द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 126, कुल 176 में से
संदर्भ में पढ़ें११८ द्रव्यगुणः । भृष्टतण्डुलजोऽत्यर्थमन्यथा स्याद् गुरुश्च सः ॥२॥ मण्डस्तु भूरिदोषघ्नो दीपनोऽनिलनाशनः । ज्वरहा परमो बल्यः स्वेदनो मार्गशोधनः ॥३॥ लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः । वातानुलोमनो हृद्यः पिप्पलीनागरान्वितः ॥४॥ आहारगुणमभिधाय ओदनस्य प्रायेण सर्वजनोपयोज्यत्वात् प्रथमं तद्गुणमाह ओदन इति । क्षालित इति प्रक्षालिततण्डुल- कृतः । स्विन्न इत्युत्स्विन्नधान्यतण्डुलकृतः । किं वा सम्यक् स्विन्नत्वेन मृदुभूतः प्रस्रुत इति प्रस्रावितद्रवभागः । विशद इति स्वभावेन । तथा कण्डनेन च शुक्लं यत्तण्डुलं तत्कृतः एवम्भूत ओदनो लघुर्भवति । भृष्टतण्डुलजस्तु अत्यर्थं लघुः । अन्यथा इति क्षालितादिविपर्य्ययो गुरुर्भवतीत्यर्थः ॥ २ ॥ मण्डगुणमाह मण्ड इति । मार्गशोधन इति स्रोतःशुद्धि- करः ॥ ३ ॥ अत्र पाचनत्वं मण्डस्य दोषशेषं विना नोपपद्यते । सम्यक् शुद्धौ च दोषशेषो नोपपद्यते इति विरोधं पश्यन् अकारप्रश्लेषा- दविशुद्धानां पाचन इति कश्चिदाह । तन्न चरकविरोधात् । तत्र हि क्षुत्पिपासापहः पथ्यः शुद्धानान्तु मलापह इत्युक्तम् । न च तत्रापि शुद्धानां मलापह इत्यनुपपत्त्या शुद्धानामित्यस्य ईष- च्छुद्धानामित्यर्थो व्याख्येय इति वाच्यम् । सम्यक् शुद्धानामपि घृतभाण्डावलेपन्यायेन कोष्ठोपलेपकदोषापहत्वेन मलापह- त्वोपपत्तेः । तस्मात् सुश्रुतेऽपि यत् पाचनत्वमुक्तं लाजमण्डस्य तत् सति दोषशेषे इति ज्ञेयम् । सम्यक् शुद्धौ च पथ्यत्वदीप-