द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 128, कुल 176 में से
संदर्भ में पढ़ें१२० द्रव्यगुणः । यवागूर्बहुसिक्था स्याद् विलेपी विरलद्रवा ॥८॥ मण्डपेयाविलेपीनामोदनस्य च लाघवम् । यथापूर्वं शिरस्तत्र मण्डो वातानुलोमनः ॥ ६ ॥ मण्डश्चतुर्दशगुणे यवागूः षड्गुणेऽम्भसि ॥ इति । तत्कथमुच्यते यवाग्वा एवोपरितनो भागो मण्ड इति । नैवं तत्र यवागूशब्देन पेया विवक्षिता । अतएव पेयायाः पृथग् जलं नोक्तम् । द्रवसिकथसमन्वितत्वं हि यवागूसामान्यलक्ष- णम् । तेन चतुर्दशगुणसाध्यस्यापि मण्डस्य सिक्थसमन्विताव- स्थायां यवागूत्वमेव । तेन सूक्तं यवाग्वा उपरितनो भागो मण्ड इति । पेया इति पातुं योग्या एतेनान्वर्थसंज्ञया बहुद्रवत्वमल्प- सिक्थत्वञ्च बोध्यम् । तेन सिक्थसमन्विता यवागूः पेयेति । पेयालक्षणे बहुद्रवत्वमल्पसिक्थत्वञ्च लक्षणतया बोध्यम् । तथा विरलद्रवा बहुसिक्था च यवागूर्विलेपीति विलेपीलक्षणमव- गन्तव्यम् । विरलद्रवा अल्पद्रवेत्यर्थः । तेन पेयाविलेपी व्यति- रेकेण यवागूः पृथङ् नास्तीत्याहुः । एतेन चरकवाग्भटसुश्रुतै- रपि यवागूगुणः पृथङ्नोक्तः । यत्तु माधवचक्राभ्यां पेयाविलेपी- गुणं पठित्वा यवागूगुणः पृथक् पठितः, तत्सामान्यगुणाभि- प्रायेण सामान्यक्षीरगुणवदिति ज्ञेयम् ॥ ८ ॥ उक्तानामेव मण्डादीनामापेक्षिकं लाघवमाह मण्डेति । यथापूर्वं लाघवमिति तेनौदनमपेक्ष्य लघ्वी विलेपी ततोऽपि पेया पेयातो मण्डो लघुतर इत्यर्थः । यद्यपि वातानुलोमनत्वं मण्डस्य पूर्वमुक्तं तथापि सम्पूर्णश्लोकानुरोधात् अत्र पुनः पठति । इदं हि वचनं वाग्भटस्य । अत्र यवाग्वादिसाधन- परिभाषाश्च सव्याख्याना अस्मदीयचरकतत्त्वदीपिकायामनु- सन्धेया विस्तरभयाच्चेह नोक्ताः ॥ ९ ॥