द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 64, कुल 176 में से
संदर्भ में पढ़ें५६ द्रव्यगुणः । कुमुदोत्पलनालास्तु सपुष्पाः सफलाः स्मृताः । शीताः स्वातुकषायाश्च कफमारुतकोपनाः ॥५०॥
हस्तिमध्वालुकादीनि रक्तपित्तहराणि च । गुरूणि स्वादुशीतानि स्तन्यशुक्रकराणि च ॥१॥ विदारीकन्दो बल्यश्च वातपित्तहरश्च सः । मधुरो बृंहणो वृष्यः शीतः स्वर्य्योऽतिमूत्रलः ॥२॥ वातपित्तहरी वृष्या स्वादुतिक्ता शतावरी । महती सैव हृद्या च मेधाग्निवलवर्द्धिनी ॥ ग्रहयर्शोविकारघ्नी वृष्या शीता रसायनी । कफपित्तहरास्तिक्तास्तस्या एवाङ्कुराः स्मृताः ॥३॥ तरूटविसशालूकक्रौञ्चादनकशेरुकम् । शृङ्गाटकाङ्गालोडाञ्च गुरु विष्टम्भि शीतलम् ॥४॥ कन्दगुणमाह हस्तीत्यादि । हस्त्यालुकं मध्वालुकञ्च स्वना- मख्यातम् ॥ १ ॥ विदारीकन्दो द्विविधः अल्पबहुक्षीरभेदेन । तत्राल्पक्षीरः हस्तिपादक इति ख्यातः । बहुक्षीरस्तु दीर्घमूलस्तस्य कन्दो भूमिकुष्माण्ड इति लोके ॥ २ ॥ महदल्पभेदेन शतावरी द्विविधा तस्या एवेति शतावर्या इत्यर्थः ॥ ३ ॥ तरूटकं कह्लारकन्दः । क्रौञ्चादनं घेचुलुका । अङ्ग्लोद्यं ह्रस्वोत्पलकन्दः । शृङ्गाटकं फलमपि कशेरुकादिकन्दगुण-