द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
५६ द्रव्यगुणः । कुमुदोत्पलनालास्तु सपुष्पाः सफलाः स्मृताः । शीताः स्वातुकषायाश्च कफमारुतकोपनाः ॥५०॥
हस्तिमध्वालुकादीनि रक्तपित्तहराणि च । गुरूणि स्वादुशीतानि स्तन्यशुक्रकराणि च ॥१॥ विदारीकन्दो बल्यश्च वातपित्तहरश्च सः । मधुरो बृंहणो वृष्यः शीतः स्वर्य्योऽतिमूत्रलः ॥२॥ वातपित्तहरी वृष्या स्वादुतिक्ता शतावरी । महती सैव हृद्या च मेधाग्निवलवर्द्धिनी ॥ ग्रहयर्शोविकारघ्नी वृष्या शीता रसायनी । कफपित्तहरास्तिक्तास्तस्या एवाङ्कुराः स्मृताः ॥३॥ तरूटविसशालूकक्रौञ्चादनकशेरुकम् । शृङ्गाटकाङ्गालोडाञ्च गुरु विष्टम्भि शीतलम् ॥४॥ कन्दगुणमाह हस्तीत्यादि । हस्त्यालुकं मध्वालुकञ्च स्वना- मख्यातम् ॥ १ ॥ विदारीकन्दो द्विविधः अल्पबहुक्षीरभेदेन । तत्राल्पक्षीरः हस्तिपादक इति ख्यातः । बहुक्षीरस्तु दीर्घमूलस्तस्य कन्दो भूमिकुष्माण्ड इति लोके ॥ २ ॥ महदल्पभेदेन शतावरी द्विविधा तस्या एवेति शतावर्या इत्यर्थः ॥ ३ ॥ तरूटकं कह्लारकन्दः । क्रौञ्चादनं घेचुलुका । अङ्ग्लोद्यं ह्रस्वोत्पलकन्दः । शृङ्गाटकं फलमपि कशेरुकादिकन्दगुण-
द्रव्यगुणः। ५७ पिण्डालुकं कफहरं गुरु वातप्रकोपणम् ॥ ५ ॥ वज्राख्यकन्दः श्लेष्मघ्नः कटुपाकश्च पित्तकृत् ॥ ६॥ वेणोः करीराः कफला मधुरा रसपाकतः । विदाहिनो नातिबलाः सकषाया विरूक्षणाः ॥ ७॥ ऐन्दुकञ्च नदीमाषं विषदं गुरु शीतलम् ॥ ८ ॥ शूरणो दीपनो रुच्यः कफघ्नो विशदो लघुः । विशेषादर्शसां पथ्यो भूकन्दस्त्वतिदोषलः ॥६॥ माणकं स्वादु शीतञ्च गुरु चापि प्रकीर्त्तितम् । १०॥ कदल्या वलकृन्मूलं वातपित्तापहं गुरु ॥ ११ ॥ आमवातकरी कच्ची कफकृद्गुरुपिच्छला ॥१२॥ सामान्यादिहैव पठ्यते । कशेरुकं द्विविधं क्षुद्रं महच्च । तत्र क्षुद्रं चिञ्चोटक इति ख्यातं महत्तु राजकशेरुकम् ॥ ४ ॥ कफं हरतीति कफहरम् ॥ ५ ॥ वज्राख्यकन्दः सुरेन्द्रकन्दः चामघाम इति लोके ॥ ६ ॥ अत्र केचिन्मधुररसपाकस्य विदाहित्वं नोपपद्यत इति कटु- का रसपाकत इति पठन्ति । अन्ये तु मधुरस्यापि विदाहित्व- प्रभावादेव समर्थयन्ति ॥ ७ ॥ ऐन्दुकं निच्चारम् । नदीमाषकम् उन्दोमान इति ख्यातम् । ८॥ शूरणो वनकन्दः । भूकन्द इति ग्राम्यकन्दः । अयमेव सुश्रुते स्थलकन्दसंज्ञया पठ्यते । भूकन्दः प्रावृड्भवः प्रसिद्ध एवेत्यरुणः ॥ ६ ॥ बलकृत् बलकरम् ॥ ११ ॥ कफकृत् कफकरी ॥ १२ ॥
५८ द्रव्यगुणः । वाराहकन्दः श्लेष्मघ्नः कटुको रसपाकतः । मेहकुष्ठक्रिमिहरो बल्यो वृष्यो रसायनः ॥ १३॥ तालस्य नारिकेलस्य खर्जूरस्य शिरांसि च । कषायस्निग्धमधुरबृंहणानि गुरूणि च ॥ १४ ॥ गुवाकस्य शिरस्तद्वद् भेदनं मदकारकम् ॥ १५॥ बालं ह्यनार्त्तवं जीर्णं व्याधितं क्रिमिभक्षितम् । कन्दं विवर्जयेत् सर्वं·यो वा सम्यक् न रोहति ॥ १६॥ शणस्य कोविदारस्य कर्बूदारस्य शाल्मलेः । पुष्पं संग्राहि शस्तञ्च रक्तपित्ते विशेषतः ॥ १७॥ वृषागस्त्यस्य पुष्पाणि क्षयकासापहानि च ॥ १८॥ आगस्त्यं नातिशीतोष्णं नक्तान्धानाञ्च शस्यते ॥ १९॥ राजवृक्षस्य निम्बस्य मुष्ककार्काशनस्य च । कफपित्तहरं पुष्पं कुष्ठघ्नं कुटजस्य च ॥ २० ॥ सतिक्तमधुरं शीतं पद्मं पित्तकफापहम् ॥ २१ ॥ वाराहकन्दो वकालुक इति ख्यातः ॥ १३ ॥ मूलप्रसङ्गेनाग्रगुणमपि केषाञ्चिदाह तालस्येति ॥ १४ ॥ हेयं कन्दमाह बालमिति । न रोहति न जायते ॥ १६ ॥ पुष्पशाकगुणमाह शणस्येति ॥ १७ ॥ आगस्त्यो वङ्गसेनः । तयोर्मध्ये आगस्त्यस्य विशेषगुणमाह आगस्त्यमिति ॥ १८ ॥ राजवृक्षः स्वर्णालुः । निबन्धसंग्रहस्तु रक्तवृक्षस्येति पठि- त्वा रक्तचन्दनस्येति व्याचष्टे । मुष्कको घण्टापारुलौ ॥ २० ॥
द्रव्यगुणः। ५८ मधुरं पिच्छिलं स्निग्धं कुमुदं ह्लादि शीतलम्॥२२ सिन्दुवारं जीवनीयं हिमं पित्तविनाशनम् । यथावृक्षं विजानीयात् कुसुमस्य गुणागुणान् ॥२३॥ छत्रकास्तु पलालिक्षुकरोषचितिरेणुजाः । सर्वे संस्वेदजाः शीताः कषायाः स्वादुपिच्छिलाः ॥ गुरवश्छर्द्यतीसारज्वरश्लेष्मामयप्रदाः ॥ २५ ॥ कर्कशं परिजीर्णञ्च क्रिमिजुष्टमदेशजम् । विवर्जयेत् पत्रशाकं यदकालविरोहि च ॥ २६ ॥ सतीलो वास्तूकश्चुचुश्चिल्लीमूलकपोतिका । मण्डूकपर्णी जीवन्ती शाकवर्गे प्रशस्यते ॥ २७ ॥ धान्येषु मांसेषु फलेषु चैव शाकेषु चानुक्तमिहाप्रमेयात् । सिन्दुवारं निर्गुण्डीपुष्पमिति डल्लन उपसंहरति ॥ २३ ॥ यादृशं पत्रशाकं हेयं तदाह कर्कशमिति ॥ २५ ॥ उक्तेषु प्रधानतमं शाकमाह सतील इति । सतीलो वर्त्तुल- कलायः । चुच्छु चेउ इति लोके । चिल्लो क्षेत्रवास्तुकः । मण्डू- पर्णी मणिमणीतिलोके । ब्राह्मीति डल्लनः । जीवन्ती स्वर्णनाड इति चक्रः । डल्लनस्तु जीवन्ती जीवा तण्डुलीयसहगीत्या- चष्टे ॥ २७ ॥ द्रव्याणामानन्त्यादनुक्तद्रव्यगुणज्ञानोपायमाह धान्येष्विति । फलानि वक्ष्यमाणानि । चकाराद्द्रवद्रव्यकृतान्नादीनां समु-
६० द्रव्यगुणाः । आस्वादतो भूतगुणैर्ग्रहीत्वा तदादिशेद्द्रव्यमनल्पबुद्धिः ॥ २८ ॥ शाकं हिनस्ति वपुरस्थि निहन्ति नेत्रम् वर्णं विनाशयति शुक्रमथासृजञ्च । ओजःक्षयं प्रकुरुते पलितञ्चकाले हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः॥२६॥ ख्यः। इहेति शास्त्रे । अप्रमेयादिति भावपरो निर्देशः। तेना- नन्त्यादित्यर्थः । अयञ्चावचने हेतुः। अत्रैवार्थे चरकोऽप्याह। अन्नपानैकदेशोऽयमुक्तः प्रायोपयोगिकः । द्रव्याणि न हि निर्दिष्टुं शक्यं कार्त्स्न्येन नामभिः ॥ इति । अप्रमोहादिति च क्वचित् पाठः । अन्ये तु अनुक्तमपि प्रमादादिति पठन्ति । तन्न प्रमादोऽनवधानं मिथ्याज्ञानमिति यावत् । तत्तु मुनीनां नास्त्येवेति । आस्वा- दत इति रसतः। रसानां मधुरादीनां ये गुणाः शीतोष्ण- त्वादयः । यानि वा कर्माणि वातादिहरणह्लादनादीनि तैस्तै- र्गुणकर्मभिस्तत्तदनुक्तद्रव्यमादिशेत् ब्रूयादित्यर्थः । भूतगुणै- श्चेति चकारात् पार्थिवादिद्रव्यारम्भकाणां भूतानां ये गुणाः स्थूलसान्द्रत्वादयस्तैर्द्रव्यस्य पार्थिवादिकमवधार्य्य पार्थिवादि- द्रव्यप्रतिबद्धैर्गुणकर्मभिरेव तत्तदनुक्तं द्रव्यमादिशेदित्यर्थः । तत्तद्भूतगुणग्रहणञ्च किञ्चित् प्रत्यक्षतः किञ्चिदुपयुक्तवचनतः । किञ्चिदुपयोगतश्चेति ज्ञेयम् ॥ २८ ॥ इति शाकवर्गः ।
द्रव्यगुणः । ५१ शाकेषु सर्वे निवसन्ति रोगा रोगो हि देहस्य विनाशहेतुः । तस्माद्बुधैः शाकविवर्जनं हि कार्य्यं तथाम्लेषु स एव दोषः ॥ ३० ॥ इति शाकवर्गः । सैन्धवं दीपनं हृद्यं चक्षुष्यं रोचनं लघु । स्निग्धं वृष्यञ्च मधुरं शीतं दोषघ्नमुत्तमम् ॥ १ ॥ सामुद्रं मधुरं पाके नात्युष्णमविदाहि च । भेदनं स्निग्धमीषच्च शूलघ्नं नातिपित्तलम् ॥ २॥ विडं सक्षारतीक्ष्णोष्णं सूक्ष्मं दीपनरोचनम् । शूलहृद्रोगशमनं रुचं वातानुलोमनम् ॥ ३ ॥ सौवर्चलन्तु वीर्य्योष्णं विशदं कटुकं लघु । गुल्मशूलविबन्धघ्नं हृद्यं सुरभि दीपनम् ॥ ४ ॥ सैन्धवादीनां व्यञ्जनसंस्कारकत्वात् शाकानन्तरं लवणादि- वर्गमाह । अत्रापि लवणेषु सैन्धवस्य श्रेष्ठत्वात् प्रथमं तद्गुण- माह सैन्धवमिति । अत्र मधुरमित्यनन्तरं चकारो योज्यः । तेनषण्मधुरत्वं बोध्यते चशब्दसमुचितत्वात् । दोषघ्नमिति त्रिदोषहरम् । उत्तममिति लवणेषु श्रेष्ठम् । उक्तञ्च । त्रिदोषघ्नं समधुरं सैन्धवं लवणोत्तममिति ॥ १ ॥ दक्षिणसमुद्रे भवतीति सामुद्रं करकचलवणम् । २ ॥ विडं कृत्रिमं स्वनामख्यातम् । ३ ॥ ६
६२ द्रव्यगुणः। सौवर्चलगुणाः कृष्णलवणे गन्धवर्जिताः ॥ ५ ॥ सतिक्तं कटु सक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम् ॥ ६ ॥ रोमकं तीक्ष्णमुष्णञ्च व्यवायि कटुपाकि च । वातघ्नं लघु विष्यन्दि सूक्ष्मं विड्भेदि मूत्रलम् ॥ ७ दीपनं पाचनं भेदि लवणं गुड़िकाह्वयम् । कफवातक्रिमिघ्नञ्च लेखनं पित्तकोपनम् ॥ ८ ॥ क्षारास्तु दीपनाः सर्वे रक्तपित्तकराः सराः । गुल्मार्शोग्रहणीदोषशर्कराश्मविनाशनाः ॥ ९ ॥ ज्ञेयौ वह्निसमौ क्षारौ सर्जकायवशूकजौ । शुक्रश्लेष्माविवन्धार्शोगुल्मप्लीहविनाशनौ ॥ १० ॥ सौवर्चलं प्रसिद्धम् ॥ ४ ॥ भुवमुद्भिद्योत्पन्नस्य क्षारोदकस्य सूर्य्यरश्मिभिर्वर्द्धितापाद्वा कयनाद्यल्लवणमुत्पद्यते तदौद्भिदमिति निवन्धसंग्रहः । चक्रस्तु ऊषरदेशोद्भवमुत्चारिकालवणमौद्भिदलवणमित्याह । अन्ये तु पाक्यलवणमौद्भिदमित्याहुः ॥ ६ ॥ रुमा नाम नदी तद्भवं रोमकन् । साम्भरिदेशोत्थं लवणं गड़लवणमिति ख्यातमित्यन्ये । विष्यन्दीति कफस्रावकारक- मिति डल्लनः । सूक्ष्मस्रोतोऽनुसारित्वात् सूक्ष्मम् ॥ ७ ॥ पाक्यलवणविशेषगुड़िकालवणगुणमाह दीपनमिति । पाका- दतिकठिनीभावेन गुड़िकाकारं लवणं गुड़िकालवणम् ॥ ८ ॥ क्षाराणामपि लवणरसत्वात् क्षारगुणानप्यत्रैवाह क्षारा इति ॥ ९ ॥ क्षारविशेषगुणमाह ज्ञेयाविति ॥ १० ॥
द्रव्यगुणः। ६३
अग्निदीप्तिकरस्तीक्ष्णस्तृष्णाघ्नश्चार उच्यते ॥ ११ ॥ आर्द्रकं रोचनं हृद्यं कटूष्णं वृष्यमेव च । कफानिलहरं स्वर्य्यं विबन्धानाहशूलनुत् ॥१२॥ शुण्ठी तु कफवातघ्नी सस्नेहा लघुदीपनी । वृष्योष्णा रोचनी हृद्या विपाके मधुरा कटुः ॥१३॥ पिप्पल्यार्द्रा स्वादुशीता गुर्वी श्लेष्मप्रकोपिणी ॥१४॥ सा शुष्का मधुरा पाके वृष्या पित्तप्रसादनी । स्निग्धोष्णा दीपनी वातश्लेष्मनुच्छ्वासनाशिनी॥१५॥ मरिचं लघु तीक्ष्णोष्णं रूक्षरोचनदीपनम् । रसे पाके च कटुकं कफघ्नं पित्तकोपनम् ॥१६॥ स्वादु पाक्यार्द्रमरिचं गुरु श्लेष्मप्रकोपि च ॥१७॥ आर्द्रकादीनामपि व्यञ्जनसंस्कारकत्वादत्रैव तद्गुणमाह आर्द्रकमिति ॥ ११ ॥ श्लेष्मप्रकोपिणीति स्ववर्गापेक्षया । न श्लेष्मशमनीत्यर्थ इति डल्लनः ॥ १४ ॥ मधुरपाकियतया पित्तं प्रसादयतीति चक्रः । अन्ये तु पित्ताविरोधिनीति पठन्ति । ईषत्पित्तविरोधिनीति च व्याच- क्षते । केचित्तु पित्तकोपिनीति पठन्ति व्याख्यानयन्ति च । सा पित्तशमनी पूर्वं दर्शिता वीर्य्यवादिना । शास्त्रकारेण निर्दिष्टा सा तु पित्तप्रकोपिणी ॥ तच्चार्द्रा पित्तशमनी शुष्का पित्तप्रकोपिणी इति ॥ १५ ॥ मरिचमिति शुष्कमरिचमित्यर्थः ॥ १६ ॥ श्लेष्मप्रकोपीति । श्लेष्मणोऽन्यतश्च तस्य प्रकोपणम् कटु-
६४ द्रव्यगुणः। नात्युष्णं नातिशीतञ्च वीर्य्यतो मरिचं सितम् । गुणवन्मरिचेभ्यश्च चक्षुष्यञ्च विशेषतः ॥ १८ ॥ हिङ्गु तीक्ष्णं कटुरसं शूलाजीर्णविबन्धनुत् । लघूष्णं पाचनं स्निग्धं दीपनं कफवातजित् ॥ १९ जीरकं रुचिकृत्सर्वं गन्धाढ्यं कफवातजित् । तीक्ष्णोष्णं कटुकं पाके कटु पित्ताग्निवर्द्धनम् २० यमानी कृष्णजीरश्च ज्ञेया जीरकवद्गुणैः ॥ २१ ॥ धन्याकं कासतृट्छर्द्दिशमनं चक्षुषोर्हितम् । कषायतिक्तं मधुरं हृद्यं रोचनदीपनम् ॥ २२ ॥ लसुनः क्षारमधुरः पत्रे मधुरपिच्छलः । मध्ये कन्दे तु तीक्ष्णोष्णः कटुपाकरसः सरः ॥ हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो दीपनपाचनः । भग्नसन्धानकृद्वल्यो रक्तपित्तप्रकोपणः ॥ किलासकुष्ठगुल्मार्शोमेहकृमिकफानिलान् । सहिक्कापीनसश्वासकासान् हन्ति रसायनः ॥ २३ ॥ तीक्ष्णोष्णत्वात् करोतीति चक्रः। ये तु चयमपि श्लेष्मणो वदन्ति तदनुभवविरुद्धम् । डल्लनस्तु श्लेष्मप्रसेकि चेति पठति ॥ १७ ॥ सितं मरिचं शोभाञ्जनबीजम् । अन्ये तु मरिचमेव शुक्लं वदन्ति ॥ १८ ॥ सर्वमिति । शुक्लपीतभेदाज्जीरकद्वयमिति चक्रः ॥ २० ॥ कृष्णजीरः कारवी ॥ २१ ॥
द्रव्यगुणः। १६ पलाण्डुर्मधुरो वृष्यः कटुः स्निग्धोऽनिलापहः । बल्यः पित्ताविरोधी च कफकृद्रोचनो गुरुः ॥ २४॥ ग्राही गृञ्जनकस्तीक्ष्णो ग्रहयर्शोविकारनुत् ॥ २५॥ इति लवणादिवर्गः । कषायानुरसं नातिपित्तलं दाड़िमं स्मृतम् । दीपनोयं रुचिकरं हृद्यं वर्चोविबन्धनम् ॥ १ ॥ अनिलापहो वातप्रशमकः। कफकृदिति नात्यर्थं कफ- करः। पित्ताविरोधीति किञ्चित्पित्तकर इत्यर्थः। यदाह। नात्युष्णवीर्य्योऽनिलहा कटुश्च तीक्ष्णो गुरुर्नातिकफावहश्च। बलावहः पित्तकरोऽथ किञ्चित् पलाण्डुरग्निं परिवर्द्धयेच्च ॥ पलाण्डु पेयाज इति ख्याते ॥ २४ ॥ गृञ्जनक गाजर इति नाम्ना मगधादौ ख्यातः ॥ २५ ॥ इति लवणादिवर्गः । यद्यपि शाकेषु फलपाठाच्छाकानन्तरमेव फलगुणाभिधानं युक्तं तथापि शाकसंस्कारत्वेनान्तरङ्गत्वात् अल्पवक्तव्यत्वाच्च सूचिकटाहन्यायेन प्रथमं लवणादिवर्गमभिधाय अनन्तरं फल- गुणानाह कषायानुरसमिति। नातिपित्तलमिति। योग्यतया अम्लदाड़िममेवैवंगुणं बोध्यम् ईषत्पित्तकरमित्यर्थः। चरकेऽपि सर्वं पित्तलमम्लमन्यत्र दाड़िमामलकादिति इत्यत्र भट्टारहरि- चन्द्रेण दाड़िमग्रहणं निरस्य ॰ अन्यदामलकादित्येव पाठः
६६ द्रव्यगुणः । द्विविधं तत्तु विज्ञेयं मधुरञ्चाम्लमेव च । त्रिदोषघ्नन्तु मधुरमम्लं वातकफापहम् ॥ २ ॥ प्राचीनामलकञ्चैव दोषघ्नं गरहारि च ॥ ३ ॥ कर्कन्धुकोलवदरमामं पित्तकफावहम् । पक्वं पित्तानिलहरं स्निग्धं समधुरं सरम् ॥ ४ ॥ तच्छुष्कं कफवातघ्नं न च पित्ते विरुध्यते । पुराणं तृट्प्रशमनं श्रमघ्नं लघु दीपनम् ॥ ५ ॥ सौवीरं वदरं स्निग्धं मधुरं वातपित्तजित् ॥ ६॥ पुरस्कृत इति । चन्द्रिकाकारेणाप्यनुमतमेतत् । चक्रेणापि नातिपित्तलमित्येव पाठोऽनुमन्यते । किन्तु अस्मिन् पक्षे । अम्लं पित्तकरं प्रायो दाड़िमामलकादृते । इति वाग्भटविरोधो दुष्परिहर इत्यवधेयम् । अन्ये तु नापि पित्तलमिति पठित्वा अम्लं दाड़िमं पित्तं न करोति न च शमयतीति च व्याचक्षते । चरकेऽपि दाड़िमगुणे कफ- पित्तविरोधीत्युक्तम् । तत्राम्लं दाड़िमं पित्ताविरोधि मधुरन्तु कफाविरोधीत्याहुः ॥ १ ॥ प्राचीनामलकं प्रसिद्धम् ॥ ३ ॥ कर्कन्धुरल्पा शृगालकोलिः । कोलं मध्यप्रमाणवदरम् । वदरं महद्वदरम् । अम्लमिति पाठेऽप्यामेव आमावस्थायामेव तेषामम्लत्वात् पित्तकफावहमिति पित्तकफजनकम् ॥ ४ ॥ पुराणमिति पक्ववदरचूर्णम् । तदीयशुण्ठकमिति चक्रः ॥ ५॥ सौवीराख्यं वदरं महत्तमं आमपक्वावस्थासु मधुरमिति चन्द्रिकाकारः ॥ ६॥
द्रव्यगुणः। ६७ आम्रं बालं रक्तपित्तकरं मध्यन्तु पित्तलम् । पक्कं वर्णकरं रुच्यं मांसशुक्रबलप्रदम् ॥ पित्ताविरोधि वातघ्नं हृद्यं गुर्वनुलोमनम् ॥ ७ ॥ आम्रपेशी कषायाम्ला भेदनी कफवातजित् ॥८॥ आम्लातकं तर्पणञ्च वल्यं मधुरबृंहणम् । स्नेहनं श्लेष्मलं शीतं वृष्यं विष्टभ्य जीर्य्यति ॥६॥ लकुचं गुरु विष्टम्भि त्रिदोषं शुक्रदूषणम् ॥ १० ॥ करमर्दं तृषाहारि रुच्यमम्लपित्तकारकम् ॥ ११ ॥ वातपित्तहरं वृष्यं पियालं गुरु शीतलम् ॥ १२॥ आम्रस्यावस्थाभेदेन गुणभेदमाह आम्रमिति । भट्टारहरिचन्द्रेणापि चरके रक्तपित्तकरं बालमिति पाठं निरस्य वातपित्तकरं बालमित्येव पाठः पुरस्कृतः । चक्रेणा- प्यनुमतमेतत् । युक्तञ्चैतत् । सुश्रुतेऽपि पित्तमारुतकृद्वालमित्यु- क्तत्वात् । किन्तु वाग्भटे वातपित्तास्रकृद्वालमिति दर्शनात् रक्तपित्तकरत्वञ्चास्य न विरुध्यत इति ज्ञेयम् ॥ ७ ॥ आम्रपेशी शुष्काम्रम् ॥ ८ ॥ आम्लातकमाम्रफलसदृशमिति चन्द्रिका । आमडा इति ख्यात इति चक्रः । तद्द्विविधं मधुरमम्लञ्च । तत्र मधुरस्यै- वायं गुणश्चरकेषोक्तः । अम्लाम्लातकगुणस्य पश्चादुक्तत्वात् ॥६॥ लकुचो डहुः ॥ १० ॥ करमर्दं कण्टकीफलमिति चन्द्रिका । तद्द्विविधं मह- दल्पञ्च । तत्र महत् प्रायशो ग्रामभवमम्लञ्च । अल्पा तु कर- मर्दी वनजा मधुराम्लफला इति च व्याचष्टे ॥ ११ ॥
६८ द्रव्यगुणः। भव्यं स्वादु कषायाम्लं हृद्यमास्यविशोधनम् । पित्तश्लेष्महरं ग्राहि गुरु विष्टम्भि शीतलम् ॥१३॥ अम्लवेतसमत्यम्लं तीक्ष्णं स्निग्धञ्च दीपनम् ॥१४॥ वातापहं तिन्तिडीकमामं पित्तबलाशकृत् । ग्राह्युष्णं दीपनं रुच्यं सम्पक्वं कफवातनुत् ॥१५॥ अम्लिकायाः फलं पक्वं तस्माच्चाल्पतरं गुणैः ॥१६ कषायविषदत्वाच्च सौगन्ध्याच्च रुचिप्रदम् । अवदंशक्षमं रुच्यं वातलं लवलीफलम् ॥ १७ ॥ जम्बीरं वातकफनुद् गुरु पित्तप्रकोपणम् । तृष्णाशूलकफोत्क्लेशच्छर्द्दिश्वासनिवारणम् ॥१८॥ नागरङ्गं दुर्जरञ्च गुरु वातविनाशनम् ॥ १९ ॥ पियालो मगधे स्वनामख्यातः ॥ १२ ॥ भव्यं तालफलोपमं केवलवल्कलसंहतिमात्रमिति चन्द्रिका भानुमती च । अन्ये तु कर्मरङ्गफलं भव्यमाहुः ॥१३॥ अम्लवेतसं चैकलमिति उत्तरदेशे ख्यातम् ॥ १४ ॥ तिन्तिडीकं महार्द्रकम् न तु तिन्तिडीफलम् चरके सुश्रुते च पृथगेवाम्लिकायाः फलमित्यादिना तद्गुणपाठात् । पुरुषोत्त- मस्तु तिन्तिडीफलमम्लिकायाः फलमिति भ्रान्त्या महार्द्रक- गुणं पृथगेव पठति । तत्पुनरविरोधाज्जृम्भितम् ॥ १५ ॥ अम्लिकायाः फलं तिन्तिडीफलम् ॥ १६ ॥ अवदंशक्षममिति लवलीफलं प्राश्य द्रव्यान्तरे रुचिर्भवति इत्यर्थः ॥ १७ ॥
द्रव्यगुणाः। ६८ फलं वेत्रस्य वातघ्नमम्लपित्तविनाशकृत् ॥ २० ॥ मातुलुङ्गफलं हृद्यमम्लं लध्वग्निदीपनम् । श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोधनम् ॥ २१ ॥ बीजपूरस्य तिक्ता त्वग् दुर्जरा कफवातहृत् ॥ २२ ॥ तन्मांसं स्वादु शीतञ्च गुरु मारुतपित्तजित् ॥ २३ ॥ केशरन्तु लघु ग्राहि गुल्मार्शोघ्नं हि दीपनम् । मेध्यं शूलानिलच्छर्दिकफारोचकनाशनम् ॥ २४ ॥ एवम्प्रकारा विज्ञेया वृष्या च मधुकर्कटी ॥ २५ ॥ कपित्थमांसं कण्ठघ्नं विषघ्नं ग्राहि वातलम् । मधुराम्लकषायत्वात् सौगन्ध्याच्च रुचिप्रदम् । तदेव सिद्धं दोषघ्नं विषघ्नं ग्राहि गुर्व्वपि ॥ २६ ॥ जाम्बवं वातलं ग्राहि रूक्षं पित्तकफापहम् ॥ २७ ॥ मातुलुङ्गफलस्य प्रत्यवयवगुणं निर्द्दिशन्नाह बीजपूरस्येति । बीजपूरस्येति मातुलुङ्गस्य कफवातहृदिति कफवातनाशिनी तिक्ता त्वग्दुर्जरा तस्य वातक्रिमिकफापहेत्युक्तेः ॥ २२ ॥ मांसमिति त्वक्केशरमध्यभागः ॥ २३ ॥ मेध्यं मेधाहितं प्रभावात् ॥ २४ ॥ मधुकर्कटी मधुर इति ख्याता । मातुलुङ्गापेक्षया महा- प्रमाणा बहुमांसाल्पकेशरा ॥ २५ ॥ तदेवेति । कपित्थं सिद्धमिति कालवशात् पक्वम् ॥ २६ ॥ जम्बूस्त्रिविधा राजजम्बूर्महाफला । काकजम्बूर्व्वनजम्बू-
७० द्रव्यगुणाः । तिन्दुकं तुवरं स्वादु गुरु पित्तकफापहम् ॥२८॥ स्निग्धं स्वादु कषायञ्च राजादनफलं गुरु ॥२९॥ कषायमधुरं रूक्षं तोदनं कफवातजित् । रिति ख्याता। भूमिजम्बूरल्पफला। अत्र पुनरविशेषात् जाम्ब- वशब्देन सर्वजम्बूफलमुच्यते ॥ २७ ॥ तिन्दुकं गाव इति ख्यातं केन्दुरिति केचित्। तुवरं कषायरसं कषायरसत्वञ्चास्य आमावस्थायां स्वादुरसतास्य पक्वा- वस्थायामेव विज्ञेयम्। पित्तकफापहत्वञ्चास्यामपक्वसाधारणो गुणः। उक्तञ्च। आमं कषायं संग्राहि तिन्दुकं वातकोपनम् । विपाके गुरु सम्यकं मधुरं कफपित्तजित् ॥ अत्रामस्य वातकोपित्वेन पित्तकफहन्तृत्वमर्थलभ्यमेव ॥२८॥ राजादनफलम् खर्जूरसदृशं क्षीरिकायाः फलमिति चन्द्रिका ॥ २९ ॥ तोदनं वामप्रियं फलम् वारणाम्लिकेति दाक्षिणात्येषु ख्यातम्। ननु पित्ताग्निवर्द्धनमित्युभयोपादानं न युज्यते। सुश्रुते न खलु पित्तव्यतिरेकेणान्योऽग्निरुपलभ्यते इत्यादिना पित्ताग्न्योरभेदस्योक्तत्वात्। अनुमानञ्च पित्ताग्न्योरभेदसाध- कम् यथा अग्नित्वेन व्यवह्नियमाणं तेजः पित्तावयवरूपम् । पित्तवर्द्धनपित्तक्षपणकैर्वृद्धिह्रासयोगित्वात् प्रदेशान्तरस्थपित्ता- वयववदिति। आगमा अपि अग्निपित्तयोरभेदसाधका यथा। कनकं रजतं ताम्रं कृष्णायस्तपु सीसकम् । चिरस्थानाद्विलीयन्ते पित्ततेजःप्रतापनात् ॥ इति। तथा षष्ठी कला पित्तधरा इत्यादिना अग्न्याधा- रतया ग्रहण्युक्ता। तथा भोजेऽपि।
द्रव्यगुणाः । ७१ अम्लोष्णं लघु संग्राहि स्निग्धं पित्ताग्निवर्द्धनम् ॥ ३० ॥ अनुपाकिफलं स्वादु वातपित्तविनाशनम् ॥ ३१ ॥ क्षीरिवृक्षफलं विद्याद्गुरु विष्टम्भि शीतलम् । कषायमधुरं साम्लं नातिमारुतकोपनम् ॥ ३२ ॥ तस्मात् तेजोमयं पित्तं पित्तोष्मा यः स पक्तिमान् । इति अत्रोच्यते वह्निपित्तयोः पारमार्थिके हि अभेदे तीक्ष्णः पित्तेनाग्निरिति कार्यकारणभावो न स्यात् तथा कट्वजीर्ण- विदाह्यम्लचाराद्यैः पित्तमुल्बणम् । आप्लावयन्त्यनलमिति चरकवचनञ्च विरुध्यते । तथा पित्तशमकमपि घृतमग्निमेधे करोतीत्युक्तमसङ्गतं स्यात् । तथा समदोषः समाग्निश्चेति वचनेऽपि पौनरुक्त्यं दुष्परिहरं स्यात् । अभेदसाधकानुमाने चासिद्धो हेतुः । घृतस्य पित्तशमकस्यापि अग्निवर्द्धकत्वात् । तथा कट्वजीर्णविदाह्यम्लस्य च पित्तजननावान्तरव्यापारस्या- ग्न्युपघातकत्वात् । यदप्यभेदसाधकं पित्तं तेजःप्रतापनादिति वचनं तथा पित्तोष्मा यः स पक्तिमानिति च तदपि पित्ता- द्भिन्नस्य तदवयवस्य तेजसोऽग्नित्वं वदति । तस्मात् अवयवावय- विरूपेणाग्निपित्तयोर्भेदो विद्यत एव । सुश्रुतेन तु अवयवा- वयविनोरभेद एव विवक्षित इति न विरोधः । अभेदा- श्रयञ्च पित्तवर्द्धनैः प्रायो वर्द्धनमग्नेस्तच्छमकैश्च प्रायः शम- मग्नेरिति प्रतिपादनायैव । पित्ततेजोरूपतायाञ्च वह्ने- स्तेजोविपरीतपित्तद्रवांशवर्द्धकाजीर्णविदाह्यम्लादिभिर्व्यङ्गीभूत- द्रवपित्तजननादग्नेर्निर्वापणं युक्तमेवेति ॥ ३० ॥ अनुपाकीति । अनुया इति ख्यातम् ॥ ३१ ॥ क्षीरिवृक्षा न्यग्रोधोदुम्बराश्वत्थप्लक्षायः ॥ ३२ ॥
७२ द्रव्यगुणः । वाकुलं मधुरं स्निग्धं कषायं विषदञ्च तत् । स्थिरीकरञ्च दन्तानां संग्राहि फलमिष्यते ॥३३॥ परूषकं समधुरं कषायानुरसं लघु । वातघ्नं पित्तजननमत्यम्लं तदुदाहृतम् ॥ ३४ ॥ पक्वं समधुरं तच्च वातपित्तनिवर्हणम् ॥ ३५ ॥ कफानिलहरं तीक्ष्णं स्निग्धं संग्राहि दीपनम् । कटुतिक्तकषायोष्णं बालविल्वमुदाहृतम् ॥ तदेव विद्यात्सम्पक्वं मधुरानुरसं गुरु । विदाहि विष्टम्भकरं दोषकृत् पूतिमारुतम् ॥३६॥ आमपक्वभेदेन परूषकस्य गुणमाह परूषकमिति । अयञ्चामपरूषकगुणः । पक्वस्य वक्ष्यमाणत्वात् । परूषकं स्वनामख्यातम् ॥ ३४ ॥ तदिति परूषकम् ॥ ३५ ॥ विल्वस्याप्यामकभेदेन गुणमाह कफानिलहरमिति । बालविल्वं विल्वशलाटु । अत्र कफानिलहरमित्यारभ्य उदाहृतमित्यन्तञ्च प्रथमावस्थविल्वगुणः । तदेवेत्याद्यर्द्धश्लोकेन मध्यावस्थविल्वगुणः । विदाहीत्यादिः पूतिमारुतमित्यन्तः स्वादु- पक्वविल्वगुण इति । सम्पक्वमिति परिणतं मध्यावस्थमित्यर्थः । युक्तञ्चैतत् सुपक्वस्य हि मधुरानुरसता न युज्यते यतः पक्वस्य मधुर एव रसो नत्वन्यो रस इति । पूतिमारुतमिति पूति- शब्दोऽयं सुगन्धिवचनः । यथा पूतिः खट्वासः । यथा वनजा मधुकुकुटी पूतिपुष्पा सुगन्धिपुष्प्येत्यर्थः । तेन पूतिः सुगन्धि- मारुतो यस्य तत्तथा एतच्च विशेषणं सुपक्वावस्थाप्रदर्शनपरम् ।
द्रव्यगुणः। ७३ द्राक्षा तु मधुरा स्निग्धा शीता वृष्यानुलोमनी । रक्तपित्तज्वरश्वासतृष्णादाहक्षयापहा ॥ ३७ ॥ गोस्तनी या गुरुर्हृद्या द्राक्षा सा वातपित्तनुत्॥३८ केश्यं रसायनं मेध्यं काश्मर्य्याः फलमुच्यते ॥३६॥ खर्जूरं मधुरं वृष्यं स्निग्धं शोणितपित्तजित् । क्षतक्षयापहं हृद्यं शीतलं तर्पणं गुरु ॥ ४० ॥ मधूकस्य फलं पक्वं वातपित्तप्रणाशनम् । तस्य पुष्पं बृंहणीयमहृद्यं गुरु शीतलम् ॥४१॥ नारिकेलं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम् । यतः सुपक्वबिल्वसंसर्गी बाह्यपवनः सुगन्धिर्भवतीति । तदेव दोषत्रयकरं प्रभावात् । अन्ये तु पूतिमारुतं दुर्गन्धिकुक्षिवात- करमित्याचक्षते । तन्न सम्यक्प्रतीतेः मध्यबिल्वगुणनिर्देशा- चेति । नहि य एव बालविल्वस्य गुणः स एव मध्यस्यापि युज्यते इति चन्द्रिका । चक्रस्तु तदेव विद्यादित्यादिः पूतिमारुत- मित्यन्तः पक्वबिल्वगुण इत्याह । यतश्चरकेऽपि दुर्ज्जरं विल्व- सिद्धन्तु इत्यादिना द्विविधमेव वाग्भटेऽप्येवम् ॥ ३६ ॥ अनुलोमनी सरा मलभेदिनीति यावत् ॥ ३७ ॥ गोस्तनी बृहत्प्रमाणद्राक्षा ॥ ३८ ॥ काश्मरी गाम्भारी ॥ ३६ ॥ खर्जूरं द्विविधं महाप्रमाणं स्वल्पप्रमाणञ्च । तत्राद्यं पिण्ड- खर्जूरं पारसीयदेशोद्भवम् । स्वल्पप्रमाणञ्च विट्खर्जूरम् ॥ ४०॥ मधूकस्य पुष्पाणां फलवदुपयोगात् तत्समानगुणत्वाच्चात्रा- भिधानं बोध्यम् । अहृद्यमिति मदजनकत्वात् ॥ ४१ ॥ ७
७४ द्रव्यगुणः । बलमांसकरं हृद्यं वृंहणं वस्तिशोधनम् ॥ ४२ ॥ तालं स्वादुरसं पक्वं गुरु पित्तविनाशनम् । तद्बीजं स्वादुपाकन्तु मूत्रलं वातपित्तजित् ॥४३॥ कदलं मधुरं हृद्यं कषायं नातिशीतलम् । वातपित्तहरं रुच्यं वृष्यं श्लेष्मकरं गुरु ॥ ४४ ॥ श्लेष्मलं मधुरं शीतं श्लेष्मातकफलं गुरु ॥४५॥ पनसं सकषायन्तु स्निग्धं स्वादुरसं गुरु । पथ्या पञ्चरसायुष्या चक्षुष्या लवणा सरा । मेध्योष्णा दीपनी दोषशोथकुष्ठज्वरापहा ॥ ४६ ॥ धात्री तद्वद्विशेषेण वृष्या शीतैव वीर्य्यतः । हन्ति वातं तदम्लत्वात् पित्तं माधुर्य्यशैत्यतः । कफं कटुकषायत्वात् फलेभ्योऽप्यधिकञ्च तत्॥४७ अक्षं भेदनरूक्षोष्णं वैस्वर्य्यं क्रिमिनुत् कटु । तद्बीजमिति तालबीजम् ॥ ४३ ॥ कदलं कदलीफलं तच्च नानाविधं ज्ञेयम् ॥ ४४ ॥ श्लेष्मातको बहुवारः ॥ ४५ ॥ अलवणा सती पञ्चरसा इत्यर्थः ॥ ४६ ॥ अत्र दोषोपशमने यत् कारणं वर्णितं तद्यद्यपि पित्ता- दिसमानतया पित्तादिवर्द्धनमपि युज्यते तथाप्यामलक्याः शिव- त्वप्रभावात् दोषशमनमेव परं करोति न प्रकोपमिति ज्ञेयम् । एतदेवाह फलेभ्योऽप्यधिकञ्च तत् । अधिकमिति श्रेष्ठं शिवत्व- प्रभावयोगादिति भावः ॥ ४७ ॥
द्रव्यगुणाः । ७५ चक्षुष्यं स्वादुपाकञ्च कषायं कफपित्तनुत् ॥४८॥ पथ्या मज्जा तु चक्षुष्यो वातपित्तहरो गुरुः ॥४६॥ वैभीतको मदकरः कफमारुतनाशनः ॥ ५० ॥ कोलमज्जा तु मधुरः कषायः पित्तनाशनः । तृष्णाच्छर्द्यनिलघ्नश्च धात्रीमज्जापि तद्गुणः ॥५१॥ पियालमज्जा मधुरो वृष्यः पित्तानिलापहः ॥५२॥ यस्य यस्य फलस्येह वीर्य्यं भवति यादृशम् । तस्य तस्यैव वीर्य्येण मज्जानमपि निर्द्दिशेत् ॥५३॥ भल्लातकास्थ्याग्निसमं त्वङ्मांसं स्वादु शीतलम् ॥५४ करञ्जकिंशुकारिष्टफलं जन्तुप्रमेहनुत् । रूक्षोष्णं कटुकं पाके लघु वातकफापहम् ॥५५॥ तिक्तमीषद्विषहितं विडङ्गं क्रिमिनाशनम् ॥५६॥ फलेषु परिपक्कं यद् गुणवत् तदुदाहृतम् । प्रसङ्गान्मज्जगुणमाह पथ्येति ॥ ४६ ॥ वैभीतको विभीतकमज्जा ॥ ५० ॥ अनुक्तमज्जगुणातिदेशार्थमाह यस्येति । वीर्य्यं रसादि येन कुर्व्वन्ति तद्वीर्य्यमित्युक्तेः ॥ ५३ ॥ अग्निसममिति स्फोटादिजनकत्वात् ॥ ५४ ॥ करञ्जो वृत्तकरञ्जः किंशुकः पलाशः अरिष्टो निम्बः जन्तुः क्रिमिः ॥ ५५ ॥ ईषत्तिक्तमित्यन्वयः ॥ ५६ ॥ इदानीं यादृशावस्थं फलमुपादेयं तदाह फलेष्विति ।