द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 68, कुल 176 में से
संदर्भ में पढ़ें६० द्रव्यगुणाः । आस्वादतो भूतगुणैर्ग्रहीत्वा तदादिशेद्द्रव्यमनल्पबुद्धिः ॥ २८ ॥ शाकं हिनस्ति वपुरस्थि निहन्ति नेत्रम् वर्णं विनाशयति शुक्रमथासृजञ्च । ओजःक्षयं प्रकुरुते पलितञ्चकाले हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः॥२६॥ ख्यः। इहेति शास्त्रे । अप्रमेयादिति भावपरो निर्देशः। तेना- नन्त्यादित्यर्थः । अयञ्चावचने हेतुः। अत्रैवार्थे चरकोऽप्याह। अन्नपानैकदेशोऽयमुक्तः प्रायोपयोगिकः । द्रव्याणि न हि निर्दिष्टुं शक्यं कार्त्स्न्येन नामभिः ॥ इति । अप्रमोहादिति च क्वचित् पाठः । अन्ये तु अनुक्तमपि प्रमादादिति पठन्ति । तन्न प्रमादोऽनवधानं मिथ्याज्ञानमिति यावत् । तत्तु मुनीनां नास्त्येवेति । आस्वा- दत इति रसतः। रसानां मधुरादीनां ये गुणाः शीतोष्ण- त्वादयः । यानि वा कर्माणि वातादिहरणह्लादनादीनि तैस्तै- र्गुणकर्मभिस्तत्तदनुक्तद्रव्यमादिशेत् ब्रूयादित्यर्थः । भूतगुणै- श्चेति चकारात् पार्थिवादिद्रव्यारम्भकाणां भूतानां ये गुणाः स्थूलसान्द्रत्वादयस्तैर्द्रव्यस्य पार्थिवादिकमवधार्य्य पार्थिवादि- द्रव्यप्रतिबद्धैर्गुणकर्मभिरेव तत्तदनुक्तं द्रव्यमादिशेदित्यर्थः । तत्तद्भूतगुणग्रहणञ्च किञ्चित् प्रत्यक्षतः किञ्चिदुपयुक्तवचनतः । किञ्चिदुपयोगतश्चेति ज्ञेयम् ॥ २८ ॥ इति शाकवर्गः ।