द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 70, कुल 176 में से
संदर्भ में पढ़ें६२ द्रव्यगुणः। सौवर्चलगुणाः कृष्णलवणे गन्धवर्जिताः ॥ ५ ॥ सतिक्तं कटु सक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम् ॥ ६ ॥ रोमकं तीक्ष्णमुष्णञ्च व्यवायि कटुपाकि च । वातघ्नं लघु विष्यन्दि सूक्ष्मं विड्भेदि मूत्रलम् ॥ ७ दीपनं पाचनं भेदि लवणं गुड़िकाह्वयम् । कफवातक्रिमिघ्नञ्च लेखनं पित्तकोपनम् ॥ ८ ॥ क्षारास्तु दीपनाः सर्वे रक्तपित्तकराः सराः । गुल्मार्शोग्रहणीदोषशर्कराश्मविनाशनाः ॥ ९ ॥ ज्ञेयौ वह्निसमौ क्षारौ सर्जकायवशूकजौ । शुक्रश्लेष्माविवन्धार्शोगुल्मप्लीहविनाशनौ ॥ १० ॥ सौवर्चलं प्रसिद्धम् ॥ ४ ॥ भुवमुद्भिद्योत्पन्नस्य क्षारोदकस्य सूर्य्यरश्मिभिर्वर्द्धितापाद्वा कयनाद्यल्लवणमुत्पद्यते तदौद्भिदमिति निवन्धसंग्रहः । चक्रस्तु ऊषरदेशोद्भवमुत्चारिकालवणमौद्भिदलवणमित्याह । अन्ये तु पाक्यलवणमौद्भिदमित्याहुः ॥ ६ ॥ रुमा नाम नदी तद्भवं रोमकन् । साम्भरिदेशोत्थं लवणं गड़लवणमिति ख्यातमित्यन्ये । विष्यन्दीति कफस्रावकारक- मिति डल्लनः । सूक्ष्मस्रोतोऽनुसारित्वात् सूक्ष्मम् ॥ ७ ॥ पाक्यलवणविशेषगुड़िकालवणगुणमाह दीपनमिति । पाका- दतिकठिनीभावेन गुड़िकाकारं लवणं गुड़िकालवणम् ॥ ८ ॥ क्षाराणामपि लवणरसत्वात् क्षारगुणानप्यत्रैवाह क्षारा इति ॥ ९ ॥ क्षारविशेषगुणमाह ज्ञेयाविति ॥ १० ॥