द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 129, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । १२१ पायसः कफकृद्वल्यो विष्टम्भी मेदुरो गुरुः ॥१०॥ कृशरा पित्तकफदा वल्या मारुतनाशिनी ॥११॥ अन्नं मांसादिभिः सार्द्धं सिद्धं स्याद् गुरु बृंहणम् १२ रसौदनो ज्वरहरी बल्यो ग्राह्यनिलापहः ॥१३॥ घोलभक्तं श्रमार्त्तिघ्नं रुच्यं तर्पणदीपनम् ॥१४॥ सद्योऽन्नं वारिणा धौतं शीघ्रपाकं बलप्रदम् । शीतलं मधुरं रुच्यं श्रमघ्नं तर्पणं परम् ॥ १५ ॥ पानीयभक्तं व्युषितं मेदःस्वेदकफप्रदम् । त्रिदोषकोपनं रूक्षं मलकृत् मूत्रलं परम् ॥१६॥ सुस्विन्नो निस्तुषो भृष्ट ईषत्सूपो लघु र्हितः ॥१७॥ विलेपीभेदस्य पायसस्य गुणमाह पायस इति । क्षीरकृता हि विलेपी पायसः ॥ १० ॥ कृशरागुणमाह कृशरेति । कृशरा तु तिलतण्डुलमाषकता यवागूः । उक्तं हि तिलतण्डुलमाषैस्तु कृशरा विश्रयेति च ॥ ११ ॥ अन्नस्य द्रव्यविशेषसंयोगाद् गुणविशेषं दर्शयन्नाह अन्न- मिति ॥ १२ ॥ त्रिदोषकोपनमित्युक्तापि कफप्रदमिति वचनं विशेषार्थम् ॥ १६ ॥ अन्नानन्तरं व्यञ्जनप्रधानं सूपमाह सुस्विन्न इति । ईषद्- भृष्ट इति सम्बन्धः । ये तु माससूप इति पठन्ति ते मुद्गादि- सूपानां प्रकृतिलाघवेनैव लघुत्वं लब्धं तेन गुरोरपि माषस्य सुस्विन्नत्वादिना लघुत्वमुच्यत इत्याहुः ॥ १७ ॥ ११