द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 62, कुल 176 में से
संदर्भ में पढ़ें५४ द्रव्यगुणः। रोचनं वह्निजननं जीर्णन्तु पित्तलं मतम् ॥ ३६॥ कण्डूकुष्ठक्रिमिघ्नानि कफवातहराणि च । फलानि बृहतीनान्तु कटुतिक्तलघूनि च ॥४०॥ कारवेल्लः सकर्कोटो रोचनः कफपित्तनुत् ॥४१॥ कूष्माण्डकं पित्तहरं बालं मध्यं कफावहम् । पक्वं लघूष्णं सक्षारं दीपनं वस्तिशोधनम् ॥ सर्वदोषहरं हृद्यं पथ्यञ्चेतोविकारिणाम् ॥४२॥ सक्षारा मधुरा रूक्षा रुच्या वातकफापहा । वेन वार्त्ताकगुणे हृद्यं रुच्यमपित्तलमित्युक्तम् । अन्ये तु पठन्ति सा बाला कफपित्तघ्नी पक्वा सक्षारपित्तला । सदाफला त्रिदोषघ्नी रक्तपित्तप्रसादनी ॥ ३६ ॥ अन्ये तु कण्टकारीफलं पृथगेव पठन्ति ॥ ४० ॥ कारवेल्लः स्वनामख्यातः । कर्कोटो बृहत्कर्कोटोऽल्प- कर्कोटी च ॥ ४१ ॥ कूष्माण्डस्य बालावस्थाभेदेन गुणमाह कूष्माण्डकमिति । मध्यस्य कफावहत्वेन वातपित्तहरत्वं सूच्यते । यदाह वाग्भटः कूष्माण्डं वातपित्तजित् । अतएव कफमावहति करोतीति कफावहमिति डल्लनोऽप्याचष्टे । अयन्तु सौश्रुतः श्लोकः । पक्व- मित्यत्र शुक्रमिति पठ्यते । तथापि स एवार्थः । पक्वस्य शुक्ल- वर्णत्वात् चक्रेण स्पष्टार्थं पक्वमित्युक्तम् । सर्वदोषहरमिति सर्वग्रहणं रक्तोपसंग्रहार्थम् । सर्वदोषसहमित्यन्ये पठन्ति । अत्रायमर्थः न करोति न वा शमयतीत्यर्थ इति निबन्धसंग्रह- कृतः । चेतोविकारा अपस्मारादयः ॥ ४२ ॥