भारतकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 63, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 63

द्रव्यगुणः। ५५

अश्मरीभेदनी गुर्वी नाडी कूष्माण्डसम्भवा ॥४३॥ एर्वारुकं सकर्कारु सुपक्वं कफवातकृत् । सक्षारं मधुरं रुच्यं दीपनं नातिपित्तलम् ॥४४॥ बालं सनीलं त्रपुषं तेषां पित्तहरं स्मृतम् । तत् पाण्डुकफकृज्जीर्णमम्लं वातकफापहम् ॥४५॥ शीर्णवृन्तं कफहरं सक्षारं मधुरं हि तत् । भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघु ॥ ४६ ॥ अलावुः शीतला रूक्षा गुर्वी वर्चःप्रभेदिनी ॥४७॥ अलावुनाड़िका गुर्वी मधुरा पित्तनाशिनी । वातश्लेष्मकरी रूक्षा शीतला मलभेदिनी ॥४८॥ तिक्तालाबुरहृद्या तु वामनी वातपित्तजित् ॥४९॥

कफवातकृदिति कफवातकरम्। एर्वारुकं लोमशाकं कर्कोटीति डल्लनः। राजकर्कोटीत्यन्ये। फुटोति संज्ञया गौड़े प्रसिद्धमिति त्रिविक्रमः। कर्कारु कर्काटीभेदः ॥ ४४ ॥ त्रपुषं मायाम्बु। सनीलमिति नीलावस्थम्। बालमित्य- भिनवम्। पाण्ड्विति पाण्डुवर्णं मध्यावस्थमित्यर्थः। कफकृत् कफकरं जीर्णमिति परिणतम् ॥ ४५ ॥ शीर्णवृन्तं सुखाग्रकमिति चक्रः। अत्र शीर्णमित्यादिः मधुरं हितमित्यन्तो बालस्य गुणः। भेदनं दीपनं हृद्यमिति मध्यस्य आनाहाष्ठीलनुल्लघ्विति जीर्णस्येति निबन्धसंग्रहः। अत्राष्ठीला मूत्राष्ठीला न तु वाताष्ठीला। अस्या वातप्रशमक- त्वादिति चक्रः ॥ ४६ ॥

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश) · पृष्ठ 63, कुल 176 में से · BharatKosha