द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 69, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । ५१ शाकेषु सर्वे निवसन्ति रोगा रोगो हि देहस्य विनाशहेतुः । तस्माद्बुधैः शाकविवर्जनं हि कार्य्यं तथाम्लेषु स एव दोषः ॥ ३० ॥ इति शाकवर्गः । सैन्धवं दीपनं हृद्यं चक्षुष्यं रोचनं लघु । स्निग्धं वृष्यञ्च मधुरं शीतं दोषघ्नमुत्तमम् ॥ १ ॥ सामुद्रं मधुरं पाके नात्युष्णमविदाहि च । भेदनं स्निग्धमीषच्च शूलघ्नं नातिपित्तलम् ॥ २॥ विडं सक्षारतीक्ष्णोष्णं सूक्ष्मं दीपनरोचनम् । शूलहृद्रोगशमनं रुचं वातानुलोमनम् ॥ ३ ॥ सौवर्चलन्तु वीर्य्योष्णं विशदं कटुकं लघु । गुल्मशूलविबन्धघ्नं हृद्यं सुरभि दीपनम् ॥ ४ ॥ सैन्धवादीनां व्यञ्जनसंस्कारकत्वात् शाकानन्तरं लवणादि- वर्गमाह । अत्रापि लवणेषु सैन्धवस्य श्रेष्ठत्वात् प्रथमं तद्गुण- माह सैन्धवमिति । अत्र मधुरमित्यनन्तरं चकारो योज्यः । तेनषण्मधुरत्वं बोध्यते चशब्दसमुचितत्वात् । दोषघ्नमिति त्रिदोषहरम् । उत्तममिति लवणेषु श्रेष्ठम् । उक्तञ्च । त्रिदोषघ्नं समधुरं सैन्धवं लवणोत्तममिति ॥ १ ॥ दक्षिणसमुद्रे भवतीति सामुद्रं करकचलवणम् । २ ॥ विडं कृत्रिमं स्वनामख्यातम् । ३ ॥ ६