द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 127, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणाः । ११८ पेया स्वेदाग्निजननी वातवर्चोऽनुलोमनी । क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा ॥ ५ ॥ विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता । व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिनाम् ॥ ६ ॥ यवागूज्ज्वरतृष्णाघ्नी लघ्वीवस्तिविशोधनी ॥ ७ ॥ सिक्थकैरहितो मण्डः पेया सिक्थसमन्विता । नत्वाभ्यामेवास्योपयोगः । अपि च । मण्डोऽप्यतिद्रवा पेयेव । सा च ईषद्विशुद्धे निषिद्धा । यथा । कफपित्ते विशुद्धेऽल्पं मद्यपे वातपैत्तिके । तर्पणादिक्रमः कार्य्यः पेयाभिष्यन्दयेद्धितान् ॥ तेनाकारप्रश्लेषो न युक्त इति ॥ ४ ॥ द्विधा हि यवागूः पेयाविलेपीभेदात् । तत्र पेयागुणमाह पेयेति ॥ ५ ॥ विलेपीगुणमाह विलेपीति ॥ ६ ॥ विशिष्टयवागूगुणमभिधाय यवागूसामान्यगुणमाह यवागू- रिति ॥ ७ ॥ उक्तानामिव मण्डादीनां लक्षणमाह सिक्थकैरिति । तत्र द्रवसिक्थसमन्विता यवागूरिति यवागूसामान्यलक्षणम् । सा च द्विविधा पेयाविलेपीभेदात् । मण्डस्तु यवाग्वा एवोपरितनो भागो न तु पृथङ्मण्डः साध्यते । आयुर्वेदशास्त्रे अदर्शितत्वात् । यस्तु क्वचिन्मण्डगुणो मण्डोपयोगो वा श्रूयते सोऽप्येवंरूप एव बोध्यः । ननु मण्डो हि चतुर्दशगुणजलसाध्यः यवागूस्तु षड्- गुणसाध्या । यदुक्तम् । अन्नं पञ्चगुणे साध्यं विलेपी च चतुर्गुणे ।