द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 78, कुल 176 में से
संदर्भ में पढ़ें७० द्रव्यगुणाः । तिन्दुकं तुवरं स्वादु गुरु पित्तकफापहम् ॥२८॥ स्निग्धं स्वादु कषायञ्च राजादनफलं गुरु ॥२९॥ कषायमधुरं रूक्षं तोदनं कफवातजित् । रिति ख्याता। भूमिजम्बूरल्पफला। अत्र पुनरविशेषात् जाम्ब- वशब्देन सर्वजम्बूफलमुच्यते ॥ २७ ॥ तिन्दुकं गाव इति ख्यातं केन्दुरिति केचित्। तुवरं कषायरसं कषायरसत्वञ्चास्य आमावस्थायां स्वादुरसतास्य पक्वा- वस्थायामेव विज्ञेयम्। पित्तकफापहत्वञ्चास्यामपक्वसाधारणो गुणः। उक्तञ्च। आमं कषायं संग्राहि तिन्दुकं वातकोपनम् । विपाके गुरु सम्यकं मधुरं कफपित्तजित् ॥ अत्रामस्य वातकोपित्वेन पित्तकफहन्तृत्वमर्थलभ्यमेव ॥२८॥ राजादनफलम् खर्जूरसदृशं क्षीरिकायाः फलमिति चन्द्रिका ॥ २९ ॥ तोदनं वामप्रियं फलम् वारणाम्लिकेति दाक्षिणात्येषु ख्यातम्। ननु पित्ताग्निवर्द्धनमित्युभयोपादानं न युज्यते। सुश्रुते न खलु पित्तव्यतिरेकेणान्योऽग्निरुपलभ्यते इत्यादिना पित्ताग्न्योरभेदस्योक्तत्वात्। अनुमानञ्च पित्ताग्न्योरभेदसाध- कम् यथा अग्नित्वेन व्यवह्नियमाणं तेजः पित्तावयवरूपम् । पित्तवर्द्धनपित्तक्षपणकैर्वृद्धिह्रासयोगित्वात् प्रदेशान्तरस्थपित्ता- वयववदिति। आगमा अपि अग्निपित्तयोरभेदसाधका यथा। कनकं रजतं ताम्रं कृष्णायस्तपु सीसकम् । चिरस्थानाद्विलीयन्ते पित्ततेजःप्रतापनात् ॥ इति। तथा षष्ठी कला पित्तधरा इत्यादिना अग्न्याधा- रतया ग्रहण्युक्ता। तथा भोजेऽपि।