भारतकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 60, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 60

५२ द्रव्यगुणः। षाणकं दुर्जरं स्वादु कौसुम्भन्तु कफापहम् ॥२१॥ पुवर्नवायुग्ममुष्णावीर्य्यं रसायनं सरम् । कफानिलामदुर्नामव्रध्नशोथोदरापहम् ॥ २२ ॥ कञ्चटं तिक्तकं ग्राहि रक्तपित्तापहं स्मृतम् ॥२३॥ चाङ्गेरी तु कषायोष्णा मधुरा वह्निदीपनी । साम्ला वातकफौ हन्ति ग्रहण्यर्शीविकारनुत् ॥२४॥ चुक्रकं दुर्जरं भेदि अम्लं पित्तकरं गुरु ॥ २५ ॥ कलम्बिका गुरुर्वृष्या कषाया स्तन्यवृद्धिदा ॥२६॥ सार्षपं गुरु शाकञ्च बद्धमूत्रं त्रिदोषकृत् ॥ २७ ॥ ग्रीष्मसुन्दरकस्तिक्तो रोचनः कफपित्तनुत् ॥२८॥ नाड़ीचः पिच्छिलः शीतो विष्टम्भी वातकोपनः । रक्तपित्तहरः स्वादुर्मण्डूक्यद्याश्च तद्गुणाः ॥२६॥ पटोलपत्रं पित्तघ्नं नालं तस्य कफापहम् । फलं तस्य त्रिदोषघ्नं मूलं तस्य विरेचनम् ॥३०॥ निम्बः पित्तकफच्छर्दिव्रणहृल्लासकुष्ठनुत् ॥३१॥ पर्पटस्तु सवेत्राग्रस्तिक्तः पित्तकफापहः ॥ ३२ ॥ इति चरकसंवादात् ॥ २० ॥ स्वादिति । रसतः पाकतश्च । कफापहमिति कफहरम् ॥२१॥ चाङ्गेरीगुणे साम्लेति ईषदम्ला ॥ २४ ॥ मण्डूकी मण्डूकपर्णी मणिमणीतिख्याता । आदिशब्दाद् गोजिह्वादीनां ग्रहणम् । गोजिह्वा दार्वीशाकः ॥ २६ ॥