द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 61, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणाः। ५३ त्रिदोषशमनी वृष्या काकमाची रसायनी। नात्युष्णा शीतवीर्य्या च भेदनी कुष्ठनाशिनी ॥३३॥ वायुं वत्सादिनी हन्यात् पित्तघ्नी तु सुवर्चला ॥३४॥ राजक्षवकशाकन्तु त्रिदोषशमनं लघु । ग्राहि शस्तं विशेषेण ग्रहण्यर्शोविकारिणाम् ॥३५॥ दीपनाः कफवातघ्नाश्चिरबिल्वाङ्कुराः सराः ॥३६॥ न्यग्रोधोदुम्बराश्वत्थप्लचपद्मादिपल्लवाः । कषायस्तम्भनाः शीता हिताः पित्तातिसारिणाम्३७ अवलगुजः कटुः पाके तिक्तः पित्तकफापहः ॥३८॥ वार्त्ताकं कटु तीक्ष्णोष्णं मधुरं कफवातजित् । वत्साद्नी गुडूची। अस्याश्च पित्तकफहन्तृत्वं बोध्यम् । तदुक्तं सुश्रुते । अटरूषकवेत्राग्रगुडूचीनिम्बपर्पटाः । किराततिक्तसहितास्तिक्ताः पित्तकफापहाः ॥ इति। अन्ये तु पत्रप्रधाने गुडूचीशाके तिक्तरसप्राधान्यात् पित्तकफहरत्वमेवेत्याहुः । सुवर्चला सूर्य्यावर्त्तभेदः। अन्येतु मारिषसदृशनालमार्त्तगलसदृशपत्रं लम्पकमाहुः ॥ ३४ ॥ राजक्षवको दुग्धिका। अन्येतु राजक्षवको बृहत्पत्रः क्षवयुकारक इत्याहुः ॥ ३५ ॥ चिरबिल्वः करञ्जकः ॥ ३६ ॥ अवलगुजो बागुजोत्यन्नम् ॥ ३८ ॥ जीर्णमिति परिणतम्। अत्र जीर्णं पित्तलमित्यनेना- परिणतस्यापि पित्ताविरोधित्वमिति बोधयति। अतएव माध-