द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 104, कुल 176 में से
संदर्भ में पढ़ें६६ द्रव्यगुणः । ग्राहिणी वातला रूक्षा विज्ञेया तक्रकूर्चिका ॥३४ तक्रान्लघुतरो मण्डः कूर्चिकादधितक्रजः ॥३५॥ किलाटोऽनिलहा वृष्यः कफनिद्राकरो गुरुः ॥३६ मधुरो बृंहणस्तद्वत् पीयूषोऽपि स मोरटः ॥३७॥ तक्रस्य हेत्वन्तरग्रथितस्य घनो भागस्तक्रकूर्चिकेत्युच्यते तद्गुणमाह ग्राहिणीति ॥ ३४ ॥ तक्रकूर्चिकादधिकूर्चिकाभ्यां जातस्य मस्तुनेो गुणविशेषमाह तक्रादिति । मण्ड इति मस्तु तस्य विशेषणं कूर्चिकादधि- तक्रज इति कूर्चिकाभूतं यद्दधि कूर्चिकाभूतञ्च यत्तक्रं ताभ्यां जातो मण्डस्तक्रान्लघुतर इत्यर्थः । दधिकूर्चिकालक्षणं यथा ॥ दध्ना सह पयः पक्वं सा भवेद्दधिकूर्चिका ॥ ये तु दधिकूर्ची च तक्रवदिति पठन्ति तन्मते दधि- कूर्चिका तक्रवदिति तक्रकूर्चिकासमानगुणा अन्ये दधिकूर्चिका तक्रज इति पठन्ति व्याचक्षते च ॥ प्रकृतदधिजस्तथा कूर्च्चि- काभूतदधिजः तथा कूर्चिकाभूततक्रजश्च मण्ड इति मस्तुत्रय- स्यायं गुणनिर्देश इति ॥ ३५ ॥ कूर्चिकाप्रस्तावात् क्षीरकूर्चिकागुणमाह किलाट इति । नष्टक्षीरपिण्डं यमाहुर्लोकाः क्षीरसा इति ॥ ३६ ॥ पीयूषमोरटयोर्गुणमाह मधुर इति । तद्वदिति किलाट- तुल्यः । पीयूषमोरटयोर्लक्षणं यथा क्षीरं सद्यः प्रसूतायाः पीयूषमिति संज्ञितम् । सप्तरात्रात् परं क्षीरमप्रसन्नञ्च मोरटम् ॥ इति । जेज्जड़स्तु मोरटस्थाने मोरगं पठन्ति व्याचष्टे च । मोरगो नष्टक्षीरद्रवभाग इति ॥ ३७ ॥