भारतकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 109, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 109

[द्रव्यगुणः। १०१]

सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं विशिष्यते। निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि ॥ ८ ॥

तिक्तमित्यन्तः करञ्जनिम्बयोस्तैलगुणः। तैलमित्यादिना तु अनुक्ततैलगुण उक्तः॥ ७ ॥ स्थावरस्नेहेषु तिलतैलप्राधान्यमाह सर्वेभ्य इति ॥ ८ ॥ ननु तैलपदे तैलत्वं प्रवृत्तिनिमित्तम्। तच्च न तावत्तिलो- द्भवत्वम्। सर्षपतैलादावव्याप्तेः। नापि बीजप्रभवत्वं तद्गतरूपा- दावतिव्याप्तिः। नापि बीजप्रभवस्नेहत्वं सारतैलादावव्याप्तेः। अपि च बीजप्रभवस्नेहत्वं न तावत् स्नेहरूपगुणवृत्तिः। तैलं गन्धवदिति प्रत्ययस्य सर्वजनसाधारणस्य भ्रान्तित्वापत्तेः। नापि स्नेहाश्रयद्रव्यवृत्तिः। बीजद्रवमात्रस्यैव तैलत्वापत्तिरिति अनुप- पत्तिं हृदि निधाय सर्षपादिस्रेहेष्वपि तैलशब्दं व्युत्पादयन्नाह निष्पत्तेरिति। तिले यथा तैलं निष्पद्यते चूर्णीकरणयन्त्र- पातनादिना तथा सर्षपादावपि स्नेहाकर्षणात्। भवति च समाननिष्पत्तिकतया तच्छब्दता यथा वितुषे धान्ये तण्डुलशब्दो वृत्ततः स वितुषे विडङ्गेऽपि वर्त्तते। यथा विडङ्गतण्डुला इति। तद्गुणत्वेन तच्छब्दता यथा गोर्वाहिक इति। तद्गुणत्वञ्च सुश्रु- तेनोक्तम् यथा यावन्तः स्थावराः स्नेहाः समासात् परिकीर्त्तिताः। सर्वे तैलगुणा ज्ञेयाः सर्वे चानिलनाशनाः ॥ एतेन तिलस्य विकारस्तैलमिति योगे बाधकाभावात्। तिलप्रभवस्नेह एव तैलपदप्रयोगात् स्नेहत्वेऽपि शक्तेस्तैलपदं योगरूढम्। सार्षपादौ तु तैलपदप्रयोगो भाक्त इति भावः। अन्ये तु गन्धरसविशेषाभिव्यङ्ग्यं तैलत्वं जातिः। अतएव घृत-