् ॥ २६ ॥ शुक्तस्य योनिभेदेन गुणमाह गौडानीति । गौड़ानि गुड़- प्रकृतित्तशुक्तानि । रसशुक्तानि इक्षुरसकृतशुक्तानि । एतच्छुक्तत्रय- ज्ञानार्थंपरि भाषा यथा ।