द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 63, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः। ५५
अश्मरीभेदनी गुर्वी नाडी कूष्माण्डसम्भवा ॥४३॥ एर्वारुकं सकर्कारु सुपक्वं कफवातकृत् । सक्षारं मधुरं रुच्यं दीपनं नातिपित्तलम् ॥४४॥ बालं सनीलं त्रपुषं तेषां पित्तहरं स्मृतम् । तत् पाण्डुकफकृज्जीर्णमम्लं वातकफापहम् ॥४५॥ शीर्णवृन्तं कफहरं सक्षारं मधुरं हि तत् । भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघु ॥ ४६ ॥ अलावुः शीतला रूक्षा गुर्वी वर्चःप्रभेदिनी ॥४७॥ अलावुनाड़िका गुर्वी मधुरा पित्तनाशिनी । वातश्लेष्मकरी रूक्षा शीतला मलभेदिनी ॥४८॥ तिक्तालाबुरहृद्या तु वामनी वातपित्तजित् ॥४९॥
कफवातकृदिति कफवातकरम्। एर्वारुकं लोमशाकं कर्कोटीति डल्लनः। राजकर्कोटीत्यन्ये। फुटोति संज्ञया गौड़े प्रसिद्धमिति त्रिविक्रमः। कर्कारु कर्काटीभेदः ॥ ४४ ॥ त्रपुषं मायाम्बु। सनीलमिति नीलावस्थम्। बालमित्य- भिनवम्। पाण्ड्विति पाण्डुवर्णं मध्यावस्थमित्यर्थः। कफकृत् कफकरं जीर्णमिति परिणतम् ॥ ४५ ॥ शीर्णवृन्तं सुखाग्रकमिति चक्रः। अत्र शीर्णमित्यादिः मधुरं हितमित्यन्तो बालस्य गुणः। भेदनं दीपनं हृद्यमिति मध्यस्य आनाहाष्ठीलनुल्लघ्विति जीर्णस्येति निबन्धसंग्रहः। अत्राष्ठीला मूत्राष्ठीला न तु वाताष्ठीला। अस्या वातप्रशमक- त्वादिति चक्रः ॥ ४६ ॥