द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 110, कुल 176 में से
संदर्भ में पढ़ें१०२ द्रव्यगुणः । वसा मज्जा च वातघ्नौ वलपित्तकफप्रदौ । मांसानुरूपगन्धौ च विद्यान्मेदोऽपि ताविव ॥६॥ इति तैलवर्गः । इक्षोरसो हिमो वृष्यस्तर्पणो जीवनः सरः । वातासृक्पित्तजित् स्वादुः स्निग्धः प्रीणनवृंहणः । रसो दन्तकृतः श्लेष्मकारणं न विदाहवान् ॥ १ ॥ यान्त्रिकस्तु विदाही स्याद्गुरुस्त्वग्ग्रन्थियोगतः॥२॥ तैलसंशये गन्धरसविशेषनिश्चयात् तैलत्वनिश्चय इति सार्षप- स्नेहादीनामपि तैलत्वमित्याहुः ॥ ८ ॥ स्नेहसामान्याद् वसादीनामपि गुणमाह वसेति ॥ ६ ॥ इति तैलवर्गः । माधुर्य्यसामान्यात् क्षीरवर्गमनु इक्षुविकृतिवर्गेऽभिधातव्ये उपोद्घातागतेन तैलवर्गेण व्यवधानं कृतम् । सम्प्रति यथोक्तो- पोद्घातागतं तैलवर्गमभिधाय प्रकृतमिक्षुविकृतिवर्गमाह इक्षो- रिति । दन्तकृत इति दन्तपीड़नेन कृतः ॥ १ ॥ यान्त्रिक इति यन्त्रपीड़नेन कृतः । ननु यान्त्रिकस्य इक्षु- रसस्य विदाहित्वे सति रक्तपित्तहरत्वं यत् तद्विरुध्यते । यथा मधूदकस्येक्षुरसस्य चापि पानाच्छमं गच्छति रक्तपित्तमिति । तन्न । यतो दन्तनिष्पीड़ितस्यैवाविदाहिनो रक्तपित्ते ग्रहणं भवि- ष्यति । किं वा यान्त्रिकस्यापि विदाहकारणत्वगादिसंयोगा- देस्त्यागं कृत्वोपयोगः कार्य्यः । तेन यान्त्रिकस्तु विदाहीति वचनं