द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 105, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । ६७ नवनीतं नवं वृष्यं शीतं वर्ण्यबलाग्निकृत् । संग्राहि वातपित्तासृक्क्षयार्शोऽर्दितकासजित् ३८ क्षीरोद्भवन्तु संग्राहि रक्तपित्ताक्षिरोगनुत् ॥३९॥ विकल्प एष दध्यादिः श्रेष्ठो गव्योऽभिवर्णितः । विकल्पानवशिष्टांस्तु क्षीरवीर्य्यं समादिशेत् ॥४०॥ तक्रनिष्पत्त्यनन्तरं नवनीतमुत्पद्यत इति तक्रानन्तरं नव- नीतगुणानाह नवनीतमिति । नवमिति सद्यस्कम् । एतेनाभि- नवस्यैवैते गुणाः प्रकर्षवन्तो भवन्तीति दर्शयति ॥ ३८ ॥ क्षीरमथनोत्थितस्य नवनीतस्य गुणमाह क्षीरोद्भवमिति ॥३९॥ ननु क्षीरं दधि च गव्यादीनां प्रतिप्रतिगुणत उक्तम् । मस्तु तक्रादयस्तु सामान्येनोक्ताः तत् किं गव्यमस्त्वादय एते गुणतो वाच्या न वेत्याशङ्कायामाह विकल्प इति । विकल्पो भेदः प्रकार इति यावत् । दध्यादिरिति । अतद्गुणसंविज्ञान बहु- व्रीहिः । तेन मस्तुतक्रादिरूप इत्यर्थः । श्रेष्ठ इति हेतुगर्भ- विशेषणम् । तेन श्रेष्ठत्वाद्गव्य एवोक्तः । न पुनराजावीप्रभृ- तीनामित्यर्थः । अभिवर्णितः कथितः । यद्येवं छागादिमस्त्वा- दीनां गुणाः कथं ज्ञातव्या इत्याह विकल्पानित्यादि । वीर्य्य- शब्दोऽत्र गुणवचनः । तेन पञ्चमौ ल्यप्लोपे । तेन छागादि- क्षीराणां ये गुणा उक्तास्तान् सुवीक्ष्य तन्मस्तुतक्रादावपि तत्स- दृशान् गुणान् वदेदित्यर्थः । केचिदिमं श्लोकमनार्षमिति वदन्ति । तन्न सम्यक् । यतोऽपठ्यमानेऽस्मिन् श्लोके अजा- दितक्रादिगुणानुक्ते न्यूनता स्यात् । न वा तक्रादिविकल्पस्य सामान्यगुणोक्तिरिति वक्तुं युज्यते । मुख्यतस्परस्परगुणभेदादजा- दितक्राणाम् । अतएवोक्तं वाग्भटेन । ९