द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 48, कुल 176 में से
संदर्भ में पढ़ें४० द्रव्यगुणः । कूर्मादयः स्वादुपाकरसा वल्यानिलापहाः । शीताः स्निग्धा हिताः पित्ते वर्चस्याः श्लेष्मवर्द्धनाः२८ कृष्णः कर्कटकस्तेषां वल्यः कोष्णोऽनिलापहः । शुक्रसन्धानकृत् सृष्टविण्मूत्रोऽनिलपित्तहा ॥२६॥ ——— गोधा विपाके मधुरा कषायकटुका रसे । वातपित्तप्रशमनी बृंहणी बलवर्द्धिनी ॥ १ ॥ शल्यकः खादुपित्तघ्नो लघु शीतो विषापहः ॥२॥ मूषिको मधुरः स्निग्धो व्यवायी शुक्रवर्द्धनः ॥३॥ दुर्नामानिलदोषघ्नः कृमितूषीविषापहः । चक्षुष्या मधुराः पाके सर्पा मेधाग्निवर्द्धनाः ॥४॥ जङ्घाला वातपित्तघ्नास्तीक्ष्णा वस्तिविशोधनाः । कादम्बो नीलवर्णः कलहंस इत्युच्यते । बलाका वकभेद एव ॥ २७ ॥ ——— विलेशयानां गुणमाह गोधेत्यादि ॥ १ ॥ मूषिक इति । व्यवायी अखिलं देहं व्याप्य गच्छति पाकम् । उक्तञ्च व्यवायी देहमखिलं व्याप्य पाकाय कल्पत इति । अयञ्च सरगुणस्यैव प्रकर्षः ॥ ३ ॥ इदानीमनुक्तमांसगुणसंग्रहार्थं तत्तदुपाधिना वर्गीकृत्य वर्ग- भेदेन मांसगुणा वाच्याः । तत्र समासतो द्विविधा मांसजातयः जाङ्गला आनूपाश्च । तत्र जाङ्गलवर्गोऽष्टविधः । त