भारतकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 59, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 59

˙द्रव्यगुणः। ५१ स्वादुपाकरसा हृद्या वातपित्तमदापहा ॥ १३ ॥ सुनिषण्णन्तु संग्राही अविदाहि त्रिदोषनुत् ॥१४॥ मारिषो मधुरः शीतो विष्टम्भी गुरुपित्तनुत् ॥१५॥ पालङ्गा बह्वविण्मूत्रा कफघ्नी तण्डुलीयवत्॥१६॥ कासमर्दोऽग्निदः कण्ठ्यः स्वादुस्तिक्तस्त्रिदोषनुत् ॥१७॥ कालशाकं गरश्लेष्मशोथघ्नं दीपनं कटु ॥ १८ ॥ कलायपत्रं मधुरं रूक्षं भेदि च वातलम् ॥१९॥ सतीलकं त्रिदोषघ्नं कटुपाकं सतिक्तकम् ॥२०॥ सुनिषण्णकं सुसुनिया इति ख्यातम्। ब्रह्मदेवस्तु तल्ल- क्षणमाह। चाङ्गेरीसदृशैः पत्रैः सुनिषण्णं चतुर्दलम्। शाको जलान्विते देशे चतुष्पत्रीति सूच्यते ॥ १४ ॥ तण्डुलीयवदित्यनेन मधुररसपाकत्वादिकमतिदिश्यति। अस्याश्च कफहरत्वं रूक्षत्वादिप्रकर्षात् ॥ १६ ॥ अस्य च त्रिदोषहरत्वेऽपि विशेषात् पित्तहरत्वं बोध्यम्। यदाह सुश्रुतः। मधुरः कफवातघ्नः पाचनः कण्ठशोधनः। विशेषतः पित्तहरः सतिक्तः कासमर्दक इति ॥ १७ ॥ कलायस्त्रिपुटकलायः। सतीलाख्यस्य वक्ष्यमाणत्वात् ॥१९॥ सतीलको वर्त्तुलकलायः। अस्य च त्रिदोषहरत्वेऽपि विशे- षात् कफपित्तहरत्वं ज्ञेयम्। कफपित्तहरं तिक्तं शीतं कटु विपच्यते।