द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 106, कुल 176 में से
संदर्भ में पढ़ें६८ द्रव्यगुणः। घृतं बुद्ध्यग्निशुक्रौजोज्ञेदःस्मृतिकफावहम् । वातपित्तविषोन्मादशोषालक्ष्मीजरापहम् । स्नेहोत्तमं योगवाहि सर्वथा मधुरं हिमम् ॥४१॥ गव्यं घृतं घृतश्रेष्ठं चक्षुष्यं बलवर्धनम् । विपाके मधुरं श्रेष्ठं वातपित्तविषापहम् ॥४२॥ माहिषन्तु घृतं स्वादु पित्तास्रानिलनुद्धिमम् ॥४३॥ छागं घृतन्तु चक्षुष्यं लघ्वग्निबलवर्धनम् ॥ ४४ ॥ आविकादीनि सर्पींषि बुद्ध्वा स्वक्षीरवद्वदेत् ॥४५॥ सर्पिः पुराणं तिमलप्रतिश्यातिमिरपहम् । विद्याद्दधिघृतादीनां गुणदोषान् यथा पय इति ॥ ४० ॥ नवनीतसम्भवात् घृतस्य नवनीतानन्तरं घृतगुणमाह घृत- मिति । कफावहमिति कफकरम् । यत्तु त्रिदोषापकर्षणमिति सुश्रुतेनोक्तम् तत् संस्कारेण कफहरत्वादिति ज्ञेयम् । अत- एव चरकेऽपि संस्कारात्तु जयेत् कफमित्युक्तम् । योगवाहीति यैर्यैर्द्रव्यैः संस्क्रियते तेषां तेषामेव गुणानावहतीत्यर्थः । सर्वथा मधुरमिति रसे पाके च मधुरमित्यर्थः । तथा सर्वथा हिमं निपातेऽधिवासे च शीतमित्यर्थः । न तु काञ्जिकादिवत् निष्पा- तमात्रे शीतमित्यर्थः ॥ ४१ ॥ इदानीं विशिष्टघृतगुणमाह गव्यमिति । अत्र सामान्य- गुणाभिहितमधुरत्वादेः पुनरभिधानमुत्कर्षार्थम् । अत्र द्वितीयं श्रेष्ठमिति पदं चक्षुष्यमित्यादिषु सर्वत्रैव योज्यम् । श्रेष्ठमित्य- तिशयेन चक्षुष्यमतिशयेन बलवर्धनमित्यादि ॥ ४२ ॥ अनुक्तसर्पिर्गुणमतिदेशेनाह आविकादीनीति ॥ ४५ ॥