द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 49, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः। ४१ कषायमधुराश्चैव लघवो बलवर्धनाः ॥ ५ ॥ विष्किरा मधुराः शीताः कषाया लघुपाकिनः ॥ ६ ॥ प्रतुदाः कषायमधुराः श्लेष्मपित्तहरा हिमाः । बद्धमूत्रमला रूक्षाः फलाहारानिलावहाः ॥ ७ ॥ जङ्गाला विष्किराः प्रतुदा गुहाशयाः प्रसह्याः पर्णमृगा विले- शया ग्राम्याश्चेति । तत्र एणहरिणतरक्षुप्रभृतयो जङ्गालाः । प्रसस्तजङ्घावत्त्वेनैषा संज्ञा जङ्गालशब्दश्च वेगवति रूढः । चञ्चु- चरणाभ्यां विकीर्य्य भक्षणाद्विष्किराः । ते च वर्त्तकमयूरकुकु- टादयः । तथा प्रतुद्य बहुधा अभिहत्य भक्षयन्तीति प्रतुदाः । ते च कोयष्टिकशारिकाभृङ्गराजशुकप्रभृतयः । सिंहव्याघ्रा- दयो गुहाशयाः । प्रसह्य हठादाकृष्य भक्षयन्तीति प्रसह्याः । ते च काककङ्ककुररश्येनगृध्रप्रभृतयः । प्रायः पर्णवति वृक्षे चरन्तीति पर्णमृगाः । ते च वृक्षशायिका वानरमानुष्यासर्प- प्रभृतयः । वृक्षशायिका वृक्षमूषिकाः कटा इति प्रसिद्धाः । विले शेरते विलेशयास्ते च शल्यकगोधामूषिकप्रभृतयः । प्रायो ग्रामे चरन्तीति ग्राम्याः । ते च छागमेषादयः । आनूपवर्गस्तु पञ्चविधः । तद्यथा कूलचराः प्लवाः कोषस्थाः पादिनो मत्स्या- श्चेति । कूले पानीयसमीपे चरन्तीति कूलचराः । ते च गज- गवयमहिषप्रभृतयः । जले प्लवन्तीति प्लवाः । ते च हंससार- सक्रौञ्चचक्रवाकप्रभृतयः । कोषे तिष्ठन्तीति कोषस्थाः । ते च शङ्खशुक्तिशम्बूकप्रभृतयः । पादवन्तः पादिनः । ते च कूर्मकुम्भीर- कर्कटप्रभृतयः । मत्स्याः प्रसिद्धाः । एतेषां क्रमेण सामान्य- गुणं निर्दिशन्नाह जङ्गाला इत्यादि ॥ ५ ॥ फलेनाहारीभूतेनानिलमावहन्तीत्यर्थः । फलाहारा मरुत्करा शुकाः